वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)
Vaiyakarana Siddhanta Kaumudi of Bhattoji Dikshita with Commentary
भट्टोजि दीक्षित (टीकाकार: वासुदेव दीक्षित एवं ज्ञानेन्द्र सरस्वती) द्वारा
पृष्ठ 243, कुल 835 में से
संदर्भ में पढ़ेंनगरं वरणाः ॥ शर्कराया वा । ४।२।८३ ॥ अस्माच्चातुरर्थिकस्य वा लुप्स्यात् ॥ ठञ्छौ च । ४।२।८४ ॥ शर्कराया एतौ स्तः । कुमुदादौ वराहादौ च पाठसामर्थ्यात्पक्षे ठञ्ककौ । वाग्रहणसामर्थ्यात्पक्षे औत्सर्गिकोऽण् तस्य लुब्विकल्पः । षड् रूपाणि । शर्करा । शार्करम् । शार्करिकम् । शर्करीयम् । शर्करिकम् । शार्करकम् ॥ नद्यां मतुप् । ४।२।८५ ॥ चातु- र्थिकः । इक्षुमती ॥ ^Aमध्वादिभ्यश्च । ४।२।८६ ॥ मतुप् स्याच्चातुरर्थिकः ॥ अनवर्थ्य आरम्भः । मधुमान् ॥ कुमुदनडवेतसेभ्यो ड्मतुप् । ४।२।८७ ॥ कुमुद्वान् । नड्वान् । वेतस्वान् । आद्ययोर् 'झयः' इति, अन्त्ये 'मादुपधाया' इति वक्ष्यमाणेन वः ॥ महिषा- च्चेति वक्तव्यम् * ॥ महिष्मान्नाम देशः ॥ नडशादाड्डड्वलच् । ४।२।८८ ॥ नड्वलः । शादो जम्बालघासयोः । शाद्वलः ॥ शिखाया वलच् ४ ।२।८९ ॥ शिखावलम् ॥ ^Bउत्क- रादिभ्यश्छः । ४।२।९० ॥ उत्करीयः ॥ ^Cनडादीनां कुक् च । ४।२।९१ ॥ नडकी- यम् ॥ कुञ्चा ह्रस्वत्वं च * ॥ कुञ्चकीयः ॥ तक्षन्लोपश्च * ॥ तक्षकीयः ॥ ^Dबिल्वका- दिभ्यश्छस्य लुक् । ६।४।१५३ ॥ नडाद्यन्तर्गता विल्वकादयस्तेभ्यश्छस्य लुक् तद्धिते परे । बिल्वा यस्यां सन्ति सा बिल्वकीया । तस्यां भवा बैल्वकाः । वेत्रकीया । वैत्रकाः ॥ छस्य किम् छमात्रस्य लुग्यथा स्यात्कुको निवृत्तिर्मा भूत् । अन्यथ ‘संनियोगशिष्टानामिति कुगपि निवृ- त्तेत । लुग्ग्रहणं सर्वलोपार्थम् । लोपो हि यमात्रैस्य स्यात् ॥ इति चातुरर्थिकप्रकरणम् । A मधु, बिस, स्थाणु, वेणु, कर्कन्धु, शमी, करीर, हिम, किशर, शर्याण, मरुत, वार्दाली, शर, इष्टका, आसुति, शक्ति, आसन्दी, सकल, शलाका, आमिषी, इक्षु