वाक्यपदीयम्: ब्रह्मकाण्ड (भर्तृहरि - शब्दब्रह्म, स्फोट-सिद्धान्त एवं भाषा-दर्शन सटीक)
Vakyapadiya Brahmakanda of Bhartrihari with Commentary
भर्तृहरि (टीकाकार: पं. सूर्यनारायण शुक्ल) द्वारा
पृष्ठ 81, कुल 192 में से
संदर्भ में पढ़ेंधर्मस्य चाव्यविच्छिन्नाः पन्थानो ये व्यवस्थिताः । न तांल्लोकप्रसिद्धत्वात् कश्चित्तर्केण बाधते ॥ ३१ ॥ ये धर्मस्य पन्थानः धर्मप्रतिपत्त्युपायाः श्रुतिस्मृत्यादयः व्यवस्थिता लोक- प्रसिद्धाः अव्यवच्छिन्नाः सर्वैः शिष्टैरपरित्यागाद्विच्छेदरहिताः पारम्पर्यक्रमादागताः इति यावत् । तान् आगमान् लोकप्रसिद्धत्वात् कश्चित्तर्केण न बाधते लोक- विरोधे तर्कस्यानुत्पादात् । प्रत्युत नरकपालाशुचित्वबोधकागमेन तर्क एव बाध्यते यत आगमाल्लोकविरुद्धं तर्कविरुद्धं च अग्नीषोमीयपशुहिंसादिलक्षणमाचरणं प्रतिपद्यन्ते शिष्टाः अतो नागमस्तर्कबाध्य इति भावः ॥ इदमेवोक्तं चोदनासूत्रे श्लोकवार्त्तिके—धर्माधर्मावबोधस्य तेनायुक्तोऽनुमार्गः। अनुग्रहाच्च धर्मत्वं पीडातश्चाप्यधर्मताम् ॥ वदतो जपसीतादिपानादौ नोभयं भवेत्। क्रोशता हृदयेनापि गुरुदाराभिगामिनाम् ॥ भूयान्धर्मः प्रसज्येत भूयसीह्युपकारिता। अनुमानप्रधानस्य प्रतिषेधानपेक्षिणः ॥ हृदयक्रोशनां कस्माद् दृष्टां पीडामपश्यतः। तस्मादनुग्रहं पीडां तद्भावमपहाय च । धर्माधर्मार्थिभिर्नित्यं स्मर्तव्यौ विधिनिषेधौ ॥ तस्माद्यत्तादृशं कर्म यत्फलोत्पत्तिशक्तिमत् । शास्त्रेण गम्यते तस्य तादृशस्यैव साफल्यम् ॥ इति ॥ ३१ ॥ जो धर्मके प्रतिपादक ( श्रुति, स्मृति आदि ) आगम हैं वे व्यवस्थित ( लोकप्रसिद्ध ) हैं और सब शिष्टों ( गुरुपरम्परा ) से ज्ञात हैं। अतः उन लोक प्रसिद्ध आगमोंका तर्कसे बाध नहीं हो सकता । क्योंकि लोकके विरोध पर तर्कका ही बाध होता है ॥ ३१ ॥ इदानीं लौकिकपदार्थेष्वपि शक्तिभेदेन व्यभिचारादनुमानस्य न सामर्थ्यमित्याह- अवस्थादेशकालानां भेदाद्भिन्नासु शक्तिषु । भावानामनु