भारतकोश
वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)

वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)

Vaiyakarana Siddhanta Kaumudi of Bhattoji Dikshita with Commentary

भट्टोजि दीक्षित (टीकाकार: वासुदेव दीक्षित एवं ज्ञानेन्द्र सरस्वती) द्वारा

DevanagariHindipublished835 पृष्ठ

पृष्ठ 479, कुल 835 में से

संदर्भ में पढ़ें
पृष्ठ 479

कियत्तद्बहुषु कृञोऽज्विधानमिति वार्तिकम् * ॥ किंकरा । यत्करा । तत्करा । हेत्वादौ टं बाधित्वा परत्वादच् । पुंयोगे ङीप् । किंकरी ॥ कर्मणि भृतौ । ३ । २ । २२ ॥ कर्मशब्दे उपपदे करोतेष्टः स्यात् ॥ कर्मकरो भृतकः । कर्मकारोऽन्यः ॥ न शब्दश्लोककलहगाथावै- रचाटुसूत्रमन्त्रपदेषु । ३ । २ । २३ ॥ एषु कृञष्टो न । हेत्वादिषु प्राप्तः प्रतिषिध्यते । शब्दकार इत्यादि ॥ स्तम्बशकृतोरिन् । ३।२।२४॥ व्रीहिवत्सयोरिति वक्तव्यम्* ॥ स्तम्बकरिर्व्रीहिः । शकृत्करिर्वत्सः ॥ व्रीहिवत्सयोः किम् ? स्तम्बकारः । शकृत्कारः ॥ हरतेर्हृत्तिनाथयोः पशौ । ३।२।२५ ॥ दृतिनाथयोरुपपदयोर्हृञ इन् स्यात्पशौ कर्त्तरि ॥ दृतिं हरतीति दृतिहरिः । नाथं नासारज्जुं हरतीति नाथहरिः ॥ पशौ कि