भारतकोश
वाक्यपदीयम्: ब्रह्मकाण्ड (भर्तृहरि - शब्दब्रह्म, स्फोट-सिद्धान्त एवं भाषा-दर्शन सटीक)

वाक्यपदीयम्: ब्रह्मकाण्ड (भर्तृहरि - शब्दब्रह्म, स्फोट-सिद्धान्त एवं भाषा-दर्शन सटीक)

Vakyapadiya Brahmakanda of Bhartrihari with Commentary

भर्तृहरि (टीकाकार: पं. सूर्यनारायण शुक्ल) द्वारा

DevanagariHindipublished192 पृष्ठ

पृष्ठ 56, कुल 192 में से

संदर्भ में पढ़ें
पृष्ठ 56

तदपेक्षा, कोशकाव्यादित एव तदुपपत्तेर्न व्याकरणस्यापवर्गद्वारत्वमुपपादयन् लौकि- क शब्दानुशासनरूपं प्रयोजनमाह— यथार्थजातयः सर्वाः शब्दाकृतिनिबन्धनाः । तथैव लोके विद्यानामेषा विद्या परायणम् ॥ १५ ॥ यथा सर्वा अर्थजातयः घटादिसमवेता घटत्वादिजातयः शब्दाकृतिनिबन्ध- नाः शब्दानां घटादिशब्दानामाकृतयो घटशब्दत्वादयो निबन्धनं बोधकं यासां ताः अर्थगतजातीनां वाच्यत्वं शब्दगतजातीनां च वाचकत्वमिति भावः । अर्थगतजातीनां बोधः शब्दादेवेति यावत् । तथैव एषा विद्या व्याकरणं लोके सर्वविद्यानां कोश- काव्यादीनां परायणम् स्वघटकपदशक्तिग्रहाय अपेक्षणीयम् । ततश्च-'लोकावगत- सामर्थ्यः शब्दो वेदेऽपि बोधकः' इति न्यायाल्लोके शब्दशक्तिग्रहस्य व्याकरणाधीन- त्वाल्लौकिकशब्दशक्तिग्रहस्यापि तदधीनत्वमिति धियापि तदपेक्षणीयमिति भवत्यप- वर्गद्वार

वाक्यपदीयम्: ब्रह्मकाण्ड (भर्तृहरि - शब्दब्रह्म, स्फोट-सिद्धान्त एवं भाषा-दर्शन सटीक) · पृष्ठ 56, कुल 192 में से · BharatKosha