वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)
Vaiyakarana Siddhanta Kaumudi of Bhattoji Dikshita with Commentary
भट्टोजि दीक्षित (टीकाकार: वासुदेव दीक्षित एवं ज्ञानेन्द्र सरस्वती) द्वारा
पृष्ठ 353, कुल 835 में से
संदर्भ में पढ़ेंध्यम् ॥ ६७ ॥ स्वदिरवपरिभ्यां च ॥ मिन्नेत्येव । अवस्वादयति । परिस्वादयति । अपा- वपरिभ्य इति न्यासकारः । स्वामी तु न कमीति नञमुत्तरत्रिसूत्र्यामनुकृष्य शम अदर्शने इति चिच्छेद । यमस्त्वपरिवेषणे मित्त्वमाह । तन्मते पर्यवसितं नियमयन्नित्यादि सम्यगेव । उपसृष्टस्य स्वदेश्वेदादिपूर्वस्येति नियमात्प्रस्वादयतीत्याह । तस्मात् सूत्रद्वये उदाहरणप्रत्यु- दाहरणयोर्व्यत्यासः फलितः । इदं च मतं वृत्तिन्यासादिविरोधादुपेक्ष्यम् ॥ ६९ ॥ फण गतौ ॥ नेति निवृत्तमसंभवात् । निषेधात्पूर्वमसौ न पठितः । फणादिकार्यानुरोधात् । फणां च सप्तानाम् ॥ ६ । ४ । १२५ ॥ एषां वा एत्त्वाभ्यासलोपौ स्तः किति लिटि सेटि थलि च । फेणतुः । फेणुः । फेणिथ । पफणतुः । पफणुः । फणयति ॥ वृतू ॥ घटादिः समाप्तः ॥ फेणेः प्रागेव वृतित्येके । तन्मते फाणयतीत्येव ॥ ७० ॥ राजृ दीप्तौ । स्वरितेत् । राजति । राजते । रेजतुः । रराजतुः । रेजे । रराजे । अत इत्यनुवृत्तावपि विधानासामर्थ्यादात एत्त्वम् ॥ ७१॥ ष्टुब्राजृ ष्टुभ्राशृ ष्टुब्लाशृ दीप्तौ । अनुदात्तेतः । भ्राजतेरिह पाठः फणा- दिकार्यार्थः । पूर्वं पाठस्तु ब्रश्चादिषत्वाभावार्थः । तत्र हि राजिसाहचर्यात् फणादेरेव ग्रह- णम् । भ्रजे । बभ्राजे । वा भ्राशेति श्यन्वा । भ्राश्यते । भ्राशते । भ्रेशे । बभ्राशे । म्लाश्यते । म्लाशते । म्लेशे । वम्लाशे । द्वावपीमौ तालव्यान्तौ ॥ ७४ ॥ ष्यमु स्वन ध्वन शब्दे ॥ स्यमादयः ष्क्रन्त्यन्ताः परस्मैपदिनः । स्येमतुः । सस्यमतुः । अस्यमीत् । स्वेनतुः । सस्वनतुः । अस्वानीत् । अस्वनीत् । विष्कणति । अवष्कणति । सशब्दं भुङ्क्ते इत्यर्थः । वेञ्श्च स्वन इति षत्वम् । फणादयो गताः । दध्वनतुः ॥ ३ ॥ षम ष्टम अवैकल्ये । ससाम । तस्ताम ॥ ५ ॥ ज्वल दीप्तौ । अज्वलीत् ॥ ६ ॥ चल कम्पने ॥ ७ ॥ जल घातने । घातनं तैक्ष्ण्यम् ॥ ८ ॥ टल टूल वैक्लव्ये ॥ १० ॥ घुल स्थाने ॥ ११ ॥ हल विले- खने ॥ १२ ॥ णल गन्धे । बन्धन इत्येके ॥ १३ ॥ पल गतौ । पलति ॥ १४ ॥ वल प्राणने धान्यावरोधने च । बलति । वेलतुः । वेलुः ॥ १५ ॥ पुल महत्त्वे । पोलति ॥ १६॥ कुल संस्त्याने बन्धुषु च । संस्त्यानं संघातः । बन्धुशब्देन तद्व्यापारो गृह्यते । कोलति । चुकोल ॥ १७ ॥ शल हुल पत्लृ गतौ । शशाल । जुहोल । पपात । पेततुः । पतिता ॥ पतः पुम् । ७।४।१९ ॥ अङि परे । अपप्तत् । नेर्गदेति णत्वम् । प्रण्यपप्तत् ॥ २० ॥ कथे निष्पाके । कथति ॥ चकथ । अकथीत् ॥ २१ ॥ पथे गतौ । अपथीत् ॥ २२ ॥ मथे विलोडने । मेथतुः । अमथीत् ॥ २३ ॥ टुवम उद्गिरणे । इहैव निपा- १ फणेः प्रागेवेति । “योव्यतीकारं फाणयन् सुधायुक्तमुपादशुषे” इत्यादिश्रौतप्रयोगोऽत्रानुकूलः ॥ २ तत्र हीति । षत्वविधौ ॥ ३ “टल टूल” वैक्लव्यं भयादिजनितोद्वेगः ॥ ४ तद्व्यापार इति । बन्धुत्वानुकूलो व्यापारः ॥ ५ ननु उत्पूर्वाद् गृधातोर्ल्युटि “इत्त्वोत्वाभ्यां गुणवृद्धी विप्रतिषेधेन” इति गुणे “उद्गरण” इति स्यादत आह-इहैवेति ॥ सुधाकर इति । अस्यैवमर्थसहितपाठस्य पाणिनिनाऽ- पठितस्य प्रमाणत्वाभाव इत्यत्रारुचिः ॥ तस्माद् “ उद्गरण ” इत्येव पाठः साधीयान् । उद्गरणमन्तर्गतस्य मुखेन निस्सारणम् । पृषोदरादित्वेन समादधति केचन ॥