वाक्यपदीयम्: ब्रह्मकाण्ड (भर्तृहरि - शब्दब्रह्म, स्फोट-सिद्धान्त एवं भाषा-दर्शन सटीक)
Vakyapadiya Brahmakanda of Bhartrihari with Commentary
भर्तृहरि (टीकाकार: पं. सूर्यनारायण शुक्ल) द्वारा
पृष्ठ 172, कुल 192 में से
संदर्भ में पढ़ेंब्रह्मकाण्डम् ] संस्कृत-हिन्दी व्याख्योपेतम् १४३ यथाहूरत्नकरणे— शब्दतत्वमघोषा वाग्ब्रह्म कुण्डलिनी ध्रुवम् । त्रिधा शक्तिः परा नादो महामायेति दैशिकैः ॥ बिन्दुरेव समाख्यातो व्योमानाहतमित्यपि । चतस्रो वृत्तयस्तस्या याभिर्व्याप्तास्त्रिधाणवः ॥ वैखरी मध्यमाभिख्या पश्यन्ती सूक्ष्मसंज्ञिता । तत्र सा वैखरी श्रोत्रग्राह्या यार्थस्य वाचिका ॥ स्थानेषु विवृते वायौ कृतवर्णपरिग्रहा। प्रयोक्तॄणामियं प्रायः प्राणवृत्तिनिबन्धना ॥ केवलं बुद्धयुपादाना क्रमादूर्ध्वानुपासिनी। अन्तः संजल्परूपा तु न श्रोत्रमुपसर्पति ॥ प्राणवृत्तिमतिक्रम्य वर्तते मध्यमाह्वया । अविभागेन वर्णानां सर्वतः संहृतक्रमा ॥ स्वयं प्रकाशा पश्यन्ती मयूराण्डरसोपमा। स्वरूपज्योतिरेवान्तः सूक्ष्मा वागनपायिनी॥ पश्यां दृष्टस्वरूपायामधिकारो निवर्तते । पुरुषे षोडशकले तामाहुरमृतां कलाम् ॥ तामेव वाणीं सूक्ष्मरूपामाहुरात्मविदो जनाः । प्रत्यात्मनियता एता वृत्तयो बन्धनात्मिका ॥ आभ्यो विविक्तमात्मानं न हि पश्यन्ति पुद्गलाः । यदा वृत्तिशेषेण विलीना चित्तसंतथा ॥ तदा सूक्ष्मा विशुद्धैव चिदाभास्यविवेकतः ॥ इति । त्रिधाणवः — उत्तममध्यमाधमभेदेन ज्ञानादिमन्तः। पुद्गलाः — जीवाः । सूक्ष्मा- परा। यदा वृत्तिरिति । सूक्ष्मा तु अभिधेयबीजत्वेन सर्वभूतेष्ववस्थिता। पश्यन्त्या अपि कारणभूता चिद्वा अत्यन्तसंश्लेषात् तद्रूपेव भातीत्यर्थः ॥ अभिनवगुप्तपादाचार्यास्तु प्रकाशः विमर्शश्चेति वस्तुद्वयम्। प्रकाश एव शिवः विमर्शस्तु तस्य स्वातन्त्र्यशक्तिः उमा इति गीयते । अथापि प्रकाशस्य विमर्शाव्य- तिरेकेण विमर्शस्य प्रकाशाव्यतिरेकेणासत्त्वादेकमेव तद्वयमिति मन्यन्ते। तन्मता- नुसारिणोऽद्वैतिन इत्युच्यन्