वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)
Vaiyakarana Siddhanta Kaumudi of Bhattoji Dikshita with Commentary
भट्टोजि दीक्षित (टीकाकार: वासुदेव दीक्षित एवं ज्ञानेन्द्र सरस्वती) द्वारा
पृष्ठ 454, कुल 835 में से
संदर्भ में पढ़ेंHere is the complete, line-by-line transcription of the page into Unicode Devanagari Markdown:
( ४०६ ) सिद्धान्तकौमुद्याम्- अथ कर्मकर्तृप्रकरणम् । यदा१ सौकर्यातिशयं द्योतयितुं कर्तृव्यापारो न विवक्ष्यते२ तदा कारकान्तराण्यपि कर्तृसंज्ञां लभन्ते । स्वव्यापारे स्वतन्त्रत्वात् तेन पूर्वं करणत्वादिसत्त्वेऽपि संप्रति कर्तृत्वात्कर्तरि लकारः । साध्वसिश्छिनत्ति । काष्ठानि पचन्ति । स्थाली पचति । कर्मणस्तु कर्तृत्वविवक्षायां प्राक्स- कर्मका अपि प्रायेणाकर्मका३स्तेभ्यो भावे कर्तरि च लकारः । भावे पच्यते ओदनेन । भिद्यते काष्ठेन ॥ कर्तरि तु ॥ कर्मवत्कर्मणा तुल्यक्रियः । ३।१।८७॥ कर्मस्थया क्रियया तुल्यक्रियः कर्ता कर्मवत्स्यात् ॥ कार्यातिदेशोऽयम् । तेन४ यगात्मनेपदचिण्वद्भाविटः स्युः ॥ कर्तुरभिहितत्वात्प्रथमा ।