भारतकोश
वाक्यपदीयम्: ब्रह्मकाण्ड (भर्तृहरि - शब्दब्रह्म, स्फोट-सिद्धान्त एवं भाषा-दर्शन सटीक)

वाक्यपदीयम्: ब्रह्मकाण्ड (भर्तृहरि - शब्दब्रह्म, स्फोट-सिद्धान्त एवं भाषा-दर्शन सटीक)

Vakyapadiya Brahmakanda of Bhartrihari with Commentary

भर्तृहरि (टीकाकार: पं. सूर्यनारायण शुक्ल) द्वारा

DevanagariHindipublished192 पृष्ठ

पृष्ठ 113, कुल 192 में से

संदर्भ में पढ़ें
पृष्ठ 113

निबन्धनम् अन्ये तु एकशब्दत्वं तत्र चानेकशक्तियोगं१ एकशक्तित्वं२ वेति दर्शन- विकल्पः । तत्र यदा एकशब्दत्वपक्षस्तदा 'यःसारण्यके ससीमके' इति भाष्यं शक्तिभेदादुपचरितभेदाश्रयम् भेदपक्षे तु 'ग्रामशब्दोऽयं बह्वर्थः' इति भाष्यम् अभिन्नसामान्यनिमित्तैकत्वाभिप्रायम्' इति ॥ यद्वा भिन्नं दर्शनं वर्णाः सत्याः पदानि वाक्यानि चासत्यानि इत्येकं दर्शन- माश्रित्य 'गकारौकारविसर्जनीयाः शब्द' इति व्यवहारः वाक्यानि सत्यानि वर्णाः पदानि चासत्यानि इत्यपरं दर्शनमाश्रित्य श्लोकार्थं प्रतिपद्यामहे इति व्यवहारः अनुगम्यते क्रियते तत्र एकेषां पदवाक्यसत्यत्ववादिनां यन्मुख्यं सत्यं तत्र अन्येषां वर्णसत्यत्ववादिनां विपर्ययः मिथ्यात्वमिति मतिः ॥ अथवा (वर्ण नित्य तथा पद और वाक्य अनित्य हैं। यह) एक दर्शन मानकर (गकार औकार और विसर्ग शब्द हैं। इस प्रकार का) व्यवहार है और (वाक्य को सत्य तथा वर्ण और पदों को असत्य हैं) दूसरा दर्शन मानकर (श्लोक से अर्थ समझ रहे हैं) इस ढङ्ग के व्यवहार किए हैं। इन दोनों पक्षों में जो लोग पद अथवा वाक्य को सत्य तथा मुख्य मानते हैं वही दूसरे लोग वर्ण को सत्य मानकर पद और वाक्य को मिथ्या बताते हैं ॥ ७४ ॥ वर्णातिरिक्तो ह्यङ्गीक्रियमाणः स्फोटः वेदस्य प्रामाण्यमापादयति इतरथा वर्णा- नामवाचकत्वेन तदन्यस्य चासत्त्वेन प्रामाण्यस्यैवासम्भवः स्यात् वाक्यावयवाश्रिता- न्यूहादीनि तु कार्याणि गत्यन्तरासम्भवादपोद्धृत्य कल्पनया समर्थनीयानि वर्णाति- रिक्तस्य वाचकत्वादेव 'सुप्तिङन्तं पदम्' 'अर्थप्रयुक्ते शब्दप्रयोगे' 'येनोच्चारितेन' 'भा- वार्थीः कर्मशब्दाः' 'भावमाख्यातेनाचष्टे' 'एतं मन्त्रमपश्यत्' इत्यादयः स्मार्ताः श्रौ- ताश्च व्यवहारा उपपद्यन्ते इति तत्त्वम्—॥ ७४ ॥ 'नित्याः शब्दार्थसम्बन्धा' इति कारिकया शब्दार्थसम्बन्धानां नित्यत्वं प्रतिज्ञातं तत्र कः शब्दः यस्य नित्यत्वमुच्यते इति शिष्यजिज्ञासाशान्तये शब्दद्वैविध्यं ततो- ऽर्थबोधप्रकारश्चोक्तः सांप्रतं नित्यत्वेनाभिमतस्य स्फोटरूपस्य शब्दस्य सति कालकृत- परिच्छेदे नित्यत्वं न स्यादिति द्रुतादिवृत्तिभेदस्य प्रयोजकमाह— अब तक शब्दों की नित्यता सिद्ध करने के लिये शब्दों के दो भेद तथा अर्थबोध का प्रकार बताया गया । अब शङ्का उत्पन्न हुई कि यदि काल कृतभेद शब्द में है तब शब्द नित्य नहीं हो सकता । द्रुतादिवृत्तियाँ तो शब्द में ही रहती हैं । इस पर हमारा कहना है कि— स्फोटस्याभिन्नकालस्य ध्वनिकालाऽनुपातिनः । ग्रहणोपाधिभेदेन वृत्तिभेदं प्रचक्षते ॥ ७५ ॥ न भिन्नः कालः कालभेदो यस्य तस्य अभिन्नकालस्य कालकृतपरिच्छेदशून्य- स्य नित्यस्येति यावत् नित्यं हि वस्तु न कालेन परिच्छिद्यते नित्येषु कालिकाऽयोगात् तथापि ध्वनिकालमनुपततीति ध्वनिकालानुपाती तस्य ध्वनिकालानुपातिनः १ अनेकशक्तीति । निरूपकभेदाच्छक्तिभेद इति भावः । २. एकशक्तीति । निरूपकभेदेऽपि समवायस्यैकत्वैकत्वं शक्तेरिति भावः ।