भारतकोश
वाक्यपदीयम्: ब्रह्मकाण्ड (भर्तृहरि - शब्दब्रह्म, स्फोट-सिद्धान्त एवं भाषा-दर्शन सटीक)

वाक्यपदीयम्: ब्रह्मकाण्ड (भर्तृहरि - शब्दब्रह्म, स्फोट-सिद्धान्त एवं भाषा-दर्शन सटीक)

Vakyapadiya Brahmakanda of Bhartrihari with Commentary

भर्तृहरि (टीकाकार: पं. सूर्यनारायण शुक्ल) द्वारा

DevanagariHindipublished192 पृष्ठ

पृष्ठ 151, कुल 192 में से

संदर्भ में पढ़ें
पृष्ठ 151

An exact, line-by-line transcription of the Devanagari text from the image:

अस्यार्थः—आत्मा = अन्तःकरणं न चैतन्यं तस्य निर्विकारत्वेन वृत्तिरूप- परिणामासम्भवात् अन्तःकरणविशिष्टस्य तत्सम्भवेऽपि चित्सन्निधौ अन्तःकरणस्यैव कर्तृत्वम् अयस्कान्तसन्निधानेऽयसः सक्रियत्वमिवेति सांख्यमनेन चेदम्। स चान्त- करणरूप आत्मा संस्काररूपेण स्वगतान्अर्थान्, बुद्ध्या—स्ववृत्त्या, समेत्यैकबुद्धिविषयान् कृत्वा तद्बोधनेच्छया मनो युक्तं करोति तदिच्छावान्मनः कायाग्निमाहन्ति स कायाग्निः मारुतं प्रेरयति स मारुतः उदीर्णः शब्दप्रयोगेच्छयोत्पन्नप्रयत्नाभिहताद्ग्निना नाभिप्रदेशा- दूर्ध्वं प्रेरितः वेगान्मूर्धपर्यन्तं गत्वा प्रतिनिवृत्तः वक्त्रं प्राप्य उष्ठयलसहायेन तत्तत्स्था- नेषु जिह्वाग्रादिस्पर्शपूर्वकं तत्तत्स्थानान्याहत्य पराद्याख्यमन्तः स्थितं शब्दं वर्णत्व

वाक्यपदीयम्: ब्रह्मकाण्ड (भर्तृहरि - शब्दब्रह्म, स्फोट-सिद्धान्त एवं भाषा-दर्शन सटीक) · पृष्ठ 151, कुल 192 में से · BharatKosha