वाक्यपदीयम्: ब्रह्मकाण्ड (भर्तृहरि - शब्दब्रह्म, स्फोट-सिद्धान्त एवं भाषा-दर्शन सटीक)
Vakyapadiya Brahmakanda of Bhartrihari with Commentary
भर्तृहरि (टीकाकार: पं. सूर्यनारायण शुक्ल) द्वारा
पृष्ठ 170, कुल 192 में से
संदर्भ में पढ़ेंसंस्कृत-हिन्दी-व्याख्योपेतम् १४१ क्योंकि अविद्या से आच्छन्न शब्द जीव और अविद्या से रहित शब्द ब्रह्म कहा गया है ॥ तथा च भागवतम्—'स एष जीवो विवरप्रसूतिः प्राणेन घोषेण च गुहां प्रविष्टः । मनोमयं सूक्ष्ममपेत्य रूपं मात्रा स्वरा वर्ण इति प्रसिद्धः ॥' इति छाया । सः शब्द एव जीवः विवरेषु हृदयाद्याकाशेषु प्रसूतिरभिव्यक्तिर्यस्य प्राणेन प्राणवायुपरिणामरूपेण घोषेण ध्वनिना गुहां हृदयशिरःकण्ठमूर्द्धरूपां प्रविष्टः सूक्ष्मं रूपम् अपेत्य त्यक्त्वा मनोमयम् अन्तःकरणपरिणामरूपं विकारं प्राप्येति शेषः । मात्रा स्वरा वर्ण इति प्रसिद्धिमुपगत इत्यर्थः । शब्द एव जीवभाव- मापद्यते स एव च अन्तःकरणद्वारा वर्ण इत्यादिप्रसिद्धिमुपगत इति भावः । एतदेवाहुर्महाभाष्यकाराः—'चत्वारि शृङ्गा त्रयो अस्य पादा द्वे शीर्षे सप्त हस्तासो अस्य । त्रिधा बद्धो वृषभो रोरवीति महो देवो मर्त्याँ आविवेश' इति । चत्वारि पदजातानि नामाख्यातोपसर्गनिपाताश्च, त्रयो अस्य पादाः त्रयः काला भूतभविष्यद्वर्तमानाः, द्वे शीर्षे द्वौ शब्दात्मानौ नित्यः कार्यश्च, सप्तहस्ता- सो अस्य सप्त विभक्तयः, त्रिधा बद्धः त्रिषु स्थानेषु बद्धः उरसि कण्ठे शिरसीति वृषभो वर्षणात् रोरवीति शब्दं करोति कुत एतत् रौतिः शब्दकर्मा महो देवो मर्त्याँ आविवे- शेति महादेवः शब्दः मर्त्या मरणधर्माणो मनुष्यास्ताना विवेशेत्यर्थः' इति । अत्रो- द्योतः 'महान् परब्रह्मरूपः देवोऽन्तर्यामिरूपः शब्दो मर्त्येष्वाविष्ट इत्यर्थः' इति । एतदुक्तं भवति शब्दो द्विविधः नित्यः कार्यश्च नित्यः सर्वव्यवहारयोनिः संहृ- तक्रमः सर्वेषामन्तः संनिविष्टः सर्वविकाराणां प्रभवः शब्दब्रह्मरूपः । अयमेव अविद्या- वृतः सन् घटस्थितदीप इव नाना विषयान् भासयन् जीवभावमापन्नः कर्मणामाश्रयः सुखदुःखयोरधिष्ठानं घटादिनिरुद्धः प्रकाश इव भवति । कार्यः व्यावहारिकः पुरुषस्य वागात्मनः प्रतिविम्बोपग्राही घटपटादिशब्दरूप इति ॥ १३१ ॥ शब्दब्रह्मतादात्म्यभावोपयोगिनमुपायमाह— शब्दब्रह्म में तादात्म्य प्राप्त करने का उपाय यह है कि— तस्माद्यः शब्दसंस्कारः सा सिद्धिः परमात्मनः । तस्य प्रवृत्तितत्त्वज्ञस्तद्ब्रह्मामृतमश्नुते ॥ १३२ ॥ यस्मादुक्तं माहात्म्यं शब्दस्य तस्मात् यः शब्दसंस्कारः अपभ्रंशविवेकेन ज्ञानं सा परमात्मनः नित्यस्य शब्दब्रह्मणः सिद्धिः सिद्धयुपायः । अयम्भावः यथा- विधेन साधुत्वेन रूपेण शब्दतत्त्वे संश्रियमाणे अपभ्रंशरूपप्रतिबन्धकापगमे धर्मवि- शेष आविर्भवति ततः शब्दब्रह्मतादात्म्योपगमरूपा ब्रह्मणः प्राप्तिर्भवतीति । कथं शब्दसंस्कारः ब्रह्मप्राप्त्युपाय इत्याह—तस्य शब्दस्य प्रवृत्तितत्त्वज्ञः प्रवृत्तिः षड्- भावविकाररूपा तस्यास्तत्त्वं प्रतिभाख्या तां यो जानाति स तत् औपनिषदममृतं ब्रह्म अश्नुते तेनैकीभवतीत्यर्थः ॥