वाक्यपदीयम्: ब्रह्मकाण्ड (भर्तृहरि - शब्दब्रह्म, स्फोट-सिद्धान्त एवं भाषा-दर्शन सटीक)
Vakyapadiya Brahmakanda of Bhartrihari with Commentary
भर्तृहरि (टीकाकार: पं. सूर्यनारायण शुक्ल) द्वारा
पृष्ठ 173, कुल 192 में से
संदर्भ में पढ़ें१४४ वाक्यपदीयम् शब्दब्रह्मवादिमस्तु विमर्शः ( परा वाग् ) एव ब्रह्म तदेव अविद्यया नानारूपं भासते इति प्राहुः । यद्यपि परमार्थत परमेश्वराद्वयवादस्य ब्रह्माद्वयवादस्य शब्दब्रह्माद्वयवादस्य च नात्यन्तं भेदः यतः परमेश्वराद्वयवादे प्रकाशविमर्शयोः भेदाप्रतिभासात् प्रकाश एव विमर्शः ब्रह्मवादे च प्रकाश एवैकं तत्त्वम् शब्दब्रह्मवादे च विमर्श एवेति तथापि तत्त्वनिरूपणप्रणालीनां भिन्नतया त्रयाणां भिन्नतैव । अयमत्र निष्कर्षः—विमर्श एव च परा वाक् शब्द ब्रह्म इति च व्यपदिश्यते वैयाकरणैः । वैयाकरणमते शब्दब्रह्मणा तादात्म्यमेव जीवस्य मोक्षः मोक्षेऽपि शब्दा- त्मनावस्थितिरिति यावत् । सिद्धान्तशैवमते च मोक्षदशायामशुद्धवाग्रूपबन्धन स्यातिक्रमे शुद्धवाग्रूपस्यानुगमेऽपि तस्याः शुद्धतया चित्त्वेन प्रतिभासात् चिद्रूपैव तदानीं वाग्भवति जीवस्य च