भारतकोश
वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)

वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)

Vaiyakarana Siddhanta Kaumudi of Bhattoji Dikshita with Commentary

भट्टोजि दीक्षित (टीकाकार: वासुदेव दीक्षित एवं ज्ञानेन्द्र सरस्वती) द्वारा

DevanagariHindipublished835 पृष्ठ

पृष्ठ 538, कुल 835 में से

संदर्भ में पढ़ें
पृष्ठ 538

(४८८) सिद्धान्तकौमुद्याम्- ककारः ॥ १ रादिफः * ॥ रेफः ॥ २ मत्वर्थाच्छः * ॥ बहुलवचनादकारलोपः । मत्वर्थीयः ॥ ३ ईणजादिभ्यः * ॥ आजिः । आतिः ॥ इज् वपादिभ्यः * ॥ वापिः । वासिः । स्वरे भेदः ॥ इक् कृष्यादिभ्यः * ॥ कृषिः । गिरिः ॥ ४ संज्ञायाम् । ३ । ३ । १०९ ॥ अत्र धातोर्ण्वुल् ॥ उद्दालकपुष्पभञ्जिका ॥ ५ विभाषाख्यानपरिप्रश्नयोरिश्च । ३ । ३ । ११० ॥ परिप्रश्ने आख्याने च गम्ये इञ् स्याद्वात् ण्वुल् ॥ विभाषोक्तेर्यथाप्राप्तमन्येऽपि । कां त्वं कारिं कारिकां क्रियां कृत्यां कृतिं वाकार्षीः । सर्वां कारिं कारिकां क्रियां कृत्यां कृतिं वाकार्षम् । एवं गर्णि गणिकां गणनाम् । पाचिं पाचिकां पचां पक्तिम् ॥ ६ पर्यायार्होत्पत्तिषु ण्वुच् । ३ । ३ । १११ ॥ पर्यायः परिपाटी क्रमः । अर्हणमर्हः योग्यता । पर्यायादिषु द्योत्येषु ण्वुच् वा स्यात् ॥ भवत आसिका । शायिका । अग्रगामिका । भवानिक्षुभक्षिकामर्हति । ऋणे । इक्षुभ- क्षिकां मे धारयति । उत्पत्तौ । इक्षुभक्षिका उदपादि ॥ ७ आक्रोशे नञ्यनिः । ३ । ३ । ११२ ॥ विभाषेति निवृत्तम् । नञि उपपदेऽनिः स्यादाक्रोशे ॥ अजीर्णिस्ते शठ भूयात् । अप्रयाणिः ॥ कृत्यल्युटो बहुलम् । ३ । ३ । ११३ ॥ भावे अकर्तरि च कारके इति च निवृत्तम् ॥ राज्ञा भुज्यन्ते राजभोजनाः शालयः ॥ नपुंसके भावे क्तः । ३ । ३ । ११४ ॥ ल्युट् च । ३ । ३ । ११५ ॥ हसितम् । हसनम् । ८ योगविभाग उत्तरार्थः ॥ कर्मणि च येन संस्पर्शात्कर्तुः ९ शरी- रसुखम् । ३ । ३ । ११६ ॥ येन स्पृश्यमानस्य कर्तुः शरीरसुखमुत्पद्यते तस्मिन् कर्मण्यु- पपदे ल्युट् स्यात् ॥ पूर्वेण सिद्धे नित्यसमासार्थं वचनम् । पयःपानं सुखम् । कर्तुरिति किम् ? गुरोः स्नापनं सुखम् । नेह गुरुः कर्ता किं तु कर्म ॥ वा यौ । २ । ४ । ५७ ॥ अजेर्वी वा स्याद्यौ ॥ प्रवयणम् । प्राजनम् ॥ १० करणाधिकरणयोश्च । ३ । ३ । ११७ ॥ ल्युट् स्यात् ॥ इध्मप्रव्र- श्चनः कुठारः । गोदोहनी स्थाली । खलः प्राक्करणाधिकरणयोरित्यधिकारः ॥ ११ अन्तरदेशे । १ रादिफ इति । कारस्यायमपवादः । वासरूपविधिना कारोऽपि । तेन "रकारादीनि नामानि शृण्वतो मम पार्वति !” इत्यादि सिद्धम् ॥ २ मत्वर्थादिति । मतुना समानोऽर्थो यस्य स मत्वर्थस्ततः स्वार्थे छः । मतुना तदर्थो लक्ष्यते । ततो बहुव्रीहिः । ननु तद्धितपरत्वाभावादभवत्वाच्च “यस्येति च" इत्यस्याप्राप्तावकारलोपो न स्यादत आह-बहुलवचनादिति । ३ इणजादिभ्य इति । धात्वर्थनिर्देशे प्राप्तस्य ण्वुलोऽ पवादः । आजिरिति । बहुलवचनाद्दीर्भावाभावः ॥ ४ संज्ञायामिति । अधिकरणे ण्वुलर्थोयमारभ्यते । उद्दालकः श्लेष्मान्तकस्तस्य पुष्पाणि यस्यां क्रीडायां भज्यन्ते सा । “नित्यं क्रीडाजीविकयोः” इति समासः ॥ ५ "विभाषाख्यानपरिप्रश्नयोः" इति सूत्रे आख्यानशब्दस्याल्पाच्त्वेन पूर्वनिपातेऽपि लोके आख्यानस्य परिप्रश्नपूर्वकत्वेनाऽर्थक्रमानुरोधेन व्याख्यानवाक्ये परिप्रश्नमेवादौ लिखति-परिप्रश्न इति ॥ ६ पर्या- येति । त्रयोऽर्थास्तत्रोत्पत्तिर्जन्म ॥ ७ आक्रोश इति । आक्रोशः शपनम् ॥ ८ योगवि- भाग उत्तरार्थ इति । उत्तरत्र ल्युट एवानुवृत्तिर्यथा स्यात् क्तस्य माभूदित्येवमर्थम् ॥ ९ शरी- रसुखमिति । अर्थांत् स्पृश्यमानस्य कर्तुः शरीरस्वास्थ्यजनकं सुखमित्यर्थः ॥ १० करणाधिकर- णयोरिति । अव्यवधानेन फलजनकब्यापारवत् कारणं करणम् । ( वै० सा० सुब० ) कारकान्तरसाध्यव्या- पारम् ( ल० म० ) । क्रियामात्रजनकत्वे सति व्यापारवत् करणम् ॥ ११ अन्तरदेश इति । “अन्तर- देशे" इति, "अयनं च" इति च सूत्रं न कर्तव्यम्, “श्वदन्तर्रोपसर्गार्वद्वृत्ति" इत्यनेनैव सिद्धत्वात् । देशे प्रतिषेधः क्षुभ्नादित्वात्सिद्धः" इति कैयटः ॥