वाक्यपदीयम्: ब्रह्मकाण्ड (भर्तृहरि - शब्दब्रह्म, स्फोट-सिद्धान्त एवं भाषा-दर्शन सटीक)
Vakyapadiya Brahmakanda of Bhartrihari with Commentary
भर्तृहरि (टीकाकार: पं. सूर्यनारायण शुक्ल) द्वारा
पृष्ठ 52, कुल 192 में से
संदर्भ में पढ़ेंब्रह्मकाण्डम् ] संस्कृत-हिन्दी-व्याख्योपेतम् १६ कादोङ्कार एवेदं सर्वम्' इति । ननु शब्दातिरिक्कार्थाभावे शब्दस्यार्थवाचकत्वानुप- पत्तिः एकत्र विषयविषयित्वायोगात्, तथा च निर्विकल्पकं वाच्यवाचकविभागरून्यं सन्मात्रं वस्तु प्राप्नोति इति चेदिष्टमेवैतत् कार्यस्य सर्वस्य मिथ्यात्वादित्यवेहि । तथाच श्रुतिः-'वाचारम्भणं विकारो नामधेयम्' इति । 'वाचया केवलमारभ्यते विकारजातं न तु तत्त्वतोऽस्ति यतो नामधेयमात्रम्' इति तदर्थं भामतीकारा आहुः । ननु वाच्यं च वाचकं च सर्वमोङ्कार एवेत्यभ्युपगमेऽपि परं ब्रह्म पृथगेव स्थास्यति इति चेन्न यदि परं कारणं ब्रह्म सञ्चेन्नवगम्यते किञ्चिदभिधानं तेनेदमभिधे- यमित्येवमात्मककोशायपूर्वक्रमेव तदधिगमः । अभिधेयं च स्वाभिधानाव्यतिरिक्तं तत्तु ङ- रोङ्कारमात्रमिति वाच्यं ब्रह्मापि वाचकाभिन्नं तन्मात्र