भारतकोश
वाक्यपदीयम्: ब्रह्मकाण्ड (भर्तृहरि - शब्दब्रह्म, स्फोट-सिद्धान्त एवं भाषा-दर्शन सटीक)

वाक्यपदीयम्: ब्रह्मकाण्ड (भर्तृहरि - शब्दब्रह्म, स्फोट-सिद्धान्त एवं भाषा-दर्शन सटीक)

Vakyapadiya Brahmakanda of Bhartrihari with Commentary

भर्तृहरि (टीकाकार: पं. सूर्यनारायण शुक्ल) द्वारा

DevanagariHindipublished192 पृष्ठ

पृष्ठ 44, कुल 192 में से

संदर्भ में पढ़ें
पृष्ठ 44

ब्रह्मकाण्डम् ] संस्कृत-हिन्दी-व्याख्योपेतम् ११ पठितानामङ्गानां 'सर्वशाखाप्रत्यय'न्यायेनोपसंहारेण उपकारकत्वं चेत्यर्थः । ननु यदि सर्वशाखानामेककर्मबोधकत्वं तर्हि शाखाभेदः किंनिबन्धन इत्यत आह—शब्दा- नामिति । तस्य वेदस्य शाखासु शब्दानां यतशक्तित्वं यता नियता शक्तिः बोधजनकता अभ्युदयहेतुता वा येषां तेषां भावस्तत्त्वं दृश्यते । येन रूपेण स्वरेण च युक्तो यस्यां शाखायामुक्तो यः शब्दः स तथैवोच्चरितः तत्रैवार्थमभिधत्ते पुण्यजनकश्च नान्यथा न शाखान्तरेऽतोऽर्थक्रियानियमेन शक्तिनियमस्तत्प्रयुक्तश्च शाखाभेद इति भावः । यथा 'सिमस्याथर्वणेऽन्त उदात्तः' 'देवसुम्नयोर्यजुषि काटके' इत्यादिः । वस्तुतस्तु—तस्य वेदस्य भेदानां तत्तद्वेदगतशाखानां बहुमार्गत्त्वं बहवः पदक्रमजटामालादयो मार्गा अभ्यासोपाया येषा

वाक्यपदीयम्: ब्रह्मकाण्ड (भर्तृहरि - शब्दब्रह्म, स्फोट-सिद्धान्त एवं भाषा-दर्शन सटीक) · पृष्ठ 44, कुल 192 में से · BharatKosha