वाक्यपदीयम्: ब्रह्मकाण्ड (भर्तृहरि - शब्दब्रह्म, स्फोट-सिद्धान्त एवं भाषा-दर्शन सटीक)
Vakyapadiya Brahmakanda of Bhartrihari with Commentary
भर्तृहरि (टीकाकार: पं. सूर्यनारायण शुक्ल) द्वारा
पृष्ठ 115, कुल 192 में से
संदर्भ में पढ़ें८६ वाक्यपदीयम् अयं भावः प्राकृतो वैकृतश्चेति द्विविधो ध्वनिः तत्र प्राकृतध्वनिं विना स्फोटः सामान्यरूपेण विशेषरूपेण वा न भासते इति प्राकृतध्वनिव्यतिरेकेण स्फोटानुपल- म्भात् प्राकृतध्वनिं स्फोटस्वरूपमिव मन्यन्ते प्राकृतध्वनिरेव च ह्रस्वदीर्घप्लुतादिभेद- व्यवहारहेतुरिति१ प्राकृतध्वनिगतकालभेदस्य प्राकृतव्यङ्ग्याभिन्नत्वेन प्रतीते स्फोटे प्रतीतौ बाधकाभाव इति ‘अत्’ इत्युच्चारणे अतत्कालस्य दीर्घादेर्व्यावृत्तिर्युक्ता वैकृत- ध्वनिस्तु प्राकृतध्वनिप्रतीतं स्फोटमुत्तरकालं स एवायमित्युल्लेखेन चिरकालमुपलम्भ- यति इति स्फोटप्रतीत्युत्तरकालभावितया स्फोटवैलक्षण्येनावभासमानः द्रुतादीनां वृत्तीनां भेदे कारणमिति तद्गतकालभेदस्य तद्भिन्नत्वेन प्रतीते स्फोटे न प्रतीतिरिति वैकृतध्वनिभिः स्फोटो न भिद्यते तमादाय च ‘ध्व