भारतकोश
वाक्यपदीयम्: ब्रह्मकाण्ड (भर्तृहरि - शब्दब्रह्म, स्फोट-सिद्धान्त एवं भाषा-दर्शन सटीक)

वाक्यपदीयम्: ब्रह्मकाण्ड (भर्तृहरि - शब्दब्रह्म, स्फोट-सिद्धान्त एवं भाषा-दर्शन सटीक)

Vakyapadiya Brahmakanda of Bhartrihari with Commentary

भर्तृहरि (टीकाकार: पं. सूर्यनारायण शुक्ल) द्वारा

DevanagariHindipublished192 पृष्ठ

पृष्ठ 71, कुल 192 में से

संदर्भ में पढ़ें
पृष्ठ 71

४० वाक्यपदीयम् यत्त्वानुपपत्तिश्च, अविद्यमानस्याप्यश्रयत्वाङ्गीकारे नष्टो घटो जलवानित्यापत्तिश्चेति— आकृतिमनङ्गीकुर्वन्तोऽनेकध्वनिव्यङ्ग्यां नित्यामक्रमां शब्दव्यक्तिं स्फोटाख्यां वाचकत्वे- नाहुः । तथाच कैयटः—'वैयाकरणा वर्णव्यतिरिक्तस्य पदस्य वाक्यस्य वा वाचकत्व- मिच्छन्ति वर्णानां प्रत्येकं वाचकत्वे द्वितीयादिवर्णोच्चारणानर्थक्यप्रसङ्गात् आनर्थक्ये तु (समुदायस्य वाचकत्वमुपेयं तत्तु न युक्तम्) प्रत्येकमनुत्पत्तिचे यौगपद्येनोत्पत्त्यसंभ- वाद् अभिव्यक्तिपक्षे तु क्रमेणैवाभिव्यक्त्या समुदायाभावादेकस्मृत्युपारूढानां वाचकत्वे सरो रस इत्यादावर्थप्रतिपत्तिविशेषप्रसङ्गात् तद्व्यतिरिक्तः 'स्फोटो नादाभिव्यङ्ग्यो' वाचक इति विस्तरेण वाक्यपदीये व्यवस्थापितः' इति । किन्तु इस मीमांसक के मतमें दोष यह है कि नष्ट और वर्तमानसे अव्यवधान नहीं