भारतकोश
वाक्यपदीयम्: ब्रह्मकाण्ड (भर्तृहरि - शब्दब्रह्म, स्फोट-सिद्धान्त एवं भाषा-दर्शन सटीक)

वाक्यपदीयम्: ब्रह्मकाण्ड (भर्तृहरि - शब्दब्रह्म, स्फोट-सिद्धान्त एवं भाषा-दर्शन सटीक)

Vakyapadiya Brahmakanda of Bhartrihari with Commentary

भर्तृहरि (टीकाकार: पं. सूर्यनारायण शुक्ल) द्वारा

DevanagariHindipublished192 पृष्ठ

पृष्ठ 75, कुल 192 में से

संदर्भ में पढ़ें
पृष्ठ 75

स्मृत्यर्थमनुगम्यन्ते केचिदेव यथागमम् ॥ २६ ॥ साध्वसाधुषु—शब्दार्थसम्बन्धेषु ये धर्मे धर्मोत्पत्तौ प्रत्यये अर्थावबोधे अङ्गम् ते अस्मिन् शास्त्रे व्याकरणे लिङ्गैः प्रकृतिप्रत्ययैः स्वशब्दैश्च उपवर्णिताः नऽसाधवः तेषामर्थावबोधमात्रोपकारकत्वात्, तत्र पदानि वाक्यानि च लिङ्गैः प्रकृतिप्रत्ययाद्यै१ स्वशब्दैरिति विवेकः । साधवः शब्दार्थसम्बन्धाः के इत्यपेक्षाम्याह-अपोद्धार-पदार्था इति । तत्र ये प्रतिपादकाः प्रकृतिप्रत्यय- रूपाः, ये च अन्वाख्येयाः, पदवाक्यरूपाश्च शब्दाः ये अपोद्धारपदार्थाः प्रकृतिप्रत्ययार्थाः ये च स्थितलक्षणाः पदवाक्यार्थरूपाश्च अर्थाः ते द्विविधा अपि शब्दाः अर्थाश्च कार्यकारणभावेन योग्यभावेन तादात्म्येन च स्थिताः साधवः यस्य शब्दस्य येनार्थेन कार्यकारणभावः तादात्म्यं च वर्तते तस्मिन्नर्थे स साधुरिति यावत् । ततश्च कार्यकारणभावलक्षणो योग्यतासञ्ज्ञकश्च संबन्धः साधव इति लब्धम् । नन्वसाधव एव किमिति न वर्णिताः असाधुषु शाब्दार्थेषु परिहृतेषु तदर्थ्येषां गौरित्यादीनां साधुत्वेनान्वागमसंभवादत आह-स्मृत्यर्थमिति । स्मृत्यर्त्यं लाघवेन स्मृतिप्रणयनार्थं, केचित्-साधव एव आगममनतिक्रम्य इति यथागमं यथाशास्त्रम् अनुगम्यन्ते नासाधवः यतो गौरित्यस्य शब्दस्य गावीगोणीगोतागोपोतलिका इत्येवमादयो बहवोऽपभ्रंशास्तेषामुपदेशे गौरवम् । साधुशब्द, अर्थ और सम्बन्ध तथा असाधु शब्द, अर्थ और सम्बन्धमें जिसके (साधुशब्द) ज्ञानसे धर्मकी उत्पत्ति और अर्थज्ञानमें सहायता मिलती है, वे ही पद और वाक्य इस व्याकरण शास्त्रमें लिङ्गों, अर्थात् प्रत्यय और स्वशब्दसे वर्णित हैं और जो; अपने स्वरूप बोधनके साथ पद और वाक्योंका प्रतिपादन करते हैं वे प्रतिपादक (प्रकृति और प्रत्यय) जो शब्दोंमें प्रकृति और प्रत्ययकी कल्पना द्वारा सरलतासे पद और शब्दोंका ज्ञान कराते हैं वे अन्वाख्येय (पदरूप और वाक्यरूप, शब्द) जो पदार्थों से विभक्त होते हैं वे अपोद्धार और जिनसे रूप का ज्ञान होता है वे प्रकृति और प्रत्यय, पद उनके अर्थ पदार्थ रूप अपोद्धार पदार्थ (प्रकृति प्रत्ययार्थ) जो अपने स्वरूपकी किसी प्रकार रक्षा करते हैं वे स्थितलक्षण अर्थ (पदार्थ और वाक्यार्थ) हैं और जो कार्यकारण भाव सम्बन्ध और योग्यभाव (तादात्म्य सम्बन्ध) में स्थित है। अर्थात् साधु हैं उनका ही लघुभूत उपायके द्वारा शब्दज्ञानके साथ स्मरणके लिये इस शास्त्रमें वर्णन किया गया है। इदमत्र ध्येयम् साधूनां शब्दानांमर्थः संबन्धश्च साधुः असाधूनामर्थः सम्बन्धश्च असाधुः साधुत्वस्य शब्दार्थसम्बन्धत्रितयमाश्रित्यैव शास्त्रेण बोधनात् । अत एव अश्वशब्दस्य दरिद्रे साधुत्वेऽपि न वाजिनि साधुतेति ॥ पदार्थाइपोद्ध्रियन्ते विभज्यन्ते इति अपोद्धाराः, पद्यते बोध्यतेऽर्थोऽनेनेति १. कनिचित्पदानि ते मे वा नौ नः नः इत्यादीनि कश्चिद्वाक्यानि प्रेक्षागारिकः श्रोत्रियं छंर्दश्व इत्यादीनि स्वशब्दैरुपवर्णितानि ।