वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)
Vaiyakarana Siddhanta Kaumudi of Bhattoji Dikshita with Commentary
भट्टोजि दीक्षित (टीकाकार: वासुदेव दीक्षित एवं ज्ञानेन्द्र सरस्वती) द्वारा
पूर्वभागः । ( ९ )
विध्यादिवाक्यघटकविभक्तिपदार्थादिज्ञानम्, १२ पदाक्षरादिविभागज्ञानम्, १३ चतुर्विधपदजात- कालव्यङ्ग्यव्यञ्जकविभक्तिस्थानभेदज्ञानम्, यद्वा सकलपदजातज्ञानम्, १४ वाग्विस्तारसम्पत्तिः, १५ असाधुशब्देभ्यो विविच्य सुशब्दज्ञानम्, १६ अपशब्दप्रयोगजन्यप्रत्यवायपरिहारकप्राय- श्चित्ताभावः, १७ नामकरणेषु विहितनामस्वरूपज्ञानम्, १८ सर्वविभक्त्यन्तानां सम्यगुच्चार- णमिति । एतद्व्याख्यानं महाभाष्ये विस्तृतम् । तथापि किञ्चिन्निरूप्यते । तद्यथा-( १ ) भद्रं कर्णेभिरित्यादौ लोकविलक्षणस्य कर्णेभिरित्यस्य "बहुलं छन्दसि" इति व्याकरणेन साधु- त्वम् । ( २ ) अग्नये त्वा जुष्टं निर्वपामीत्यादौ सूर्योद्देश्यताकत्वविवक्षायां सूर्याय त्वा जुष्टं निर्वपामीत्याद्यूहो व्याकरणेन सिध्यति ( ३ ) विश्वेदेवासः इत्यादौ "आज्जसेरसुक्" इत्यसु- गागम इत्यादिकं व्याकरणेन सिध्यति । ( ४ ) ब्राह्मणस्याध्यापनं धर्मः । तच्चाध्यापनं वैदुष्या- यत्तम् । तच्च शब्दार्थादिषु साध्वसाधुत्वप्रतियोगिकभेदज्ञानाधीनम् । तच्च शब्दादीनां प्रतिपद- पाठादिना दुःशकम् । शब्दादीनामानन्त्यात् । तस्मादुत्सर्गापवादाद्यनुगमकलक्षणेनैव तज्ज्ञानं साध्यम् । तेन लाघवमपि । अत एव महाभाष्ये "बृहस्पतिरिन्द्राय दिव्यं वर्षसहस्रं प्रतिप- दोक्तानां शब्दानां शब्दपारायणं प्रोवाच । नान्तं जगाम । इन्द्रश्चाध्येता । बृहस्पतिर्वक्ता । दिव्यं वर्षसहस्रमध्ययनस्य कालः । न चान्तं जगाम" इत्युक्तम् । शब्दपारायणम्-योगरूढ्या तदाख्यशास्त्रविशेष इति कैयटः । एवं च प्रतिपदपाठस्य दुश्शकत्वप्रतिपादकोऽयमर्थवादः । ( ५ ) "स्थूलपृषतीमनड्वाहीमालभेत", "इन्द्रशत्रुर्वर्धस्व" इत्यादौ बहुव्रीहिस्तत्पुरुषो वेति सन्देहे पूर्वपदप्रकृतिस्वरेण बहुव्रीहिरिति तु व्याकरणेन सिध्यति । ( अत्रेयमाख्यायिका ) पुरा किल त्वष्टुर्ब्रह्मणः पुत्रे इन्द्रेण निहते विश्वरूपवधात्कुपितेन त्वष्ट्राऽऽरब्धे वीन्द्रे सोमेऽनपहूतेनैवे- न्द्रेण पीतस्य सोमस्यावशेषं दृष्ट्वा क्रुद्धस्त्वष्टेन्द्रहन्तृवृत्राख्यपुत्रोत्पादनायाऽभिचारिकं यियक्षमाणः आहवनीयमुपप्रावर्तयत्स्वाहेन्द्रशत्रुर्वर्धस्वेति । ततो वृत्र उदभूदिति श्रूयते तैत्तिरीयसंहिता- याम् । तदेतच्छ्रुत्वा भीत इन्द्रः ब्रह्मलोकं गत्वा सरस्वतीं तुष्टाव । ततोनुकम्पया सरस्वती [L22
( १० ) लघुत्रिमुनिकल्पतरुः । ( ८ )—“स्थाणुरयं भारहारः किलाभूदधीत्य वेदं न विजानाति योऽर्थम् । योऽर्थवित्स- कलं भद्रमश्नुते नाकमेति ज्ञानविधूतपाप्मा” इति “यदधीतमविज्ञातं निगदेनैव शब्द्यते ॥ अनग्नाविव शुष्कैधो न तज्ज्वलति कर्हिचित्” “अनर्थज्ञोऽल्पकण्ठश्च षडेते पाठकाधमाः ” इति च भाष्यादावुक्तरीत्यार्थज्ञानमन्तरा वेदानुपूर्वीज्ञानस्य निरर्थकत्वोक्तेरर्थज्ञानमावश्यकम् । तच्च व्याकरणाध्येतुः प्रकृतिप्रत्ययार्थज्ञानेन सुसाध्यं, नान्यस्य । अत एव “वेदार्थज्ञो जपं जप्त्वा तथैवाध्ययनं द्विजः । कुर्वन्स्वर्गमवाप्नोति नरकं तु विपर्यये” इति व्यासेनोक्तम् । ( ९ )—एकस्यापशब्दस्य भूयांसोऽपशब्दाः । संस्कृततदतिरिक्तभाषाशब्दादयः इति यावत् तत्प्रयोगेण दुष्यति । एकस्य सुशब्दस्य प्रयोगे तु न तथा दुष्यति । अनन्तफलमप्या- प्नोति तद्दोषप्राप्तिपरिहारो व्याकरणेनैव सिध्यत्यनन्तफलप्राप्तिश्च । तदेतदुच्यते “यस्तु प्रयु- ङ्क्ते कुशलो विशेषे शब्दान्यथावद्व्यवहारकाले । सोऽनन्तमाप्नोति फलं परत्र वाग्योगविद्दुष्यति चापशब्दैः” इति । ( १० )—प्रत्यभिवादे गुर्वादिभिः स्त्रीभिन्नैः प्लुतः कार्य इति विधिरस्ति । तच्च व्याकरण- ज्ञानाधीनम् ॥ ( ११ )—“प्रयाजाः सविभक्तिकाः कार्याः” इति विधिवाक्यानुसारेण तत्र वाक्येषु तत्त- द्विभक्त्यन्तघटिततयोच्चारणं व्याकरणेनैव सिध्यति । ( १२ ) साच्कव्यञ्जनरूपाक्षरज्ञानं पदज्ञानं वाक्यज्ञानं च व्याकरणज्ञानाधीनम् । ( १३ )—यत्र नामाख्यातोपसर्गनिपातरूपचतुर्विधपदज्ञानं, भूतभविष्यद्वर्तमानतदवान्तराद्य- तनानद्यतनकालज्ञानं, व्यङ्ग्यव्यञ्जकशब्दज्ञानं सप्तविभक्तिज्ञानं तत्तद्वर्णिनामुरःकण्ठशिरोरूपस्थान- त्रयज्ञानं तत्र मनुष्ये शब्दः प्रविश्य तथा प्रकाशमापेदे इति ज्ञानं व्याकरणज्ञानाधीनम् । तत्रेयं श्रुतिः—“चत्वारिवाग्-.” इत्यादि । अथ वा “परापश्यन्ती मध्यमा वैखरी” इति चतस्रो वाचः । तत्र तिस्रो गुहायां मूलाधारस्वाधिष्ठानमणिपूरकाख्येषु स्थानेषु क्रमेण सन्ति ॥ तुरीयां वैखर्याख्यां वाचं मनुष्या मुखेनोच्चारयन्तीत्यर्थः । एवं च वर्णानामुत्पत्तिवृद्ध्यादिक्रमो व्याकरणाधीनः । ( १४ )—बहूनामपि समानपृष्ठोदरपाणिपादानां वेदवेदाङ्गादिकमधीयमानानां स्वभ्यस्ता- ध्ययनोपि सूक्ष्मबुद्धिरपि कश्चित्पदशः प्रकृतिप्रत्ययविभागेन विगृह्यार्थेनैनां न पश्यति न जानाति वाचम् । अर्थपरिज्ञानमेव हि वाचां फलम् । एकः शृण्वन्नपि न शृणोत्येनाम् । य एव हि सम्यगर्थं जानाति स एवैनां वाचं जानाति शृणोति च । तत्रेयं श्रुतिः—“उत त्वः पश्यन्न ददर्श वाचमुतत्वः शृण्वन्न शृणोत्येनाम् । उतो त्वस्मै तन्वाँ ३ विसस्रे जायेव पत्य उशती सुवासाः” इति । अर्थो हि वाचश्शरीरम् । प्रातिपदिकाद् धातोश्चार्थादौ प्रत्ययानां विधानात् । तच्च ज्ञानं व्याकरणज्ञानाधीनम् । ( १५ )—सुशब्दापशब्दसमूहात्परिशोध्यापशब्दान्विहायैव सुशब्दसंपत्सम्पादनं व्याकरण- ज्ञानाधीनम् । तदाह श्रुतिः—“सक्तुमिव तितउना पुनन्तो यत्र धीरा मनसा वाचमक्रत । अत्रा सखायस्सख्यानि जानते भद्रैषां लक्ष्मीर्निहिताधिवाचि” इति ।
