वाक्यपदीयम्: ब्रह्मकाण्ड (भर्तृहरि - शब्दब्रह्म, स्फोट-सिद्धान्त एवं भाषा-दर्शन सटीक)
Vakyapadiya Brahmakanda of Bhartrihari with Commentary
भर्तृहरि (टीकाकार: पं. सूर्यनारायण शुक्ल) द्वारा
पृष्ठ 120, कुल 192 में से
संदर्भ में पढ़ेंब्रह्मकाण्डम् ] संस्कृत-हिन्दी व्याख्योपेतम् ६१ यदाहुः—'तत्र सर्वैः प्रतीयेत शब्दः संस्क्रियते यदि' इति। न च केन रूपेण ध्वनेः संस्कारजनकत्वं न हि संस्कारजननानुगुणं किंचिद्रूपं ध्वनावुपलभ्यते इति वाच्यम् ध्वनेः शब्दजनकत्वं केन रूपेणेति पर्यनुयोगस्य शब्दोत्पत्तिवादिनोऽपि सम्भवात् । तद्भावभावितामात्रेण कार्यानुमेयातीन्द्रियशक्त्या समाधाने तु मन्मतेऽपि अभिव्य- क्त्यनुमेय-अनिगतातीन्द्रियशक्त्या समाधानसम्भवात् । ननु शब्दविजातीयस्य ध्वनेः कथं व्यञ्जकत्वमिति चेत् घटविजातीयस्य दीपस्य शब्दविजातीयस्य श्रोत्रस्य वा कथं व्यञ्जकत्वमिति पश्य ! तदुक्तं श्लोकवार्तिके— 'न च पर्यनुयोगोऽत्र केनाकारेण संस्कृतिः उत्पत्तावपि तुल्यत्वाच्छक्तिश्चाप्यतीन्द्रिया ॥ नित्यं कार्यानुमेयात्र शक्तिः किमनुयुज्यते । तद्भावभावितामात्रं प्रमाणं तत्र गम्यते ॥ अतोऽतीन्द्रिययैवैते शक्ता शक्तिमतीन्द्रियम् । इन्द्रियस्याऽऽदधानाः स्युः शब्दाभिव्यक्तिहेतवः ॥ व्यञ्जको नान्यजातिश्चेच्छ्रोत्रं शब्दस्य ते कथम् । पार्थिवानां घटादीनां प्रदीपादिश्च तैजसः ॥' इति । द्वितीयं पक्षं दृष्टान्तद्वारा उपपादयति— जो लोग दूसरा पक्ष मानते हैं । उनका मत ह कि— विषयस्य तु संस्कारस्तद्गन्धप्रतिपत्तये ॥ ७९ ॥ यथा विषयस्य तैलादेर्गन्धस्य—आतपेन, आतपशुष्कायाश्च पृथिव्या गन्धस्य उदकेन, संस्कारः तद्गन्धप्रतिपत्तये पृथिवीगन्धप्रतिपत्तये क्रियते न घ्राणेन्द्रि- यस्य संस्कारः तथा सति संस्कृतासंस्कृतयोः पृथिवीगन्धयोर्भेदो न स्याद्विशेषाभावात्। तथा ध्वनिभिरपि शब्दस्यैव संस्कारः क्रियते न श्रोत्रस्येति भावः । यदाहुः श्लोक- वार्तिककाराः—'सकृच्च संस्कृतं श्रोत्रं सर्वशब्दान् प्रबोधयेत् । घटाद्योन्मीलितं चक्षुः परं न हि न बुध्यते ॥' इति ॥ ७९ ॥ जब पृथिवी गर्मी से तप जाती है और हम उसका गन्ध जानना चाहते हैं तब उस पर पानी गिरा कर उसके गन्ध का ग्रहण ठीक रूप से कर लेते हैं । यहाँ गन्ध ग्रहण के लिए विषय ( पृथिवी ) में संस्कार करते हैं घ्राणेन्द्रियों में नहीं ॥ ७९ ॥ तृतीयं पक्षं दृष्टान्तद्वारा उपपादयति— जो लोग तीसरा मत मानते हैं । उनका मत है कि— चक्षुषः प्राप्यकारित्वे तेजसा तु द्वयोरपि । विषयेन्द्रिययोरिष्टः संस्कारः स क्रमो ध्वनेः ॥ ८० ॥ यथा चक्षुषः प्राप्यकारित्वे विषयदेशं गत्वा विषयग्राहकत्वे तेजसा आलो- केन प्रदीपादिना द्वयोरपि विषयेन्द्रिययोः विषयदेशं गतस्येन्द्रियस्य विषयस्य च