वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)
Vaiyakarana Siddhanta Kaumudi of Bhattoji Dikshita with Commentary
भट्टोजि दीक्षित (टीकाकार: वासुदेव दीक्षित एवं ज्ञानेन्द्र सरस्वती) द्वारा
पृष्ठ 244, कुल 835 में से
संदर्भ में पढ़ेंतद्धितेषु शैषिकप्रकरणम् । ( १९३ ) अथ शैषिकप्रकरणम् । शेषे । ४।२।९२ ॥ अपत्यादिचतुरर्थ्यन्तादन्योऽर्थः शेषस्तत्राऽणादयः स्युः ॥ चक्षुषा गृह्यते चाक्षुषं रूपम् । श्रावणः शब्दः । औपनिषदः पुरुषः । दृषदि पिष्टा दार्षदाः सक्तवः । उलूखले क्षुण्ण औलूखलो यावकः । अश्वैरुह्यते आश्वो रथः । चतुर्भिरुह्यते चातुरं शकटम् । चतुर्दश्यां दृश्यते चातुर्दशं रक्षः ॥ 'शेष' इति लक्षणं चाधिकारश्च ' तस्य विकार ' इत्यतः प्राक् शेषाधिकारः ॥ राष्ट्रावारपाराद्धखौ । ४ । २ । ९३ ॥ आभ्यां क्रमाद्धखौ स्तः शेषे । राष्ट्रियः । अवारपारीणः ॥ अवारपाराद्विगृहीतादपि विपरीताच्चेति वक्तव्यम् * ॥ अवा- रीणः । पारीणः । पारावारीणः ॥ इह प्रकृतिविशेषादाद्यण्द्युद्युलन्ताः प्रत्यया उच्यन्ते तेषां जातादयोऽर्थविशेषाः समर्थविभक्तयश्च वक्ष्यन्ते ॥ ग्रामाद्यखञौ । ४ । २ । ९४ ॥ ग्राम्यः । ग्रामीणः ॥ ^Aकत्र्यादिभ्यो ढञ् । ४।२।९५ ॥ कुत्सितान्नद्यः कत्रयः । तत्र जातादिः कात्रेयकः । नागरेयकः ॥ ग्रामादित्यनुवृत्तेः—ग्रामेयकः ॥ कुलकुक्षिग्रीवाभ्यः श्वास्यालङ्कारेषु । ४।२।९६ ॥ कौलेयकः श्वा । कौलोऽन्यः । कौक्षेयकोऽसिः । कौक्षोऽन्यः । ग्रैवेयकोऽ- लङ्कारः । ग्रैवोऽन्यः ॥ ^Bनद्यादिभ्यो ढक् । ४।२।९७ ॥ नादेयम् । माहेयम् । वाराणसे- यम् ॥ दक्षिणापश्चात्पुरसस्त्यक् । ४।२।९८ ॥ दक्षिणेत्याजन्तमव्ययम् । दाक्षिणात्यः । पाश्चात्यः । पौरस्त्यः ॥ कापिश्याः ष्फक् । ४।२।९९ ॥ कापिश्यां जातादि कापिशायनं मधु । कापिशायनी द्राक्षा ॥ रङ्कोरमनुष्येऽण् च । ४।२।१०० ॥ चात् ष्फक् ॥ राङ्कवो गौः । राङ्कवायणः ॥ अमनुष्य इति किम् ? रोङ्कवको मनुष्यः ॥ १द्युप्रागपागुद- क्प्रतीचो यत् । ४।२।१०१ ॥ दिव्यम् । प्राच्यम् । अपाच्यम् । उदीच्यम् । प्रतीच्यम् ॥ कन्थायाष्ठक् । ४।२।१०२ ॥ कान्थिकः ॥ वर्णौ वुक् । ४।२।१०३ ॥ वर्णुर्नदस्तस्य समी- पदेशो वर्णुः तद्विषयार्थवाचिकन्थाशब्दाद्वुक् स्यात् ॥ यथा हि जात हिमवत्सु कान्थकम् ॥ अव्ययात्यप् । ४।२।१०४ ॥ अमेहकतसित्रेभ्य एव * ॥ अमाऽन्तिकसहार्थयोः ॥ अमा- त्यः । इहत्यः । कत्यः । ततस्त्यः । तत्रत्यः ॥ परिगणनं किम् ? उपरिष्टाद्भव औपरिष्टः ॥ अव्ययानां भमात्रे टिलोपः * ॥ अनित्योऽयं बहिषष्टिलोपविधानात् । तेनेह न । आरा- तीयः ॥ त्यनेध्रुव इति वक्तव्यम् * ॥ नित्यः ॥ निसोगते * ॥ ह्रस्वात्तादौ तद्धिते । । ८।३।१०१ ॥ ह्रस्वादिणः परस्य सँस्य षः स्यात्तादौ तद्धिते ॥ निर्गतो वर्णाश्रमेभ्यो A कत्रि, उम्भि, पुष्कर, पुष्कल, मोदन, कुम्भी, कुण्डिन, माहिष्मती, नगरी, वर्मती, उख्या, ग्राम, कुड्याया यलोपश्च । इति कत्र्यादिः ॥ B नदी, मही, वाराणसी, श्रावस्ती, कौशाम्बी, वन