पूर्वभागः । ( ११ )
( १६ )—आहिताग्निरपशब्दं प्रयुज्य प्रायश्चित्ती स्यात् । तदनिष्टपरिहारश्च व्याक- रणज्ञानाधीनः । ( १७ )—दशम्युत्तरकालं जातस्य पुत्रस्य नाम विदध्याद्घोषवदाद्यन्तरन्तःस्थमवृद्धं तत्संब- न्धित्रिपुरुषान्यतमाभिधायि शत्रोर्मनुष्यस्य वा यन्नाम न भवति, किन्तु देवतादेः तथाभूतं द्वयक्षरं चतुरक्षरं वा कृदन्तं नाम कार्यम् । न तद्धितान्तमिति विविधविहितरीत्या नामकरण- ज्ञानं व्याकरणज्ञानाधीनम् । ( १८ )—यो व्याकरणज्ञः स शब्दान् यथेच्छं विनियोक्तुं शक्नोति, नान्य इति तदेतदपि व्याकरणज्ञानाधीनमिति च महाभाष्ये स्पष्टमिति दिक् ॥ तज्जिज्ञासुरधिकारी । प्रतिपाद्यप्रतिपादकभावादिसंबन्ध इति ज्ञेयम् । वेदोपाङ्गानि तु—“पुराणं न्यायो मीमांसा धर्मशास्त्रम्' इति । ( पुराणं ) द्विविधम्- महापुराणमुपपुराणं चेति । एकैकं पुनरष्टादशधा भवति । तच्चोभयं व्यासकृतम् । व्यासाः— बहव इत्युक्तमित्यन्यत् । न्यायः—पदार्थानां सर्वेषामनुगमरूपेण प्रकाशकः काणादादिमहर्षि- प्रणीतो ग्रन्थः । मीमांसा—वेदार्थकर्मनिर्णायको ग्रन्थः । स च प्रकारः किञ्चित्प्राक् संक्षेपेण निरूपितः । धर्मशास्त्रम्—मन्वादिमहर्षिप्रणीतः स्मृत्यादिरूपो ग्रन्थ इत्यलम् । अथ वेदवेदाङ्गयोरध्ययनादिकालो निरूप्यते— “श्रावण्यां प्रौष्ठपद्यां वा ह्युपाकृत्य यथाविधि । युक्तश्छन्दांस्यधीयीत मासान्विप्रोऽर्द्धपञ्च- मान्'' ॥ ४ । ९५ ॥ “ततः परंन्तु छन्दांसि शुक्लेषु नियतः पठेत् । वेदाङ्गानि रहस्यं च कृष्णपक्षेषु संपठेत्” ॥ ४ । ९८ ॥ इति मनूक्तेः । स्मृत्यन्तरं च “इत ऊर्ध्वमनध्याये- ष्वाङ्गान्यधीयीत” इति स्मृत्यन्तराद्युक्तेश्च श्रावण्यामुपाकर्मपक्षे तत आरभ्य, प्रौष्ठपद्यामुपाकर्म- पक्षे तत आरभ्य सार्द्धचतुर्मासपर्यन्तं वेदाध्ययनं कार्यम् । “पुष्ये तु छन्दसां कुर्याद्बहिरुत्सर्जनं द्विजः । माघशुक्लस्य वा प्राप्ते पूर्वार्द्धे प्रथमेऽहनि ॥ ४ । ९६ ॥ यथाशास्त्रं तु कृत्वैवमुत्सर्गं छन्दसां बहिः । विरमेत्पक्षिणीं रात्रिं तदैवकमहर्निशम्” ॥ ४ । ९७ ॥ इति मनूक्तेः सार्द्ध- चतुर्मासान्तर्गतान्तिमपक्षान्तर्गतदिनेषु यत्र पुष्यः तत्रोत्सर्गः कार्यः, माघशुक्लस्य प्रथमेऽहनि प्रौष्ठ- पद्यां येनोपाकर्म कृतं तेनोत्सर्गः कार्य इत्यर्थः एवमुत्सर्गादित्रिदिनानध्यायानन्तरं शुक्लपक्षेषु वेदान्, कृष्णपक्षेषु तत्रानध्यायेष्वपि वेदाङ्गानि चाधीयीत । पठेदित्युक्ते वेदाङ्गानामुक्तकालेष्वप्य- ध्ययनं सिद्धमिति दिक् । ( अङ्गाध्ययनादिषु नानध्यायदोषो भवति )— “अनध्यायस्तु नाङ्गेषु नेतिहासपुराणयोः । न धर्मशास्त्रेष्वन्येषु पर्वण्येतानि वर्जयेद्” इति “नित्ये जपे च काम्ये च क्रतौ पारायणेपि च । नानध्यायोस्ति वेदानां ग्रहणे गाहणे स्मृतः” इति च क्रमेण कौर्मशौनकीययोर्वचनात् । अथ वेदतदङ्गोपाङ्गाध्ययनाध्यापनविध्यादयः । नन्वस्तु वेदाङ्गत्वं व्याकरणस्य । तदध्ययने वेदाध्ययने वा प्रवृत्तिः कुतः स्यादिति
चेद् ॥ अत्रोच्यते ॥ “ब्राह्मणेन निष्कारणेन षडङ्गो वेदोऽध्येयो ज्ञेयश्च” इति श्रुत्या, “द्वे विद्ये वेदितव्ये परा चैवापरा च । तत्रापरा ऋग्वेदो यजुर्वेदः सामवेदोऽथर्वणवेदश्शिक्षा कल्पो व्याकरणं निरुक्तं छन्दो ज्योतिषम् ” इति मुण्डकश्रुत्या, “स्वाध्यायोऽध्येतव्यः”, “स्वाध्यायप्रव- चनाभ्यां न प्रमदितव्यम्” इति श्रुतिभ्यां “छन्दः पादौ तु वेदस्य हस्तौ कल्पोथ पठ्यते । ज्योतिषामयनं चक्षुर्निरुक्तं श्रोत्रमुच्यते । शिक्षा घ्राणं तु वेदस्य मुखं व्याकरणं स्मृतम् । तस्मात्सा- ङ्गमधीत्यैव ब्रह्मलोके महीयते” इति शिक्षावाक्येन, “द्वे च विद्ये वेदितव्ये इति चाथर्वणी श्रुतिः । परया त्वक्षरप्राप्तिः ऋग्वेदादिमयी परा” इति विष्णुपुराणोक्त्या, “द्वे च विद्ये वेदितव्ये परा चैवापरा द्विज । ऋग्यजुस्सामाथर्वाख्यो वेदा अङ्गानि षड् द्विजाः । शिक्षा कल्पो व्याकरणं निरुक्तं ज्योतिषं तथा । छन्दश्शास्त्रं च मीमांसा धर्मशास्त्रं पुराणकम् । न्यायो वैद्यकगांधर्वधनु- र्वेदार्थशास्त्रकम् । अपरेयं परा विद्या तया ब्रह्म निगद्यते” इत्याग्नेयोक्त्या च, यथा “अहरह- स्सन्ध्यामुपासीत” इत्यादिश्रुत्या सन्ध्यावन्दनादिकं दृष्टफलाश्रवणेपि कारणमनपेक्ष्यैव कर्तव्य- त्वेन विधीयते, तथा वेदवेदाङ्गतदुपाङ्गाध्ययनमपि कारणमनपेक्ष्यैव ब्राह्मणस्य कर्तव्यत्वेन विधी- यते । किंच “सत्यान्मा प्रमदः” “सत्यं वद” “नानृतं वदेद्” इति श्रुतिभ्यः “न म्लेच्छितवै नापभाषितवै म्लेच्छो ह वा एष यदपशब्दः” इति भाष्याद् यज्ञे कर्मण्यपशब्दो- च्चारणे “सारस्वतीयामिष्टिं निर्वपेद्” इति श्रुतेः “विहितस्याननुष्ठानान्निन्दितस्य च सेवनात् । अनिग्रहाच्चेन्द्रियाणां नरः पतनमृच्छति” इति स्मृतेश्च कर्तव्येन विहितस्य वेदतदङ्गाध्ययनस्या- करणेऽविहितस्यापशब्दस्योच्चारणे सुशब्दस्यानुच्चारणे वा सत्यप्रमादादिजन्यप्रत्यवायजन्यापूर्वद्वार- कानिष्टभयोत्पत्त्यापत्तेस्तन्निवृत्तये तदध्ययनं विहितम् । किञ्च “ यस्य वेदश्च वेदी च विच्छिद्येते त्रिपूरुषम् । स वै दुर्ब्राह्मणो ज्ञेयः सर्वकर्मबहिष्कृतः ” इति स्मृतेः “योऽनधीत्य द्विजो वेद- मन्यत्र कुरुते श्रमम् । स जीवन्नेव शूद्रत्वमाशु गच्छति सान्वयः ” इति स्मृतेः “द्विजातीनाम- ध्ययनमिज्या दानमिति ब्राह्मणस्याधिकाः प्रवचनयाजनप्रतिग्रहाः पूर्वेषु नियमः ” इति गौतमो- क्तेः, “तपो दमो दया दानं सत्यं धर्मश्श्रुतं घृणा । विद्या विज्ञानमास्तिक्यमेतद्ब्राह्मणलक्षणम् ” इति स्मृतेः, “ वेदः कृत्स्नोधिगन्तव्यस्स्रहस्यो द्विजन्मना । कुविवाहैः क्रियालोपैर्वेदानध्ययनेन च । कुलान्यशु विनश्यन्ति ” इति मनुस्मृतेश्च द्विजानां श्रुतविद्याध्ययनाध्यापनाग्निहोत्राचर- णदानतपोदमदयासत्यविज्ञानसंपादनास्तिकत्वान्यावश्यकानि भवन्ति । किं च “शास्त्रं सुनिश्चि- तमपि प्रतिचिन्तनीयमाराधितोपि नृपतिः परिशङ्कनीयः । अङ्के स्थितापि युवतिः परिपाल- नीया शास्त्रे नृपे च युवतौ च कुतो वशित्वम् ” इति नीतिकृदुक्तेरावर्तनादिकं चात्यावश्य- कम् । “विद्या विहीनः पशुः ” इत्युक्तिरप्युक्ताशयेनैव । एवं चैतदध्ययनं ब्राह्मणस्य नित्यमिति सिद्धम् ॥ तथा काम्यत्वमपि—“एकश्शब्दस्सम्यग्ज्ञातः सुष्ठु प्रयुक्तश्शास्त्रान्वितस्स्वर्गे लोके कामधुग्भवति” इति श्रुत्या मतान्तरे स्मृत्या “ अङ्गानि वेदाश्चत्वारो मीमांसा न्यायविस्तरः । पुराणं धर्मशास्त्राणि विद्या ह्येताश्चतुर्दश ” “ पुराणन्यायमीमांसाधर्मशास्त्राङ्गमिश्रिताः । वेदाः स्थानानि विद्यानां धर्मस्य च चतुर्दश ” इति च स्मृतिभ्यां धर्मादिकाम्यफलसम्पादकत्वोक्तेः ।
अत एव “ यश्च व्याकुरुते वाचं यश्च मीमांसतेऽध्वरम् । तावुभौ पुण्यकर्माणौ पंक्तिपावन- पावनौ ” इति “ यस्तु प्रयुङ्क्ते कुशलो विशेषे शब्दान्यथावद्व्यवहारकाले । सोऽनन्तमाप्नोति फलं परत्र वाग्योगविदुष्यति चापशब्दैः-”, इति “ नाकमृष्टिसुखं यान्ति सुयुक्तैर्वडवारथैः । अथ पत्काषिणो यान्ति येचीकम्रतभाषिणः ;” इति च महाभाष्यं “ पातं जले विष्णुपदाप- गायाः पातञ्जले चापि न येऽवगाहम् । आ च क्षतेश्शुद्धिदमा प्रसूतेराचक्षते रागमधोक्षजे च ” इत्यभियुक्तोक्तं च संगच्छते । अत एव “ आपः पवित्रं परमं पृथिव्यामपां पवित्रं परमं च मन्त्राः । महर्षयो व्याकरणं निराहुः ” इति स्कान्दोक्तं संगच्छते ॥ “ अष्टवर्षं ब्राह्मणमुपनयीत । तमध्यापयीत ” इति ब्राह्मणस्याध्यापनविषयेपि विधिर्जागर्ति तथा द्विजानामध्यापनाधिकारेपि विधिर्भवति-“ वेदाभ्यासं ततः कुर्यात्प्रयत्नाच्छक्तितो द्विजः । वेदमध्यापयेच्छिष्यान्धारयेच्च विचारयेद् ” इति व्यासेन “मन्त्रार्थज्ञो जपञ्जुह्वंस्तथैवाध्यापयन्द्वि- जः । स्वर्गलोकमवाप्नोति नरकं तु विपर्यये” इति हारीतेन चोक्तेः । अध्यापनं त्रिविधं-धर्मार्थमर्थार्थं शुश्रूषार्थं चेति । “अध्यापनं च त्रिविधं धर्मार्थं चार्थ- कारणात् । शुश्रूषाकरणं चेति ऋषिभिः परिकीर्तितम् । एषामन्यतमाभावे मृषाचारो भवे- द्विजः ” इति हारीतोक्तेः । अन्येभ्यो नीचेभ्योपि क्वचिदध्ययनादीनि कार्याणि । अत एव “अब्राह्मणादध्ययनमापदि शुश्रूषानुव्रज्या च यावदध्ययनम्” इति बोधायनेन “अब्राह्मणादध्ययनमापत्काले विधीयते ।
१. संज्ञा, परिभाषा एवं सन्धि प्रकरण (अच्, हल् व विसर्ग सन्धि सटीक)
( १४ ) लघुत्रिपुनिकल्पतरुः ।
यत्कृतम्” इति शुक्रनीतौ, “कन्या सती देवमर्कमाजुहाव यशस्विनी” इति महाभारते आदिपर्वणि सप्तषष्टितमे ( ६७ ) अध्याये, “स्त्रीणां प्रव्रजितानां तु करशुल्कैर्विवर्जयेत्” इत्याग्नेये, “विद्वज्जनवन्दिता सीता प्राह-” इति “विपुलहृदयैकवेद्ये-खिद्यति शास्त्रे जडो न सौख्यं स्वे । निन्दति कञ्चुकिकारं प्रायश्शुष्कस्तनी नारी” इत्यादेर्भोजप्रबन्धादौ, “ शतपथिकी” “काशकृत्स्ना” “उपाध्याया” “आचार्याणी” इत्यादीनां महाभा- ष्यादौ चोक्तिः संगच्छते । प्रागुक्तरीत्या “नानृतं वदेद्” इति निषेधस्य सर्वसाधा- रणत्वाच्च । आचार्यशुश्रूषणादिनियम एव स्त्रीणां नेत्यभिप्रायेण निषेधविध्यादयः प्रवृत्ताः । अत एव “द्विविधाः स्त्रियो ब्रह्मवादिन्यः सद्योवध्वश्च । तत्र ब्रह्मवादिनीनामुपनयनमग्नीन्धनं वेदाध्ययनं स्वगृहे भिक्षाचर्येति । सद्योवधूनामुपस्थिते विवाहे कथंचिदुपनयनमात्रं कृत्वा विवाहः कार्यः” इति हारीतेनोक्तं संगच्छते इति दिक् । शूद्रास्तु-नाधिकारिणः वेदतदङ्गा- ध्ययनादौ विना विशेषविधिं भवन्ति । यथा-निषादस्थपत्यादयः ॥ परे तु “पुरा कल्पे तु नारीणां मौञ्जीबन्धनमिष्यते । अध्यापनं च वेदानां सावित्रीवाचनं तथा ॥ वर्जयेदजिनं चीरं जटावल्कलमेव च” इति यमोक्तेः, “अश्मारोहणमारभ्य स्त्रीणां गौर्यर्चनं परम् । पुराणपठनं श्रेयो न वेदाध्ययनादिकम्” इत्यादि स्मृतेश्च स्त्रीणां वेदतद्- ङ्गाध्ययनादिकं नेत्याहुः ॥ अथाध्ययनाध्यापनप्रकारः किञ्चिद्विचार्यते- “अभ्यासार्थे द्रुता वृत्तिः प्रयोगार्थे तु मध्यमा । शिष्याणामुपदेशार्थे वृत्तिरिष्टा विलम्बिता” इति “गीती शीघ्री शिरःकम्पी तथाऽलिखितपाठकः । अनर्थज्ञोऽल्पकण्ठश्च षडेते पाठकाधमाः” इति च शिक्षायाम्. “सप्तद्वीपा वसुमती त्रयो लोकाश्चत्वारो वेदास्साङ्गानि रहस्यानि” इति “अनधीतमविज्ञातं निगदेनैव शब्द्यते । अनग्नाविव शुष्कैधो न तज्ज्वलति कहिँचिद्” इति च महाभाष्ये “वेदस्वीकरणं पूर्वं विचारोऽभ्यसनं जपः । तद्दानं चैव शिष्येभ्यो वेदाभ्यासो हि पञ्चधा” इति “पारायणं वर्तयेद्ब्रह्मचारी गुरुः शिष्येभ्यः समनुव्रतेभ्यः । अध्यासीनो दिशमेकां प्रशस्तां प्राचीमुदीचीमपराजितां वा ॥ एकः श्रोता दक्षिणतो निषीदेद्द्वौ वा भूयांसस्तु यथावकाशम्” इति च शौनकीये नानारूपेण लोक- हितायोपदिष्टानप्यर्थान्प्रायः स्वयमपरीक्ष्यैव साहसेन शिक्षायुक्तानर्थाननुपदिश्यैव काव्यं शास्त्रं वेदान्वाध्यापयन्त्यधीयते चास्मत्पाठकाः । व्याकरणेनैव लोकवेदशास्त्रपुराणागमम- न्त्रतन्त्रकाव्यनाटकाळङ्कारादियावद्विद्यागतानां कलागतानां त्रैकालिकग्रंथादिगतानां सुशब्दानां विभक्त्यादेः व्याकरणपित्रैव संस्कार्यतया तदर्थज्ञानमन्तरा संस्कारस्याशक्यत्वमित्यादित आरभ्य सूत्रतदुदाहरणप्रत्युदाहरणलिङ्गानुशासनगणपाठादिस्थपदानां संस्कारणादिसमये लोकवेद्धेतुसाध्यपक्षादिकानां तत्तद्यज्ञपदार्थतत्संस्काराणां साङ्ख्ययोगादिस्थप्रधानपुरुषेश्वर- तत्त्वादिकानामर्थानां ज्ञानस्य तद्वाचकसुशब्दज्ञानस्य च शिक्षणावश्यकत्वेपि तद्रहिता- स्स्म । तदिदं दौर्भाग्यमल्पज्ञानामध्यापकत्वेन प्रायः परिकल्पनामूलम् । तस्माद्भारत-
उत्तरभागः । ( १९ )
श्वासिनस्सर्वे वयं तैर्बञ्चिताः । अन्यथा व्याकरणस्य प्रयोजनत्वेन सप्तद्वीपा वसुमती त्रयो लोका इति महाभाष्यकृतामुक्तिः कथं संगच्छतामिति सुधियो विभावयन्तु । किं च “ आत्मा बुद्ध्या समेत्यार्थान्मनो युंक्ते विवक्षया ” इत्युक्तेरर्थज्ञानानन्तरं शब्दप्रयोग इति सिद्धेऽपि तदुभयोस्सम्बन्धज्ञानमन्तरा तदसम्भव इति स्पष्टमेव । किञ्च शिक्षामेव स्वतोऽविचारयन्तोपि शिक्षयन्तीति विचित्रमेतत् । तस्मादस्मदीयमेतादृशं पल्लवपाण्डित्यं ज्ञात्वाऽस्मांस्तृणायान्वे न मन्यन्त इति तथैवाग्रेऽप्यन्धपरम्पराप्रचारे ब्राह्मणानामस्माकं कान्यागतिर्भवितेति च विचार्य त्रिमुनिगुणगंभीरं पाण्डित्यं संपाद्यमिति पर्यालोच्य चैकस्यैव सूत्रस्य दिनत्रयेण दिनपञ्चकेन वा यावज्ज्ञानं यथा स्यात्तथा सर्वैर्यतितव्यम् । तच्च ज्ञानमुपदेशा- धीनं लोकानुभावाधीनं चेति त
विचित्रतरं वृत्तं ददृशे । तदीयविचित्रतराश्रुतदृष्टपूर्वनृत्तदर्शनजनितपरमानन्दाम्बुधिनिमज्जना- निरुद्धनिःश्वासतया मत्स्यशरीरेण गौरवमासादितम् । येन त्वमतीव क्लेशितोसि । किं च नर्त्त- नावसाने मन्मुखेन त्वां कात्यायनकृतस्य पाणिनिर्वार्तिकग्रन्थस्य महाभाष्यं कर्तुं स आज्ञापयति स्मेति । ततस्तद्भगवन्नृत्तदर्शनकुतूहलेन पुनःपुनः प्रणिपत्य तद्याचमानं प्राञ्जलिमनन्तं तद्दर्शनाय गन्तुमाज्ञापयामास । ते पाणिन्यादयः के ? तेषां ग्रन्थाः के ? कुत्रत्याश्चेति चेद्यथाप्राप्तं तन्निरूप्यते—तथा हि पणिनामा कश्चिन्महर्षिरवाप पाणिनं नाम कुमारम् । स पाणिनो दाक्षीमुद्वाह्य तस्यां पाणिनिनामानं तनूजमजनयत् । अतिक्रान्तबाल्यः पाणिनिर्विद्याग्रहणयोग्यं वयः प्राप्य नन्दराजराज्यकाले तद्राज्ये निवसन्तमुपवर्षनामानं पण्डितवरिष्ठमुपजगाम विद्यासम्पत्तिला- भाय । तत्रास्य सब्रह्मचारिणौ वररुचिव्याडिनामानावास्ताम् । स कदाचिद्वादे परा- जितो निर्वेदमवाप्य व्याकरणविद्यासाम्राज्यलाभाय सर्वविद्याधिपमीशानं तपसाराद्धुं निश्चिय प्रयागक्षेत्रं गत्वाऽक्षयवटस्याधोभागेतितीव्रं तपश्चक्रे । यत्र स्वस्वेष्टार्थसिद्धये सनकादयोपि सिद्धाः परमेश्वरं तपसोपासां चक्रिरे । चिरात्कदाचित्कठोरतत्तपश्वर्यापरितुष्टस्तत्तदभीष्ट- वरान्प्रदित्सुर्भगवान्नाम्बरङ्गतलमधिष्ठाय नृत्यन्नादयामास चतुर्दशकृत्वो ढक्काम । स नादो यथान्यैः श्रवणपथेन स्वस्वाभीष्टसाम्राज्यप्रापकवरदानवाक्यामृतत्वेन पीतस्तथा पाणि- निनापि स्वेन करिष्यमाणं यद् “अल्पाक्षरमसंदिग्धं सारवद्विश्वतोमुखम् । अस्तोभमनवद्यं च सूत्रं सूत्रविदो विदुः ,’’ इत्युक्तलक्षणलक्षितसूत्रसमूहरूपो सधातुपाठगणपाठयुक्ता- ष्टाध्यायात्मको ग्रन्थः लिङ्गानुशासनं चेत्येतन्मूलभूतचतुर्दशसूत्रात्मकव्याकरणाम्नायाङ्ग- विद्यासाम्राज्यप्रापकवरदानवाक्यामृततयापीयत । तदुक्तं नन्दिकेश्वरकृतकाशिकायाम्— “नृत्तावसाने नटराजराजो ननाद ढक्कां नवपञ्चवारम् । उद्धर्तुकामस्सनकादिसिद्धानेत- द्विमर्शे शिवसूत्रजालम् ,’’ इति । ततोऽनेन स्वलब्धव्याकरणमूलभूतोक्तसाम्राज्यतेजोबलेन पाणिनिः-- “ वृद्धिरादैच् ” इत्यादिकानि “ अ अ ” इत्यन्तानि सूत्राण्यष्टाध्यायात्मना, लिङ्गानुशासनसूत्राणि षडधिकारात्मना, तत्तत्सूत्रेषु गणशब्दपाठांस्तत्रैव गणपाठार्थानर्थ- विचित्रतरचित्रितं कण्डादिना सहैकादशगणं धातुपाठं यजुर्वेदस्य प्रातिशाख्याख्यं सूत्रग्रन्थं तथा शब्दोच्चारणक्रमनिर्णायिकां दशखण्डात्मिकां शिक्षां तथा जाम्बवतीपरिणयाख्यं पाता- लविजयापरनामकं काव्यग्रन्थं च चकार । यत एव “ वरतनु संप्रवदन्ति कुक्कुटाः ” इति व्यक्तावाचमित्यत्र महाभाष्ये कस्यचित् श्लोकस्य भागः प्रत्युदाहरणत्वेन गृहीतः । अन्ये त्वियं पाणिनीयशिक्षा न पाणिनिकृता । यतः “अथ शिक्षां प्रवक्ष्यामि पाणि- नीयं मतं यथा” इत्यादावन्तेपि—“येनाक्षरसमाम्नायमधिगम्य महेश्वरात् । कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः” ॥ ९७ ॥ “अज्ञानान्धस्य लोकस्य ज्ञानाञ्जनशलाकया । चक्षुरुन्मीलितं येन तस्मै पाणिनये नमः” ॥ ९८ ॥ “त्रिनयनमुखनिस्सृतामिमां य इह पठेत्प्र- यतश्च सदा द्विजः । स भवति धनधान्यपशुपुत्रकीर्तिमानतुलं च सुखं समश्नुते दिवीति
उत्तरभागः । ( १७ )
