वाक्यपदीयम्: ब्रह्मकाण्ड (भर्तृहरि - शब्दब्रह्म, स्फोट-सिद्धान्त एवं भाषा-दर्शन सटीक)
Vakyapadiya Brahmakanda of Bhartrihari with Commentary
भर्तृहरि (टीकाकार: पं. सूर्यनारायण शुक्ल) द्वारा
पृष्ठ 54, कुल 192 में से
संदर्भ में पढ़ें... ... ... त्म् २४ तत्त्वावबोधः शब्दानां नास्ति व्याकरणादृते ॥ १३ ॥ अर्थप्रवृत्तितत्त्वानाम् अर्थस्य घटादेः प्रवृत्तौ व्यवहारे-जलाहरणादिरूप- र्थक्रियाकारित्वे, अयं घट इत्यादिशब्दप्रयोगे वा, निमित्तानि जातिगुणक्रियासंज्ञाः तेषां, तथा च भाष्यम् 'चतुष्टयी शब्दानां प्रवृत्तिः जातिशब्दा गुणशब्दाः क्रियाशब्दा यदृच्छाशब्दाः' इति। अत्र-'शब्दानामर्थे या प्रवृत्तिः ( प्रयोगः ) सा प्रवृत्तिनिमित्त- भेदात्प्रकारचतुष्टयवतीत्यर्थः' इत्युद्योतः। यावद्व्यक्तयो जात्यादिभिर्नोपलक्ष्यन्ते तावदिदं तदित्येवं व्यवहार्या न भवन्तीति भवति तेषां व्यवहारे निमित्तत्वम्। शब्दा एव निबन्धनं बोधकाः, सर्वो हि व्यवहारः शब्दमूलः न हि शब्दमनुच्चार्यकश्चिद्व्यवहर्तुं शक्नोतीति भावः। निबन्धनमिति वेदः प्रमाणमितिवन्निर्देशः। नन्वेतावता किमा- यातं व्याकरणस्य, शब्दस्वरूपबोधस्य श्रोत्रेन्द्रियादेव सत्त्वादत आह—तत्त्वेति। शब्दानां तत्त्वावबोधः तत्त्वम्-अवैक्लव्यं साधुत्वं, यथार्थबोधकत्वं, वा तस्य अव- बोधः निश्चयः, स्थूलपृषतीमित्यत्रार्थनिर्णयस्य व्याकरणाधीनत्वात्। देवदत्तस्य गुरु- कुलमित्यत्र नित्यसापेक्षत्वात् समासः। व्याकरणादृते नास्ति व्याकरणादेव भवति न श्रोत्रादिभ्य इति भावः। शब्दस्यैतदेव वैक्लव्यं-यदपगतसंस्कारत्वम्, अन्यार्थबो- धकत्वं वा। अनेन सन्देहाभावरूपं व्याकरणप्रयोजनमुक्तम्। और किसी भी अर्थके ( घट, पट आदिके ) प्रवृत्ति ( व्यवहार, जैसे पानी भरना ), और घट शब्दके प्रयोगमें ( उच्चारणमें जातिशब्द गुणशब्द और क्रिया ) शब्द ही बोधक है। क्योंकि जितने व्यवहार हैं सब शब्दसे ही चलते हैं। उन शब्दोंके तत्त्वका ( निःशेष साधुत्व, या यथार्थबोधकत्वका ) ज्ञान विना व्याकरणके नहीं हो सकता। अयं भावः-शब्दस्य द्वे रूपे शब्दत्वं साधुत्वं च तत्राद्यस्य श्रोत्रेन्द्रियग्राह्यत्वेऽपि द्वितीयं व्याकरणादेव गृह्यते न श्रोत्रादन्यथाऽनधीतव्याकरणा अपि प्रतिपद्येरन्। एतेन 'तत्त्वावबोधः शब्दानां नास्ति श्रोत्रेन्द्रियादृते' इति कुमारिलभट्टोक्तमपास्तम्। यथाऽऽहुः— शब्दार्थसम्बन्धनिमित्ततत्त्वं वाच्याविशेषेऽपि च साध्वसाधून्। साधुप्रयोगानुमितांश्च शिष्टान् वेद यो व्याकरणं न वेद ॥ इति। वाच्याविशेषेऽपि—एकस्मिन्नेव गोरूपेऽर्थे गोत्वजातिनिमित्तेन गोणीशब्दोऽसाधुः आवपनसादृश्यात्प्रयुक्तः साधुः इत्येवंभूतं—शब्दार्थसम्बन्धस्य निमित्तं प्रवृत्तिनि- मित्तं तस्य तत्त्वमविपरीतत्वं, साध्वसाधून् शब्दान्, अयं शिष्टः साधुशब्दप्रयोक्तृत्वा- दित्येवमनुमितान् शिष्टांश्चावैयाकरणो न वेदेत्यर्थः ॥ १२ ॥ शब्दके दो रूप हैं । एक तो शब्दत्व और दूसरा साधुत्व । जिसमें शब्दत्वका ज्ञान तो श्रवणेन्द्रियसे भी हो सकता है । क्योंकि यह नियम है कि 'जो वस्तु जिस इन्द्रियसे ज्ञान होता है उसकी जाति और अभाव भी उसी इन्द्रियसे ज्ञान होता है।' अतः शब्दके श्रवणेन्द्रियसे ग्राह्य होनेके कारण उसमें रहने वाली शब्दत्व जाति भी श्रवणेन्द्रियसे ही जानी जायगी । किन्तु जो दूसरा रूप साधुत्व है, वह तो व्याकरणके बिना जाना ही नहीं जा सकता।