भारतकोश
वाक्यपदीयम्: ब्रह्मकाण्ड (भर्तृहरि - शब्दब्रह्म, स्फोट-सिद्धान्त एवं भाषा-दर्शन सटीक)

वाक्यपदीयम्: ब्रह्मकाण्ड (भर्तृहरि - शब्दब्रह्म, स्फोट-सिद्धान्त एवं भाषा-दर्शन सटीक)

Vakyapadiya Brahmakanda of Bhartrihari with Commentary

भर्तृहरि (टीकाकार: पं. सूर्यनारायण शुक्ल) द्वारा

DevanagariHindipublished192 पृष्ठ

पृष्ठ 82, कुल 192 में से

संदर्भ में पढ़ें
पृष्ठ 82

व्यभिचारात् । किञ्च अग्निर्न धूमं व्यभिचरति इत्यभिमानमात्रं नाभ्यभिचारः यतोऽ- वस्थाभेदादनेकरूपाः पाद्याद्यस्तिन्न स्याद्रपि कश्चित् धूमो यो नाग्नेः यथा शाल्हूहादपि शाल्हूको गोमयादपि इति । पुत्रञ्च यदि लौकिकेषु पदार्थेष्वियं दुरवस्था अनुमानस्य तर्हि का वार्त्ता अप्राकृतगम्ये धर्मे इति तभागममवधुरन्तरेण अनुमानमात्रेण कोऽमूढः साधयितुं प्रयतेतेति आगमैकसंवेद्य एव धर्मादिरर्थ इति भावः ॥ अवस्थाके भेदसे जैसे—हरी पीपल कफ पैदा करती है और सूखी त्रिदोष नाश करती है । अन्नमें किसी अवस्थामें अङ्कुर उत्पन्न होता है, दूसरी अवस्थामें नहीं । देशके भेदसे जैसे- हिमालयका जल ठण्डा होता है किन्तु किसी-किसी कुण्डमें उष्ण (गरम) भी होता है । कालके भेदसे जैसे—हेमन्त ऋतुमें कुओंका जल गरम और ग्रीष्ममें ठण्डा होता है । एतदेवोक्तं शाङ्करभाष्येऽपि तथाहि—'लौकिकानामपि मणिमन्त्रौषधिप्रभृ- तीनां देशकालनिमित्तवैचित्र्यवशाच्छक्तयो विरुद्धानेककार्यविषया दृश्यन्ते ता अपि तावन्नोपदेशमन्तरेण केवलेन तर्केणावगन्तुं शक्यन्तेऽस्य प्रस्तुन एतावत्य एतत्कहाया एतद्विषया एतत्प्रयोजनाश्च शक्य इति किमुताचिन्त्यस्वभावस्य ·····तस्माच्छन्द- मूल एवातीन्द्रियार्थयाथात्म्यावगम' इति ॥ ३२ ॥ इस तरह शक्तियाँ अवस्था, देश और कालके भेदसे भिन्न भिन्न हैं । फिर जलत्व हेतुसे जलमें शैत्यानुमान नहीं हो सकता । 'अयं शीतः जलत्वात्' । इसी तरह उष्णत्वानुमान भी नहीं हो सकता । अतः जब लौकिक पदार्थोंके बारेमें तर्ककी दुर्दशा ही है तब धर्म निर्णयमें आगमरूपी नेत्रके बिना कोई मार्ग ही नहीं है ॥ ३२ ॥ शक्तिप्रतिबन्धेन व्यभिचारान्नानुमानस्य न सामर्थ्यमित्याह— निर्ज्ञाताशक्तेर्द्रव्यस्य तां तामर्थक्रियां प्रति । विशिष्टद्रव्यसम्बन्धे सा शक्तिः प्रतिबध्यते ॥ ३३ ॥ तां ताम् अर्थस्य वह्नेः क्रिया दाहादिः ताम् अर्थक्रियां प्रति निर्ज्ञाताशक्तेः निश्चितशक्तेरपि द्रव्यस्य वह्न्यादेः विशिष्टद्रव्यसम्बन्धे अभ्रपटलचन्द्रकान्ता- दिद्रव्यसम्बन्धे सति सा शक्तिः दाहजननसामर्थ्यं प्रतिबध्यते इति संबन्धः ॥ और उन उन वस्तुओंकी उन-उन क्रियाओंमें शक्तियोंके निश्चित रहने पर भी किसी विशिष्टद्रव्यके सम्बन्धसे उसकी शक्ति नष्ट भी हो जाया करती है । अयं दहति अग्नित्वात् इत्यादिभिरनुमानैर्न शक्यते दाहजनकत्वमनुमातुं चन्द्र- कान्तादिविशिष्टप्रतिबन्धकद्रव्यसमवधाने अग्नित्वस्य दाहजनकत्वव्यभिचारादिति वस्तु- स्वभावो नानुमानादवगन्तुं शक्यः किं त्वागमादेवेति भावः ॥ ३३ ॥ अतः 'अयं दहति अग्नित्वात्' यह अनुमान भी चन्द्रकान्तमणिके रहने पर व्यर्थ ही होगा । इस प्रकार वस्तु स्वभाव जाननेके लिए तर्क व्यर्थ है किन्तु आगम ही सङ्केतक है ॥ ३३ ॥ ननु केनचिन्महापुरुषेण सुस्तर्को व्यवस्थितो भविष्यति तथा च तेन तर्केण धर्माधर्मविनिर्णिर्भविष्यतीति चेन्महापुरुषाणामपि कपिलकणादादीनां मिथोविप्रतिप- त्तिदर्शनेन तदीयस्र्काणामप्यव्यवस्थितत्वमित्याह—