वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)
Vaiyakarana Siddhanta Kaumudi of Bhattoji Dikshita with Commentary
भट्टोजि दीक्षित (टीकाकार: वासुदेव दीक्षित एवं ज्ञानेन्द्र सरस्वती) द्वारा
पृष्ठ 264, कुल 835 में से
संदर्भ में पढ़ेंप्राक् क्रीताच्छः ॥ ५।१।१ ॥ तेन क्रीतमित्यतः प्राक् छोऽधिक्रियते ॥ ^Aउग्वा- देभ्यो यत् ॥ ५।१।२ ॥ प्राक् क्रीतादित्येव । उवर्णान्ताद्गवादिभ्यश्च यत्स्याच्छस्यापवादः । नाभि नभं च * ॥ नभ्योऽक्षः । नभ्यमञ्जनम् । रथनाभावेवेदम् ॥ शुनः संप्रसारणं वा च दीर्घत्वम् * ॥ शून्यम् । शुन्यम् । ऊधसोऽनङ् च * ॥ ऊधन्यः ॥ कम्बलाच्च संज्ञायाम् ॥ ५।१।३ ॥ यत्स्यात् । कम्बल्यमूर्णापलशतम् । संज्ञायां किम् । कम्बलीया ऊर्णा ॥ विभाषा हविरपूपादिभ्यः^B ॥ ५।१।४ ॥ आमिक्ष्यं दधि । आमिक्षीयम् । पुरोडाश्यास्तण्डुलाः । पुरोडाशीयाः ॥ अपूप्यम् । अपूपीयं ॥ तस्मै हितम् ॥ ५।१।५ ॥ वत्सेभ्यो हितो वत्सीयो गोधुक् । शङ्कवे हितं शङ्कव्यं दारु । गव्यम् । हविष्यम् ॥ शरीरावयवाद्यत् ॥ ५।१।६ ॥ दन्त्यम् । कण्ठ्यम् ॥ ¹'नस् नासिकायाः' * ॥ नस्यम् ॥ नाभ्यम् ॥ ये च तद्धिते । ६ । १ । ६१ ॥ यादौ तद्धिते परे शिरश्शब्दस्य शीर्श्नादेशः स्यात् । शीर्ष्ण्यः । तद्धिते किम् ? शिर इच्छति