दीवीति” ॥ ५९ ॥ ( १ ) इति शिक्षायां “प्रवक्ष्यामि पाणिनीयं मतं यथा” इति “तस्मै पाणिनये नमः” “त्रिनयनमुखनिस्सृतामिमाम्” इति चोक्तेः । पाणिनिकर्तृकत्वे तदनुपपत्तेश्च । एवं च पाणिनिकृतां नष्टां दुर्लभां वा पर्यालोच्य तदुपदेशपरम्परागतेन तदीयशिष्येण तदुक्तार्थ- प्रतिपादिकेयं पाणिनितोऽन्येन त्रिनयनाख्येन केनचिद्विदुषा कृतेत्याहुः । अन्ये तु पुराणा- दिषु “व्यास उवाच” इति “व्यासं वसिष्ठनप्तारं शक्तेः पौत्रमकल्मषम् । पराशरात्मजं वन्दे” इति वच्चार्षग्रन्थानामेष स्वभाव इत्यदोषः । एतेन याज्ञवल्क्यस्मृतिर्न तेनोक्तेति मिताक्षरोक्तिः परास्तेत्याहुः ॥ अध्यात्मशिक्षाया गववाचार्यकृतं भाष्यं जागर्तीति दिक् । एवं सगणंश्चतुर्ग्रन्थान्वि- रचय्याध्यापनादिना प्रचारयन्कालक्रमेण सर्वत्र प्रथयामास । अयं कुत्रत्य इति न ज्ञायते । तत आगत्य स्वकृतं व्याकरणशास्त्रं स्वगुरूपवर्षादिभ्यः श्रावयामास । तत्र कौशाम्बी- नगरवासिनः सोमदेवशर्मणो वसुदत्तायामुत्पन्नोऽभ्यस्तसकलशास्त्रः कात्यायनस्तदुपश्रुत्य चित्रि- तहृदयोऽसूयामाश्रित्येशानानुग्रहेण तादृशविचित्रग्रन्थरचनापर्युत्सुकस्स्वयमप्याश्रमं कंचिद्गत्वा तपसा परमेश्वरमाराधयामास । ततस्तदनुग्रहेण वार्तिकाख्यं ( वाक्यात्मकं ) पाणिन्युक्तार्थपरिपूरकं दुरुक्तपुनरुक्तार्थनिरासकं च ग्रन्थमकरोत् । एवमन्यानपि कात्यायनसूत्रवररुचिप्रयोगलक्षश्लोकात्मकबृहत्कथादीन् ग्रन्थान्निर्माय काण- भूत्यादिभ्यः श्रावयित्वाऽऽरुरोह नन्दराजराज्यसाचिव्यपदम् । यस्य बृहत्कथाग्रन्थस्य सारं संगृह्य सोमदेवभट्टेन कथासरित्सागराख्यो ग्रन्थो व्यरचि । तामुपश्रुत्य पाणिनिः स्वव्याकरण- न्यूनताप्रदर्शकवार्तिक ( वाक्य ) ग्रन्थनिर्मितिममृष्यन्कात्यायनमहर्षेराश्रममाजगाम । आगत्य च तमर्घ्यपात्रेण प्रत्युद्गच्छन्तमप्यविगणय्य यतो महेश्वरानुग्रहपात्रभूतेन मया कृते शास्त्रेनुक्त- दुरुक्तपुनरुक्तादिदुश्चिन्ताकुलेन त्वया वाक्यग्रन्थः कृतस्तेनापराधेन त्वमचिरात्पतिष्यसीति शशाप । सोपि तं यतो वाक्यग्रन्थं शङ्करप्रसादपरिणामरूपमजानंस्त्वं मह्यमशपस्ततस्त्व- च्छिष्योऽप्यचिरात्पतत्विति शशाप । ततस्तत्रैवारण्ये तस्यामेव त्रयोदश्यां तिथौ पाणिनिर्गच्छ- न्केनचिद्व्याघ्रेण व्यापादितः कैलासं जगाम । तदुक्तं विष्णुगुप्तेन “सिंहो व्याकरणस्य कर्तु- रहरत्प्राणान्प्रियान्पाणिनेर्मीमांसाकृतमुन्ममाथ सहसा हस्ती मुनिं जैमिनिम् । छन्दोज्ञाननिधिं जघान मकरो वेलातटे पिङ्गल ह्यज्ञानावृतचेतसामतिरुषां कोऽर्थस्तिरश्शां गुणैः” इति पञ्चतन्त्रे मित्रप्राप्तिनामकदितीयभागे । यः पञ्चतन्त्रग्रन्थ आङ्ग्लपञ्चशतकात्परं नोत्पन्न इत्यांग्लपण्डि- तानां सिद्धान्तविषयः । एवं कात्यायनोपि तस्यामेव तिथौ कैलासगमनाय देहं तत्याज । तं कालमारभ्य वैयाकरणास्त्रयोदश्यां व्याकरणशास्त्राध्ययनाध्यापनव्यवहारमत्याक्षुः । यत्कृतस्य वार्तिकग्रन्थस्य दुर्बोधस्य महाभाष्यं कार्यमिति श्रीशङ्करः श्रीविष्णुमुखेन पतञ्जलिमाज्ञापया- मासेत्यनुपदमेवोक्तम् । ततो भगवदनुज्ञामवाप्य तस्माच्छ्रीनटेश्वरनृत्तदर्शनाय चिदम्बरं गच्छेति शेषांशेन त्वमवतरेति चाज्ञप्तस्तं प्रणम्य निर्जगाम । ततस्सवार्तिकं पाणिनिव्याकरणं पाणि- निशिष्येण व्याघ्रभूतिना कात्यायनशिष्येण श्वोभूतिना चाऽध्यापनद्वारेण प्रकटितं जग- द्विख्यातं च बभूव । २
: the letter is र्ध्य(with ध) orर्घ्य(with घ)? Notice in L13:धृतार्य्यजलेorधृतार्घ्यजले? In L14: तेनार्घ्यजलेन. Let's compare the second letter of अर्ध्यमुत्सिसृजेandतेनार्घ्यजलेन: In तेनार्घ्यजलेन, it has the same glyph: र्घा/र्घ्य. Wait, is it र्घ्य? Look at the loop: it has no notch at the top. 'ध' usually has an open top or curl. 'घ' has a continuous top bar. But under a repha, 'घ्य' has a repha on the top right. Actually, it looks like अर्ध्यin the first one andअर्घ्यin the second, or bothअर्घ्य. Let's look closely: First one (L14): अर्ध्य- notice the top has a slight break like 'ध'? Or is it 'र्घ्य'? Wait, in L12:सा चार्य्यदानाय- look at that:चार्घ्यदानायorचार्य्यदानाय? Wait, in L12, it is सा चार्घ्यदानाय- wait, the letter isर्ध्यorर्घ्य`
नाट्यमदृष्टपूर्वमपश्यत् । ततस्संस्तुतो नटेशः फणिपतिं पाणिनिवाक्यग्रन्थस्य महाभाष्यं निर्माय दिवं व्रजेत्याज्ञाप्यन्तर्दधात् । अथ तौ व्याघ्रपात्पतञ्जली यत्र स ननृते तत्र तत्प्रतिकृतिं लिखितुः । तदादि तच्चिदम्बरेशप्रतिकृतिदर्शनेनेदानीमपि कुटिले कलौ लोका निष्कल्मषा भूत्वाऽनुत्तमं पुरुषार्थमनायासेनोपलभन्ते । नटेशनृत्तं स्मारंस्मारमतीव चित्रीयमाणहृदयः पतञ्जलिर्लोकहितैषी प्रागुक्तरीत्या तादृशीं व्याकरणशास्त्रस्यातिजीर्णांमवस्थामसह्मानः “यद्वि- स्मृतमदृष्टं वा सूत्रकारेण तत्स्फुटम् । वाक्यकारो ब्रवीत्येवं तेनादृष्टं च भाष्यकृद्” इत्युक्तलक्ष- णलक्षितं महाभाष्यं चकार । तथान्यावपि ग्रन्थावनेन रचितावित्यग्रे वक्ष्यते इति केचित् । तदा तत्पिपाठिषुभिस्सहस्राधिकैः शिष्यैः प्रणिपत्य प्राञ्जलि
An accurate, line-by-line transcription of the provided Sanskrit text:
ततः गोनर्ददेशं ( गोनर्दतीरं ) प्राप्य गोणिकां स्वजननीं नमस्कृत्य किञ्चित्कालाभ्यन्तरे तस्यां सुरलोकपथमवतीर्णायां ततोमितष्ठौ । अथ पतञ्जलिशिष्यो ब्रह्मराक्षसोपि ततो निर्गत्य मार्गे वटमेकमारुह्य गुरूपदिष्टरीत्या पचेः क्ते किं रूपमिति पथिकान्पृच्छन्पक्तमिति प्रतिवदतस्सर्वानप्यभक्षयत् । एवं बहुतिथे काले व्यति- क्रान्तेऽन्यं कञ्चन पथिकमागतं दृष्ट्वा यथापूर्वमपृच्छत् । स चैनं राक्षसं पक्वमिति प्रत्युत्त- रेणाम्भ्यनन्दयत् । सोपि राक्षसशापमोक्षकालं सन्निहितं मन्वानस्तस्माद्वृक्षादवतीर्य—कस्त्वं, कस्मादागतः, किमागमनप्रयोजनम् । अधीतपाणिनिव्याकरणशास्त्र इव दृश्यसे । महा- भाष्यं त्वामध्यापये यदीच्छसि, तद्वदेति पप्रच्छ । सोपि—अहं चन्द्रगुप्तो नाम द्विजः । [
