भारतकोश
वाक्यपदीयम्: ब्रह्मकाण्ड (भर्तृहरि - शब्दब्रह्म, स्फोट-सिद्धान्त एवं भाषा-दर्शन सटीक)

वाक्यपदीयम्: ब्रह्मकाण्ड (भर्तृहरि - शब्दब्रह्म, स्फोट-सिद्धान्त एवं भाषा-दर्शन सटीक)

Vakyapadiya Brahmakanda of Bhartrihari with Commentary

भर्तृहरि (टीकाकार: पं. सूर्यनारायण शुक्ल) द्वारा

DevanagariHindipublished192 पृष्ठ

पृष्ठ 154, कुल 192 में से

संदर्भ में पढ़ें
पृष्ठ 154

संस्कृत-हिन्दी-व्याख्योपेतम् १२५ शब्दों के आश्रित हैं। षड्जादि स्वर असमाप्तमेव हैं तथा जितने सदा पद हैं सब समाप्तमेव हैं और सब शब्द की मात्रा में आश्रित हैं ॥ ११९ ॥ शब्दादेव सृष्टिरित्याह— शब्द से ही जगत् की उत्पत्ति हुई है। शब्दस्य परिणामोऽयमित्याम्नायविदो विदुः । छन्दोभ्य एव प्रथममेतद्विश्वं व्यवर्तत ॥ १२० ॥ अयं संसारः शब्दस्य परिणामः इति आम्नायविदः वेदविदः विदुः तमेव वेदमाह छन्दोभ्य इति । एतद्विश्वं प्रथमं सृष्ट्यादौ छन्दोभ्यः वेदेभ्यः एव व्यवर्तत वेदस्य विवर्त इत्यर्थः । तथाच श्रुतयः-‘एष वै छन्दस्यः साममयः प्रथमो बभूव वैराजः पुरुषः योऽन्नमसृजत तस्मात्पशवोऽजायन्त पशुभ्यो वनस्पतयो वनस्पतिभ्योऽग्निः' 'स उ एवैष ऋङ्मयो यजुर्मयः साममयो वैराजः पुरुषः' 'वागेव विश्वा भुवनानि जज्ञे' 'स भूरिति व्याहरत् भूमिमसृजत्' इति, स्मृतयः—'वेदशब्देभ्य एवादौ पृथक् संस्थाश्च निर्ममे' इति, पुराणा(नि च— 'विभज्य बहुधात्मानं स च्छन्दस्यः प्रजापतिः । छन्दोमयीभिर्मात्राभिर्बहुधैव विशेप- तम् ॥ साध्वी वाग्भूयसी येषु पुरुषेषु व्यवस्थिताः । अधिकं वर्तते तेषु पुण्यं रूपं प्रजापतेः ॥ प्रजापत्यं महत्तेजस्तत्पात्रेणैव संवृतम् । शरीरभेदे विदुषां स्वयोनिमु- पधावति ॥ यदेतन्मण्डलं भास्वद् धाम चित्रस्य राधसः । तद्भावमभिसम्भूय विद्यायां प्रविलीयते ॥' इति ॥ वेद और शास्त्रों के जानकार महर्षियों ने कहा है कि यह समस्त जगत् शब्द का परिणाम है और कल्प के आरम्भ में वेदों से ही विश्व का सृजन हुआ है ॥ १२० ॥ इदमत्र बोध्यम्—यद्यपि उपादानसमसत्ताककार्योत्पत्तिः परिणामः । यथा दुग्धस्य दधिभवनम् उभयोरपि व्यावहारिकसत्त्वात्, उपादानविषमसत्ताककार्यो- त्पत्तिर्विवर्तः। यथा शुक्तिकाया रजतभवनम्। शुक्तिकाया व्यावहारिकसत्त्वाद्रजतस्य च प्रातिभासिकसत्त्वात् । तथापि शब्दस्य परिणामोऽयमित्युपक्रम्य विश्वं व्यवर्तत इत्युपसंहरात् पूर्ववर्ति काले परिणामविवर्तयोः पर्यायत्वमासीदिति प्रतीयते । अतएव शान्तरक्षितेन तत्त्वसङ्ग्रहे अनादिनिधनमिति कारिकाम् 'नाशोत्पादामयालीढं यच्च शब्दमयं च तत् । यस्येदं परिणामोऽयं भावग्रामः प्रतीयते' इति अर्थतोऽनु- वदता विवर्तपदमपहाय परिणामपदं प्रयुक्तम् । अत एव च भवभूतिना 'पृथक् पृथगिवाश्रयते विवर्तान् आवर्तबुद्बुदतरङ्गमयानिकारान्' इति जलविकारे तर- ङ्गादौ विवर्तपदं प्रयुक्तम् । एवं च शब्दब्रह्मणो जगत् परिणामो वा विवर्तो वा वाक्यपदीयकृतामभिमत इति निर्धारयितुं दुष्करमिति प्रतीयते । तथापि सूक्ष्म- धिया शब्दब्रह्मविवर्त एव जगदित्यत्र वाक्यपदीयकृतामभिमत इति प्रतीयते। तथैव हेलाराजादिभिर्व्याख्यातत्वात् शब्दपरिणामवादपक्षोऽपि केषाञ्चिदासीदिति न्याय-