वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)
Vaiyakarana Siddhanta Kaumudi of Bhattoji Dikshita with Commentary
भट्टोजि दीक्षित (टीकाकार: वासुदेव दीक्षित एवं ज्ञानेन्द्र सरस्वती) द्वारा
पृष्ठ 480, कुल 835 में से
संदर्भ में पढ़ें( ४३२ ) सिद्धान्तकौमुद्याम्- पूर्वपदस्य ह्रस्वः स्यात् ॥ ततो मुम् । शुनिन्धयः । तिलन्तुदः । शर्धंजहा माषाः । शर्धोऽपान- शब्दः तं जहाति इति विग्रहः । जहातिरन्तर्भावितण्यर्थः ॥ नासिकास्तनयोर्ध्मेटोः ।३।२ २९॥अत्र वार्तिकम् ॥ स्तने धेटो नासिकायां ध्मश्चेति वाच्यम् * ॥ स्तनं धयतीति स्तन- न्धयः । धेट्ष्टित्त्वात् स्तनन्धयी । नासिकन्धमः । नासिकन्धयः ॥ नाडीमुष्ट्योश्च।३।२।३०॥ एतयोरुपपदयोः कर्मणोर्ध्मेटोः खश् स्यात् ॥ यथासंख्यं नेष्यते * ॥ नाडिन्धमः । नाडि- न्धयः । मुष्टिन्धमः । मुष्टिन्धयः ॥ घटीखारीखरीषूपसंख्यानम् *॥ घटिन्धमः । घटिन्धयः । इत्यादि । खारी परिमाणविशेषः । खरी गर्दभी ॥ उदि कूले रुजिवहोः । ३ । २ । ३१ ॥ उत्पूर्वाभ्यां रुजिवहिभ्यां कूले कर्मण्युपपदे खश् स्यात् ॥ कूलमुद्रुजतीति कूलमुद्रुजः । कूल- मुद्वहः ॥ वहाभ्रे लिहः । ३ । २ । ३२॥ वहः स्कन्धस्तं लेढीति वहंलिहो गौः । अदादित्वा- च्छपो लुक् । खशो डित्त्वान्न गुणः । अभ्रंलिहो वायुः ॥ परिमाणे पचः । ३ । २ । ३३ ॥ प्रस्थम्पचा स्थाली । खारिम्पचः कटाहः ॥ मितनखे च । ३ । २ । ३४ ॥ मितम्पचा ब्राह्मणी । नखम्पचा यवागूः । पचिरत्र तापवाची ॥ विध्वरुषोस्तुदः ।३।२।३५॥ विधुन्तुदः । मुमि कृते संयोगान्तस्य लोपः । अरुन्तुदः ॥ असूर्यललाटयोर्दृशितपोः । ३ । २ । ३६ ॥ असूर्यमित्यसमर्थसमासः ॥ दृशिना नञः संबन्धात् । सूर्यं न पश्यन्तीत्यसूर्यम्पश्या राज- दाराः । ललाटन्तपः सूर्यः ॥ उग्रम्पश्येरम्मदपाणिन्धमाश्च । ३ । २ । ३७ ॥ एते निपात्यन्ते । उग्रमिति क्रियाविशेषणं तस्मिन्नुपपदे दृशेः खश् ॥ उग्रं पश्यतीत्युग्रम्पश्यः ॥ इरा उदकं तेन माद्यति दीव्यतेऽग्निवन्त्वादिति इरम्मदो मेघज्योतिः । इह निपातनात् श्यन् ॥ पाणयो ध्मायन्तेऽस्मिन्निति पाणिन्धमोऽध्वा । अन्धकाराद्यावृत इत्यर्थः । तत्र हि सर्पाद्यपनोदाय पाणयो ध्मायन्ते ॥ प्रियवशे वदः खच् । ३ । २ । ३८ ॥ प्रियंवदः । वशंवदः ॥ गमेः सुपि वाच्यः * ॥असंज्ञार्थमिदम् । मितङ्गमो हस्ती ॥ विहायसो विह इति वाच्यम् * ॥ खच्च डिद्वा वाच्यः * ॥ विहङ्गमः । विहङ्गः । भुजङ्गमः ॥ भुजङ्गः ॥ द्विषत्परयोस्तापेः । ३ । २ । ३९ ॥ खच् स्यात् ॥ खचि ह्रस्वः । ६। ४।९४॥ खच्परे णौ उपधाया ह्रस्वः स्यात्॥ द्विषन्तं परं वा तापयतीति द्विषन्तपः । परन्तपः । घटघटीप्र- ग्रहणाल्लिङ्गविशिष्टपरिभाषा अनित्या । तेनेह न—द्विषतीं तापयतीति द्विषतीतापः ॥ वाचि- यमो व्रते । ३ । २ । ४० ॥ वाक्शब्दे उपपदे यमेः खच् स्याद्व्रते गम्ये ॥ वाचंयमपु- रन्दरौ च । ६ । ३ । ६९॥ वाक्पुरोरमन्तत्वं निपात्यते ॥ वाचंयमो मौनव्रती ॥ व्रते किम् ? अशक्त्यादिना वाचं यच्छतीति वाग्यामः ॥ पूःसर्वयोर्दारिसहोः । ३ । २ । ४१ ॥ पुरं दारयतीति पुरन्दरः । सर्वंसहः । सहिग्रहणमसंज्ञार्थम् ॥ भङ्गे च दारेरिति काशिका । बाहुलकेन लब्धमिदमित्याहुः । भगं दारयतीति भगन्दरः ॥ सर्वकूलाभ्रकरीषेषु कषः ।३।२। १ यथासंख्यं नेष्यते इति । प्रकृतसूत्रे भाष्ये “स्तने धेटः, नासिकायां ध्मश्च” इति कथनादिति भावः ॥