व्यलिखदिति केचित् । एवं स तयथाबुद्धिबलं समीकृत्य नियमेन तन्महाभाष्यस्य पाठप्रवच- नाभ्यां तिसृभिर्द्विजदारैर्ज्ञातिनिर्वर्त्त्यन्कालं यापयामास । ततः कदाचिद्वसन्तसमये चतस्रोपि भार्या रममाणस्यास्य गर्भमादधुः । ततस्स यथाकालं यथायोग्यं पुंसवनादीनि कर्माणि निर्वर्त्तयांचकार । ततस्ता उचितेषु समयेषु चतस्रोपि दीप्ततेजसः एकैकक्रमेण चतुरः पुत्रानसोषत । यथाकालं स द्विजवरस्ताञ्जातकर्मणा संस्कृत्य वर्णक्रमेण वररुचिर्विक्रमार्को भट्टि- भर्तृहरिरिति नामभिराहूयोपनीय त्रीन्साङ्गोपाङ्गांश्चतुरो वेदानध्याप्य महाभाष्यमप्यजीगपत् । ततो भर्तृहरिस्तुरीयासूनुर्महाभाष्यं पिपठिषुस्तच्छिष्यैः स्वभ्रातृभिरनधिकारीति निवारितो रहः पितुरन्तिकमुपेत्य प्रणिपत्य सविनयं भुवोन्तरे किंचित्कुहरमकुतोभयं वि
( २२ ) लघुत्रिमुनिकल्पतरुः ।
यदा कालवशेन प्रातैर्विघ्नविशेषैरध्ययनाध्यापनादिप्रचारः समूलमुन्मूलितो दाक्षिणात्येष्वेव क्वचित्पुस्तकमात्र एव पाणिनिव्याकरणकात्यायनवार्तिकमहाभाष्यादिग्रन्था विशश्रमुश्च । किं च चित्रकूटमधिवसता केनचिन्नारायणनाम्ना विदुषा तन्महाभाष्यं ततो विलिख्य रक्षितमासीत् । तदा कश्चित् ( ब्रह्मराक्षसः ) तन्महाभाष्यपुस्तकंमानीय वसुरातादिभ्यो ददौ । यैर्विक्रमादित्य- ज्येष्ठभ्रातरं भर्तृहरिमन्यांश्च बहूनि शास्त्राण्यध्यापयद्भिर्जीर्णं तच्छास्त्रमुद्धृतम्-भूदिति केचित् । ततो भर्तृहरिः स्वपितृचन्द्रगुप्तद्विजलिखितवत्स ( अज ) भक्षितावशिष्टवटपत्रस्थमहाभाष्य- ग्रन्थे पौर्वापर्यपर्यालोचनया वत्स ( अज ) भक्षितग्रन्थांशमवगत्य पत्रान्तरेषु तान्विलिख्य समीकृत्य जीर्णं तन्महाभाष्यं समुद्धृत्य सपादलक्षकारिकाभिर्महाभाष्यकारतात्पर्यार्थावबोधकं ब्रह्मवाक्यपदभेदेन काण्डत्रयात्मकं वाक्यपदीयाभिधं महाभाष्यव्याख्यानं चकार । यद्धेलाराज- पुंञ्जराजपण्डितकृतटीकाभ्यां संशोभते स्म । काश्यामिदानीं मुद्रितं तदिति तु भ्रमः । लघुत्वात् । ततो भर्तृहरिर्वाक्यपदीयमेवं संग्रथ्य “अहो भाष्यमहो भाष्यमहो वयमहो वयम् । मामदृष्ट्वा गतस्स्वर्गमकृतार्थः पतञ्जलिः” इति गुर्वाधिक्षेपकगर्वदुर्भरेण स्वीयदुर्भषणदुष्परिपाकेन स्वीयमेनं महानिबन्धमप्रतिष्ठापदमारोहयामास । एतदीयगुर्वाधिक्षेपकदुरुक्तिमसहमानैस्तात्कालि- कैर्विद्वद्भिरयं ग्रन्थोऽध्ययनाध्यापनपथंमनापादित इति यावत् । अत एवेदानीं प्रायः स ग्रन्थो दौर्लभ्यपदवीमवापेत्यस्मदीयं दौर्भा ( सौभा ) ग्यम् । एवमेतैश्चतुर्भिश्चन्द्रगुप्तद्विजपुत्रैरुज्जयिन्यां कलियुगं कृतयुगायितमिति वदन्ति । ( अत्र केचित् )—विक्रमार्कसमयात् ८४९ पञ्चचत्वारिंशदुत्तराष्टशतीमितेषु, अथ वा कलेः ३८८८ अष्टाशीत्युत्तराष्टशत्यधिकत्रिसहस्रेषु, -वर्षेषु व्यतीतेषु तदुत्तरे विभववर्षे वैशाखमासे शुक्लपक्षे दशम्यां केरलदेशे कलापीग्रामे शिवगुरुशर्मणो भार्यायां सतीनाम्न्यां श्रीशङ्कराचार्यः पुत्र उदियाय । तदाहुर्वृद्धाः-“विधिनागेशवह्व्यब्दे ३८८८ विभवे मासि माधवे । शुक्लपक्षे दशम्यां तु शङ्करार्योदयस्स्मृतः” इति । कलेरिति शेषः । तथैव लोक- प्रवादादित्याहुः । अन्ये शङ्करमन्दारसौरभे नीलकण्ठभट्टास्तु- “प्रासूत तिष्यशरदामतिया- तवत्यामेकादशाधिकशतो नचतुस्सहस्रयाम् ३९११ ” इति । तिष्यशरदां कलिवर्षाणामि- त्यर्थ इत्याहुः । अपरे तु विक्रमार्कसमयात्परस्मिन् ११५० सार्द्धशताधिकसहस्रतमे वर्षे गुर्जरनृपो जयसिंहनामासीत् । तदानीं श्रीपत्तनवासिनो देवसूरिनाम्नो जैनाचार्यस्य शिष्यो माणिक्याभिधः पण्डितो बभूवेति मेरुतुङ्गाचार्यकृतप्रबन्धचिन्तामणिग्रन्थतो ज्ञायते । स माणिक्यपण्डितः स्वकृतकाव्यप्रकाशटीकायां सङ्केताभिधायां द्वितीयोल्लासे कुमारिलभट्टाचार्यमतं स्वोक्तार्थे प्रमाणीचकार । कुमारिलभट्टाचार्यशङ्करार्ययोः प्रयागक्षेत्रे समागमः समजनीति शङ्करदिग्विजयै स्पष्टम् । तस्माच्छ्रीशङ्कराचार्यदेशिकचरणानामपि स एव समय इत्याहुः ॥ आङ्ग्लदेशीयाङ्ग्लपण्डितास्तु आङ्ग्राष्टमशके ( सन् ८०० ) तेषां स्थितिं न्यरूपयन् । आङ्ग्लविद्यानिपुणास्तैलिङ्गोपपदा मोहमय्यां प्राड्विवाकपदमधिष्ठिताः काशीनाथपन्तास्तु आङ्ग्ल षष्ठे शके ( सन् ६०० ) श्रीशङ्कराचार्याणां स्थितिं वर्णयांचक्रुः मुद्राराक्षसनाटक-
उत्तरभागः । ( २३ )
प्रस्तावनायाम् । यदा श्रीशङ्कराचार्यः उपनयनोत्तरं जन्मतॊऽष्टमे सप्तमे वा वयसि कदाचि- त्स्नातुं पूर्णानदीमवतीर्य नक्रगृहीतपादोऽभूत्, तदा स्वस्य जन्मान्तरप्राप्तिसमयमुपस्थितं मन्वानः संन्यासपरिग्रहं जन्मान्तरं निश्चित्य तत्र जले स्थितस्सन्नेव तत्र स्थितायै स्वमात्रे संन्यासेनैव स्वस्य ग्राहविनिर्मोकं विनिवेद्य तदनुमत्या संन्यासं परिगृह्य ग्राहग्रहान्मुक्तः । उपर्यागत्य तत्रातीव खिन्नां तां प्रणम्य सम्मान्य तदनुज्ञामवाप्य च गुर्वनुग्रहं कामयमानः तदातिप्रसिद्धतरं श्रीगोविन्दभगवत्पादमेव योग्यं देशिकं मत्वा तद्दर्शनाय बदरिकाश्रमं प्रतस्थे ॥ प्रस्थाय च क्रमेण बहून्देशानतिलङ्घ्यास्तमयं गतवति भगवति भास्वति वाराणसीं प्रविवेश । तत्र रात्र्यां विश्वेशमद्वितीयं ब्रह्म ध्यायन्विचित्रैर्बहुभिः स्तवैः तुष्टाव । तेन प्रसन्नो भगवांस्तस्मै ब्रह्मसूत्रभाष्यनिर्माणशक्तिं वरमादिदेश । एवं वरमुपलभ्य प्रातरेव ततो निर्गत्या- स्ताचलं प्रविशति निशापातावुदयाचलमधिरूढे च चित्रभानावादित्ये तत्र हिरण्मयं पुरुषमभि- ध्यायन्पथिकैः सह गच्छ
