वाक्यपदीयम्: ब्रह्मकाण्ड (भर्तृहरि - शब्दब्रह्म, स्फोट-सिद्धान्त एवं भाषा-दर्शन सटीक)
Vakyapadiya Brahmakanda of Bhartrihari with Commentary
भर्तृहरि (टीकाकार: पं. सूर्यनारायण शुक्ल) द्वारा
पृष्ठ 83, कुल 192 में से
संदर्भ में पढ़ें२४ वाक्यपदीयम् बड़े बड़े महापुरुषोंके तर्कसे भी धर्म और अधर्मका निर्णय असम्भव है। क्योंकि— यत्नेनानुमितोऽप्यर्थः कुशलैरनुमातृभिः । अभियुक्ततरैरन्यैरन्यथैवोपपाद्यते ॥ ३४ ॥ यतः कुशलैः अनुमातृभिः कपिलादिभिः यत्नेन अनुमितोऽपि 'जगतः कारणं प्रधानम्' इत्येवंरूपोऽर्थः अन्यैः अभियुक्ततरैः कणादादिभिः अन्यथैव 'परमाणुः जगत्कारणम्' इत्येवंरूपेण उपपाद्यते एवं तदन्यैरपि अन्यथा इति, ततश्च युक्तमुक्तं 'न चागमादृते धर्मस्तर्केण व्यवतिष्ठते' इति । यतः यत्नेन विवेचिता अपि आगमानपेक्षाः पुरुषोत्प्रेक्षामात्रनिबन्धनास्तर्का अव्यवस्थिता भवन्तीति नागमगम्ये- ऽर्थे केवलेन तर्केण प्रत्यवस्थातव्यमिति तथा चाहुर्बादरायणपादाः 'तर्काप्रतिष्ठाना- त्......' इति भावः ॥ ३४ ॥ अनुमान करनेमें बड़े चतुर कपिल आदि महर्षियोंने जिसकी सिद्धि बड़े यत्नसे अनुमान द्वारा की है। उसीका दूसरे (कणादि) महर्षिने उलटा अर्थ कर दिया है। जैसे कपिलने यत्नपूर्वक अनुमानसे जगत्का कारण प्रधान सिद्ध किया है और वैसी ही युक्तियोंसे कणादने परमाणुको जगत्का कारण मान लिया । अतः चतुर अनुमाता भी धर्मके बारेमें अनुमानसे कोई निर्णय नहीं कर सकता है ॥ ३४ ॥ नन्वेवं धर्माधर्मयोः प्रत्यक्षागोचरत्वेन शब्दोपमानयोश्च 'एते पदार्थाः मिथः संसर्गवन्तः आकाङ्क्षादिमत्पदोपस्थापितत्वात्, गवयपदं सप्रवृत्तिनिमित्तकं साधुपद- त्वात्,' इत्यनुमानविधयैव १प्रामाण्येन अनुमानानतिरेकित्वाद् अनुमानस्य चाव्य- वस्थितत्वेन धर्माधर्मप्रमापकत्वायोगात् धर्माधर्मप्रमितिनिर्मूलैव स्यादित्याशङ्कामपा- कर्तुं प्रत्यक्षानुमाने एव प्रमाणे इत्यभ्युपगमनं व्यभिचारयितुं प्रमाणान्तरमाह—यद्वा तर्कस्याव्यवस्थितत्वेन धर्माद्यप्रमापकत्वमुपपाद्य आर्षज्ञानस्य धर्मादिप्रमापकत्वेऽपि तस्यागममूलकत्वमुपपादयितुं लौकिकालौकिकभेदेन द्विविधमार्षज्ञानं वक्तुमुपक्रमते— इस प्रकार अनुमान धर्माधर्म निर्णय में अप्रमाण है । आर्षज्ञान प्रमाण होते हुए भी आगममूलक है क्योंकि—आर्ष ज्ञान दो प्रकारका होता है। एक लौकिक और दूसरा अलौकिक— परेपामसमाख्येयमभ्यासादेव जायते । मणिरूप्यादिविज्ञानं तद्विदां नानुमानिकम् ॥ ३५ ॥ परेपामसमाख्येयं परेभ्यो वक्तुमशक्यम् मणिरूप्यादिविज्ञानम् मणिरूप्या- दितारतम्यज्ञानं यत् तद्विदां मणिरूप्यादिविदां रूपतर्काणां २सूक्ष्मान् कार्षापणा- दिनारतम्यसमधिगमहेतून् कल्पयित्वापि परेभ्यो वक्तुमशक्नुवताम् अभ्यासादेव आकरमणिपरिचेतृवचनपूर्वकत्वात् प्रत्यक्षपौन्ःपुन्यात् नेन्द्रियादिभ्यः जायते तत् नानुमानिकं व्याप्तिज्ञानाजन्यत्वात्, न प्रत्यक्षं पटुभिरिन्द्रियैरपि अभ्यासरहितैरधि- १. शब्दोपमानयोर्न पृथक् प्रामाण्यकथनम् । अनुमानगतार्थत्वादिति वैशेषिक मतम् ॥ २. रूपं रूप्यभेदः दीणारादिः तं तर्कयन्ति परीक्षन्ते इति रूपतर्काः सौवर्णिकाः ।