वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)
Vaiyakarana Siddhanta Kaumudi of Bhattoji Dikshita with Commentary
भट्टोजि दीक्षित (टीकाकार: वासुदेव दीक्षित एवं ज्ञानेन्द्र सरस्वती) द्वारा
पृष्ठ 352, कुल 835 में से
संदर्भ में पढ़ेंर्थोऽनुवादः । उन्मथनं ज्ञापनम् । जिह्वाशब्देन षष्ठीतत्पुरुषः । लडयति जिह्वाम् । तृतीयात- त्पुरुषो वा । लडयति जिह्वया । अन्ये तु जिह्वाशब्देन तद्व्यापारो लक्ष्यते । समाहारद्वन्द्वोऽयम् । लडयति शत्रुम् । लडयति दधि । अन्यत्र लाडयति पुत्रम् ॥ ४० ॥ मदी हर्षग्लेपनयोः । ग्लेपनं दैन्यम् । दैवादिकस्य मित्त्वार्थोऽयमनुवादः । मदयति । हर्षयति, ग्लेपयति वेत्यर्थः । अन्यत्र मादयति । चित्तविकारमुत्पादयतीत्यर्थः ॥ ४१ ॥ ध्वन शब्दे । भाव्यं मित्त्वार्थमनूद्यते । ध्वनयति घण्टाम् । अन्यत्र ध्वानयति । अस्पष्टाक्षरमुच्चारयतीत्यर्थः ॥ ४२ ॥ अत्र भोजः । दलि, वलि, स्खलि, रणि, ध्वनि, त्रपि, क्षपयश्चेति पपाठ । तत्र ध्वनि-रणी उदाहृतौ । दल विशरणे । वल संवरणे । स्खल संचलने । त्रपूष् लज्जायामिति गताः, तेषां णौ । दलयति । वलयति । स्खलयति । त्रपयति । क्षि क्षये इति वक्ष्यमाणस्य कृतात्त्वस्य पुका निर्देशः । क्षपयति ॥ ४९ ॥ स्वन अवतंसने । शब्दे इति पठिष्यमाणस्यानुवादः । स्वनयति । अन्यत्र स्वानयति ॥ ५० ॥ घटादयो मितः ॥ मित्संज्ञा इत्यर्थः ॥ जनीजॄष्क्ष्णसुरांऽ- मन्ताश्च ॥ मित इत्यनुवर्तते । जॄषिति षित्त्वनिर्देशाज्जौर्यतेर्ग्रहणम् ॥ जॄणातेस्तु जारयति । केचित्तु जनी जॄ ष् ण्सु इति पठित्वा ष् णसु निरसने इति दैवादिकमुदाहरन्ति ॥ ५४ ॥ ज्वल- ह्वलह्मलनमामनुपसर्गाद्वा ॥ एषां मित्त्वं वा । प्राप्तविभाषेयम् । ज्वलयति, ज्वालयति । उपसृष्टे तु नित्यं मित्त्वम् । प्रज्वलयति ॥ कथं तर्हि प्रज्वालयति । उन्नामयतीति ? घञन्तात्तत्करोतीति णौ ॥ कथं संक्रामयतीति ? 'मितां ह्रस्व' इतिसूत्रे 'वा चित्तविरागे' इत्यतो वेत्यनुवर्त्य व्यव- स्थितविभाषाश्रयणादिति वृत्तिकृत् । एतेन 'रजो विश्रामयन् राज्ञाम्' 'कुर्यान्विश्रामयेति स' इत्यादि व्याख्यातम् ॥ ५८ ॥ ग्लास्नाव्नुवमां च ॥ अनुपसर्गादेषां मित्त्वं वा स्यात् आद्ययोःप्राप्ते इतरयोः प्राप्ते विभाषा ॥ ६२ ॥ न कम्यमिचमाम् ॥ अमन्तत्वात्प्राप्तं मि- त्त्वमेषां न स्यात् । कामयते । आमयति । चामयति ॥ ६५ ॥ शमो दर्शने ॥ शाम्यतिर्दर्शने मिन्न स्यात् । निशामयति रूपम् । अन्यत्र तु 'प्रणयिनो निशमय्य वधूः कथाः ' । कथं तर्हि 'निशामय तदुत्पत्तिं विस्तराद्वदतो ममेति । शम आलोचन इति चौरादिकस्य । धातूनामने- कार्थत्वाच्छ्रवणे वृत्तिः शाम्यतिवत् ॥ ६६ ॥ यमोऽपरिवेषणे ॥ यच्छतिर्भोजनतोऽन्यत्र मिन्न स्यात् । आयामयति । द्राघयति, व्यापारयति वेत्यर्थः । परिवेषणे तु यमयति ब्राह्म- णान् । भोजयतीत्यर्थः । पर्यवसितं नियमयन्तीत्यादि तु नियमवच्छब्दात्तत्करोतीति णौ बो-
१ जिह्वामिति । तां ज्ञापयतीत्यर्थः । जिह्वयेति तया ज्ञापयतीत्यर्थः । लडयति शत्रुमिति । गालयतीत्यर्थः । दधीति । विलोडयतीत्यर्थः ॥ २ प्राप्तविभाषेयमिति । ज्वलधातोः पूर्वं पाठात्, नम्- धातोरमन्तत्वात् प्राप्तविभाषेत्यर्थः ॥ ३ घञन्तादिति । णौ टिलोपेन घञो लोपे तस्य स्थानिवत्त्वान्न “मितां ह्रस्वः” इति भावः ॥ ४ घञा सिद्धिर्न भवति “नोदात्तोपदेशस्य” इति निषेधादतः शङ्कते-कथं संक्रामयतीति । ५ वृत्तिकृदिति । भाष्ये तु न दृश्यते इति भावः ॥ मूलोक्तप्रयोगेषु बाहुलकत्वाद् दीर्घ.इति समाधेयमिति बोध्यम् ॥ ६ प्राप्ते इति । वनः पूर्वं पाठात्, वमोऽमन्तत्वादिति भावः ॥ ७ नियमवच्छब्दादिति । नच मतुब्लोपे विन्मतोर्लुकिष्ठिलोपापवादत्वेन “टेः” इत्यस्याप्राप्तौ वृद्धौ पुगापत्तिरिति वाच्यम्, “नियमवत्” इत्यर्थकाद् “अर्शआद्यजन्तनियमशब्दात्” इत्यर्थेनादोषात् ॥