भारतकोश
वाक्यपदीयम्: ब्रह्मकाण्ड (भर्तृहरि - शब्दब्रह्म, स्फोट-सिद्धान्त एवं भाषा-दर्शन सटीक)

वाक्यपदीयम्: ब्रह्मकाण्ड (भर्तृहरि - शब्दब्रह्म, स्फोट-सिद्धान्त एवं भाषा-दर्शन सटीक)

Vakyapadiya Brahmakanda of Bhartrihari with Commentary

भर्तृहरि (टीकाकार: पं. सूर्यनारायण शुक्ल) द्वारा

DevanagariHindipublished192 पृष्ठ

पृष्ठ 114, कुल 192 में से

संदर्भ में पढ़ें
पृष्ठ 114

स्वाभिव्यञ्जकध्वनिकालात् प्राप्तकालपरिच्छेदस्य तावत्कालमुपलभ्यमानस्य स्फोटस्य ग्रहणोपाधिभेदेन गृह्यतेऽनेनेति व्युत्पत्त्या ग्रहणं बुद्धिः व्यञ्जकीभूतो ध्वनिर्वा स एवोपाधिस्तद्भेदेन वृत्तिभेदं वृत्तीनां द्रुतमध्यमाविलम्बितानां ह्रस्वादिप्रमाणरूपाणां च भेदं प्रचक्षते न तु वास्तवस्तस्य द्रुतादिवृत्तिभेद इत्यर्थः । तदुक्तं तपरसूत्रे भाष्ये 'यथा भेर्याहन्ता भेरीमाहत्य कश्चिद्विशतिपदानि गच्छति कश्चित् त्रिंशत् कश्चिच्चत्वारिंशत् स्फोटस्तावतानेव ध्वनिकृता वृद्धिः' इति ॥ ७५ ॥ यद्यपि यह स्फोटरूपी शब्द कालकृतपरिच्छेद से रहित है । अतः नित्य है । क्योंकि कालिक सम्बन्ध से नित्य कहीं नहीं रहता । तथापि स्फोट को व्यक्त करने वाली ध्वनि में कालिक सम्बन्ध होने से स्फोट के ग्रहण ( बुद्धि या व्यञ्जक ध्वनि ) रूपी उपाधियों के भेद से (द्रुत, मध्य, लम्बित, या ह्रस्व, दीर्घ, प्लुत) आदि वृत्तियों के भेद माने जाते हैं । तपर सूत्र का भाष्य देखने से पता चलता है कि 'जैसे एक नगाड़े में एक आघात करके कोई बीस पग भरता है । कोई तीस । यह भेद ध्वनि के कारण होता है । क्योंकि स्फोट तो एक ही है । इसी प्रकार ध्वनि की द्रुतता से स्फोट की नित्यता में बाधा नहीं पड़ती ॥ ७५ ॥ नन्वेवं स्फोटे स्वतः कालकृतभेदाभावेऽपि ध्वनिकृतकालभेदेन स्फोटेषु ह्रस्वदीर्घ- प्लुतेषु कालभेदमाश्रित्य तपरसूत्रेण अतत्कालयोर्दीर्घप्लुतयोर्यथा व्यावृत्तिः क्रियते तथा द्रुतादिवृत्तीनां भेदेऽपि कालभेदमाश्रित्य अतत्कालव्यावृत्तिः स्यादिति तथा च 'द्रुतायां तपरकरणे मध्यमविलम्बितयोरुपसंख्यानं कालभेदात्' इति वार्तिकमा- रब्धव्यं स्यादित्यत आह— स्वभावभेदान्नित्यत्वे² ह्रस्वदीर्घप्लुतादिषु । प्राकृतस्य ध्वनेः कालः शब्दस्येत्युपचर्यते ॥ ७६ ॥ प्राकृतध्वनिरूपरूपितस्यैव स्फोटस्य भानात् स्फोटप्राकृतध्वन्योर्नीरक्षीरन्यायेन भिन्नत्वेनाप्रत्ययात्प्राकृतो ध्वनिः स्फोटस्य स्वभावः स्वरूपमित्येति स्वभावभेदात् स्वरूपविशेषात् स्फोटतापार्थक्येनाग्रहणोपाधिकस्फोटस्वरूपात्वाभिमानवशात् प्राकृ- तस्य ध्वनेः यः कालः एकमात्रादिरूपः ह्रस्वदीर्घप्लुतादिषु उच्चारणीयेषु वर्त- मानः सः शब्दस्य स्फोटस्य नित्यत्वेऽपि उपचर्यते शब्दे अध्यारोप्यते व्यवहि- यते इति यावत् ॥ और, प्राकृत ध्वनि को स्फोट का एक विशेष रूप मान लेने से प्राकृतध्वनि का ही एक मात्रिक आदि काल ह्रस्व, दीर्घ और प्लुत में स्थिर रहता है जो स्फोट के नित्य होने पर भी शब्द में आरोपित है वास्तविक नहीं ॥ ७६ ॥ १. कालभेदादिति । 'ये हि द्रुतायां वृत्तौ वर्णांस्तेषामाषाढाकारत मध्यमायां ये च मध्यम- यायां वर्णास्तेषामापिकास्ते विलम्बितायाम्' इति म०भाष्यम् । तस्यार्थः द्रुत शीघ्रीभूय वा उच्चारः यदि भवति नाडिकाया यदृशः षडपानीपलानि स्रवन्ति तस्याएव मध्यमायां वृत्तौ शब्दोच्चारणादि भवन्ति नवानां मात्राविभागाक्षोणि पलानि तद्वतीकानि नव द्वादश सम्पद्यन्ते विलम्बितायां तु वृत्तौ षोडशपलानि स्रवन्ति । नाडिका-सुषुम्ना मद्ध्याण्डसम्बद्धा साऽमृतबिन्दुस्रविणी । पलानि-बिन्दवः । २. 'स्वभाववस्तु नित्यत्वात्' लघुमञ्जूषायां पाठः ।