परे त्विदमुत्सन्नं महाभाष्यं श्रीमच्छङ्कराचार्यदेशिकभगवत्पादाः पातालं प्रविश्य तत्रादिशेष- मुखात्तन्महाभाष्यमधीत्य भूमण्डलमागत्य भर्तृहर्यादिभ्यः सयोगशास्त्रं महाभाष्यमुपदिदेश । तदुक्तं शङ्करविजये- “उरगपतिमुखादधीत्य साक्षात्स्वयमवनेर्विवरं प्रविश्य येन । प्रकटितमच- लातले सयोगं जगदुपकारपरेण शब्दभाष्यम् ” इति । किं चायं भर्तृहरिर्न शूद्रापुत्र इत्यनेन ज्ञायत इत्याहुः ॥ केचित्त्वयं पतञ्जलियोगसूत्रकृतोन्य एव । यत एकस्मिन्नेव विषये “एतेन योगः प्रत्युक्तः” (व्या. सू. २ । १ । ३ ) इति दूषणं, पुनस्तत्रैव विषये तदानुकू- ल्येन भाष्यकरणं च सर्वज्ञस्य व्यासस्य न युज्यते ॥ किं च योगभाष्यकारो व्यासः पतञ्जलि- तोर्वाचीनः । “पाराशर्य्यशिलालिभ्यां भिक्षुनटसूत्रयोः ” इति ब्रह्मसूत्राणां चतुरध्यायात्मकानां व्यासकृतानां भिक्षुसूत्रपदेन व्यपदेशात् । पाणिनिना “वाँसुदेवाॅर्जुनभ्याँ-,” “ऐजेः खॅश् ,” “नॅखमुॅखाँत्संज्ञायाम् ,” “शॅरैर्दण्डे१०३- ,” “कलाँपिवैँशॅम्पायनान्तेवासिभ्यश्च”, “कॅलापिनोऽण्”, इत्यादिसूत्रेषु पाणिनितोपि प्राचीनानां भारतरामायणाद्युक्तानां नाम्नां साक्षात्क्वचिद्गुणेष्ठ- वाद्वारेन पाणिनेः व्यासत्कृतमहाभारताद्यपेक्षयोत्तरकालिकत्वस्य निर्णेतुं शक्यत्वात् । अन्यच्च पाणिन्यपेक्षया पूर्वकालिकेन व्यासेन योगभाष्यकरणात्तदानीं पतञ्जलिसत्त्वे प्रमाणाभावाद्वाज- सूयेत्यत्र चन्द्रगुप्तसभेत्युदाहरणेन पतञ्जलेर्महाभाष्यकारस्य चन्द्रगुप्तोत्तरकालिकत्वमिति तदा व्याससत्त्वे मानाभावात्पतञ्जलिभेद एव युक्त इति दिगित्याहुः । अन्ये तु “योगेन चित्तस्य पदेन वाचां मलं शरीरस्यच वैद्यकेन । योऽपाकरोत्तं प्रवरं मुनीनां पतञ्जलिं प्राञ्जलिरानतोस्मि” इति पतंजलेर्महाभाष्ययोगसूत्रचरक (वैद्यवार्तिक ) ग्रन्थकर्तृकत्वस्य कैयटेन महाभाष्यव्याख्यानप्रदीपारम्भे मङ्गलश्लोके उल्लेखादुभयोरेक एव कर्तेति प्रतीयते । न च क्वचिन्मुद्रितपुस्तकेष्वयं श्लोकस्तत्र ग्रन्थे नोपलभ्यत इति तत्रितयकर्त्तृकत्वं निर्मूल
ग्रहणान्न दोष इति वाच्यम् । “ वासुदेवार्जुनाभ्याम् ” “ पाण्डोर्ड्यण् ” “ गवियुधिभ्यां स्थिरः ” इत्यादौ रामलक्ष्मणावित्यत्रेव साहचर्येण पार्थ एवार्जुनस्तत्सारथिरेव वासुदेव इत्यादिरीत्या पाण्डवोत्तरकालिकत्वं पाणिनेस्सिध्यतीत्यर्थस्य वक्तुं शक्यत्वात् । अत एव “ विपराभ्यां जेः ” इत्यत्र पक्षिवाचकविशब्दस्य परा सेना जयतीत्यादिप्रयोगस्थश्रेष्ठार्थकप- राशब्दस्य च न ग्रहणम् । किं तूपसर्गेषु दृष्टसाहचर्ययोरेवोपसर्गयोर्ग्रहणमित्यादि तत्रतत्रोक्तं संगच्छते । किं च त्वदुक्तरीत्या पाणिनिसमये वासुदेवार्जुनयोरभावेन तत्साहचर्यं वक्तुमशक्य- मेव । नाम्नो नियामकस्य कल्पसूत्रस्य पाणिन्युत्तरकालिकत्वाच्च । यतः सूत्रेषु पाणिनिसंकेतित- कृत्तद्धितघोपान्तस्थादिशब्दा दृश्यन्ते । न च लौकिकेषु वैदिकेषु सर्वेषु तदङ्गोपाङ्गादिषु च प्रयोगेषु विद्यमानानां सिद्धानां शब्दानामिदम
विक्रमादित्यस्योक्तिमनुसृत्य साक्षाद्दौहित्राय विक्रमादित्याय देयमिति निश्चितमपि राज्यं भर्तृहरये धारापतिः प्रादात् । ततः तदमात्यपदमङ्गीचकार विक्रमादित्यः । ततः किञ्चित्कालानन्तर- ममात्योयं धारां विहायोज्जयिन्यां राज्यभाराय भ्रातरं भर्तृहरिं राजानं प्रबोध्य तत्र राज्यम- करोत् । तदभ्यन्तरे कदाचिद्राज्ञा स्त्रीकामुकेन भर्तृहरिणा विरोधमुपलभ्यामात्यपदं विहाय विन्ध्यस्योत्तरदिशि सञ्चरन् ढक्कानगरं प्राप्य तत्र स्वशौर्येण तद्राज्यं लब्ध्वा तत्परिपालय- न्विक्रमनगराभिधया तदाह्वस्त । एवं च पितुश्चन्द्रगुप्तस्य राज्याभावः पुत्रस्य विक्रमादित्यस्य तु राज्यं युज्यत एवेति केचित् । ( तत्रेदं वक्तव्यम् ) । अस्तूक्तरीत्या पुत्रस्य राज्यम् । विक्रमादित्यभर्तृहरी न चन्द्रगुप्तद्विजपुत्रौ स्तः । किन्तु गन्धर्वसेनस्येत्युक्तमनुपदमेव । अ
उत्तरभागः । ( २७ )
त्याङ्गलशकस्य पञ्चचत्वारिंशत्तमवर्षमारभ्य पञ्चषष्टितमवर्षमध्यकालिकाभिमन्युनाम्नो राज्ञ आश्रित- कोटिप्रविष्टत्वेन तात्कालिकत्वमित्याहुः । प्रकृतमनुसरामः—युधिष्ठिरनप्तुः परी ( रि ) क्षितो जन्मोत्तरं पञ्चदशोत्तरसहस्रवर्षेषु ( १०१५ ) व्यतीतेषु शतं समाः ( १०० ) नन्दा राज्यं पर्यपालयन् । तदुक्तं श्रीभागवते द्वादशस्कन्धे द्वितीयाध्याये “यावत्परीक्षितो जन्म यावन्नन्दाभिषेचनम् । एतद्वर्षसहस्रं तु ज्ञेयं पञ्चदशोत्तरम्” इति । तथा तत्रैव “महानन्दिसुतो राजञ्छूद्रागर्भसमुद्भवः । महापद्मपतिः कश्चिन्नन्दः क्षत्रविनाशकृत् । तस्य चाष्टौ भविष्यन्ति सुमात्यप्रमुखास्सुताः । य इमां भोक्ष्यन्ति महीं राजानश्च शतं समाः” इति । विष्णुपुराणे चतुर्थांशे चतुर्विंशाध्याये तु ज्ञेयमित्यस्य स्थाने शतमिति व्यत्यासेन पाठोऽस्ति—“महानन्दिसुतश्शूद्रागर्भोद्भवोऽतिलुब्धो महानन्दः परशु- राम इवापरोऽखिलक्षत्रियान्तकारी भविता ॥ ४ ॥ तस्याप्यष्टौ सुताः सुमाल्याद्या भविता- रस्तस्य च महापद्मस्यान्ते पृथ्वीं भोक्ष्यन्ति ॥ ५ ॥ महापद्मस्तत्पुत्राश्चैकं शतमवनीपतयो भवन्ति । नवैतान्नन्दान्कौटिल्यो ( विष्णुगुप्तस्तत्पुत्रो वा ) ब्राह्मणस्समुद्धरिष्यति ॥ ६ ॥ तेषामभावे मौर्यांश्च पृथ्वीं भोक्ष्यन्ति । कौटिल्य एव चन्द्रगुतं राज्येऽभिषेक्ष्यति” ॥ ७ ॥ इत्यारभ्य—“याव- त्परीक्षितो जन्म यावन्नन्दाभिषेचनम् । एतद्वर्षसहस्रं तु शत पञ्चदशोत्तरम्” ॥ ३२ ॥ इति ॥ “आरभ्य भवतो जन्म” इत्यपि श्रीभागवते पाठान्तरम् । एवं च परीक्षिञ्जन्मारभ्य नन्दराज्या- रम्भान्ताः कालाः विष्णुपुराणरीत्या पञ्चदशोत्तरशताधिकसहस्रवर्षाणि ( १११५ ) श्रीभाग- वतरीत्या तु पञ्चदशोत्तरसहस्रवर्षाणि ( १०१५ ) भवन्ति । परीक्षितो जन्मकालश्च कलेः प्रथमशतके इति सिध्यति । यतः—ते त्वदीया द्विजाः काले अधुना चाश्रिता मघाम्” इति श्रीभागवते द्वादशस्कन्धे उक्तेः । “तेन वै ऋषयो युक्ता- स्तिष्ठन्त्यब्दशतं नृणाम्” इति, “यावद्देवर्षयस्सप्त मघासु विचरन्ति हि । तदा प्रवृत्तस्तु कलिः” इति च तत्रैवोक्तेः सप्तर्षिमण्डलस्यैकैकस्मिन्नक्षत्रे शतवर्षेषु स्थितिरिति तेन सिद्धान्तानुसारेण मघा- नक्षत्रे तेषां स्थितिसमये परीक्षितो जन्मेति तदैव कलिप्रवृत्तिश्चेति च ज्ञायते । “अधुना” इति परीक्षितं प्रति शुकेन भागवतार्थवर्णनसमये मघानक्षत्रे सप्तर्षिस्थित्याश्रयस्य कालस्य वर्तमानत्वेन निरूपणात् ॥ तथा—“आसन्मघासु मुनयः शासति पृथ्वीं युधिष्ठिरे नृपतौ” इति बृहत्संहितायां शालिवाहनशकस्य ( ४२७ ) सप्तविंशत्युत्तरचतुश्शततमे वर्षे उत्पन्नेन वराहमिहिरेणोक्तेर्युधिष्ठिरपरि- क्षितोरुभयोरपि मघानक्षत्रे सप्तर्षिस्थितिसमये स्थितिप्रतीतेर्युधिष्ठिरपरीक्षितोरन्तरकालः प्रायः ( ८० ) अशीतिवर्षाणि भवेयुः । एवं चाशीतिवर्षाणि ( ८० ) युधिष्ठिरस्थितिकालादारभ्य परीक्षिञ्जन्मावधिः कालः । तथा नन्दानां राज्यकालश्च शतं वर्षाणि ( १०० ) । तथा परी- क्षितकालमारभ्य नन्दराज्यारम्भान्तः कालः ( १०१५ ) अथ वा ( १११५ ) वर्षाणि । एतेषां संकलने कृते ( ८०+१०१५ वा १११५+१००=( ११९५ वा १२९५ ) युधि- ष्ठिरस्थितिकालादारम्य नन्दराज्यान्तः कालः संपन्नः । कल्पादिमारभ्य युधिष्ठिरांस्थित्यन्तरकालस्तु ( ४९५ वा ३९५ ) वर्षाणि । तदुक्तं स्कान्दे “ ततोपि द्विसहस्रेषु दशाधिकशतत्रये । भविष्यं नन्दराज्यं च चाणक्यो यान्हनिष्यति ”
इति । तत्र द्विसहस्रेष्विति निर्धारणे सप्तमी । दशाधिकशतत्रये इति सति सप्तमी । तथा च कलेर्द्विसहस्रवर्षमध्ये दशाधिकशतत्रये सति नन्दराज्यमित्यर्थः । (२०००-३१०=१६९०) । एवं च कलेर्दशाधिकशतत्रयन्यूनेषु द्विसहस्रवर्षेषु व्यतीतेषु नन्दा राज्यपरिपालनमारभन्तेति यावत् । नन्दराजराज्यकालश्च शतं समाः इत्युक्तम् ( १६९०-१००=१७९०) इदानी- न्तनैकोत्तरपञ्चसहस्रतमकलिवर्षसंख्यासु ( ५००१ ) उक्तसंख्यायाः ( १७९० ) वियोजने एकादशोत्तरद्विशताधिकत्रिसहस्रवर्षाणि ( ३२११) शिष्टानि भवन्ति । इतः प्राक् ( ३२११ )-चन्द्रगुप्तो राज्यधुरमुद्वहत् । ततश्च-तदा तदुत्तरं वा, महा- भाष्यं पतञ्जलिना निर्मितमिति वक्तव्यम् । स एव पतञ्जलिकालः । ततः प्राक् पाणिनिकात्या- यनयोः नन्दराज्यकाल एवेति चोक्तम् । अन्ये तु स्कान्दवचने “द्विसहस्रेषु” इत्यस्य स्थाने “त्रिसहस्रेषु” इति पाठान्तरम् । तत्पक्षेऽस्य कलेरेकोत्तरपञ्चसहस्रतम संख्याकवर्षेष्वादावे- कादशोत्तरद्विशताधिकत्रिसहस्रवर्षेष्वतीतेषु तदुत्तरस्मिन्वर्षे ( २२११) चन्द्रगुप्तराज्यारम्भ आसीदिति ज्ञेयम् । एवं च तदानीं तदुत्तरं वा महाभाष्यं पतञ्जलिना कृतमित्यादि प्राग्व- दिति दिगित्याहुः । नवीना आङ्ग्लपण्डितास्तु-आङ्गलदेशादाङ्गलशकात्पूर्वं षोडशोत्तरत्रिशतीतमेवर्षे (सन् ३१६) आङ्गलप्रभुवर्येोऽलेग्जाण्डर्नामा भरतखण्डमाजगाम । तस्मिन्नेव वर्षेऽत्र भरतखण्डे पाट- लीपुत्रराज्ये ( पाटणापत्तने ) चन्द्रगुप्तो राजा राज्यासनमारुरोह । ततः किञ्चित्कालोत्तरं तत एवाङ्गलदेशाद्भरतखण्डं प्रति सेल्यूकस्नाम्नो महाहिम्नः आङ्गलप्रभुवर्यस्यागमनसमयेऽत्र खण्डे ऽतिप्रबलो राजायमेवासीत् । नान्यः कोपि तादृश इति वदन्ति । अनेन च तदनन्तरकालि- कस्स इति वक्तव्यमिति बोध्यमिति दिक् । श्रीभट्टोजिदीक्षितस्य कालादिनिर्णयः । अयं भट्टोजिदीक्षितः कः किंजातीयः कदा कुत्र वासीदित्यादिकं किञ्चिद्विचारयामः-भट्टश- ब्दस्य शब्दकौस्तुभव्याख्यायुक्तरीत्या चतुश्शास्त्रज्ञे प्रवृत्तेः पूर्वकालेषु तथैव व्यवहाराच्चायं व्या- करणवेदान्तधर्मशास्त्रपूर्वमीमांसाशास्त्रज्ञः, कौमुद्यां स्वरवैदिकप्रक्रिययोः शाकलशाखास्थो- दाहरणाच्छाकलर्क्शाखाध्यायी । लोकव्यवहारानुसारेण काशिकाकृतश्शिष्य इति च ज्ञायते । तथा शाङ्करमतानुयायी । अत एव मध्वमतखण्डनायाद्वैततत्त्वकौस्तुभाख्यो ग्रन्थोऽनेन रचितः । अत एव न रामानुजादिमतानुयाय्यपि । यतः-श्रीशाङ्करब्रह्मसूत्रभाष्यानुसारेणैवाधिकरणानां रचना सूत्रपाठादिक्रमश्च तत्र तत्त्वकौस्तुभे दृश्यते । एवं वृद्ध्याह्निके पस्पशाह्निके च शुद्धाद्वैतमेव स्वाभिमतं प्रकाशयति स्म शब्दकौस्तुभे “श्रीलक्ष्मीरमणं नौमि गौरीरमणरूपिणम्” इत्यादिना । भट्टोजीत्यादेः जीत्यादिशब्दघटितत्वादसंस्कृते रामजी कृष्णजीत्यादिवज्जीत्यन्तस्य बहुवच- नान्तनामवाचकत्वेन नर्मदोत्तरदेश एव व्यवहारादयमपि तद्देशीय इति सामान्यतो ज्ञायते । न तु तद्देशीय इति निर्णेतुं शक्यते । अस्य पिता लक्ष्मीधरः । एतत्पुत्रो भानुजिदीक्षितः । येनामरसिंहकृतामरकोशस्य सुधा- नाम्नी व्याख्या बघेलवंशोद्भवश्रीमहीधरवंशाधिपकीर्तिसिंहदेवाज्ञया कृतेति वदन्ति । परन्तु स्वयं तेन नायं कृतो ग्रन्थः । किन्तु तन्नामाङ्कितत्वेन रामाश्रमनाम्ना विरचित इति ज्ञायते