भारतकोश
संग्रह पर लौटें

वाक्यपदीयम्: ब्रह्मकाण्ड (भर्तृहरि - शब्दब्रह्म, स्फोट-सिद्धान्त एवं भाषा-दर्शन सटीक)

Vakyapadiya Brahmakanda of Bhartrihari with Commentary

भर्तृहरि (टीकाकार: पं. सूर्यनारायण शुक्ल) द्वारा

DevanagariHindipublished192 पृष्ठ

२४ वाक्यपदीयम् बड़े बड़े महापुरुषोंके तर्कसे भी धर्म और अधर्मका निर्णय असम्भव है। क्योंकि— यत्नेनानुमितोऽप्यर्थः कुशलैरनुमातृभिः । अभियुक्ततरैरन्यैरन्यथैवोपपाद्यते ॥ ३४ ॥ यतः कुशलैः अनुमातृभिः कपिलादिभिः यत्नेन अनुमितोऽपि 'जगतः कारणं प्रधानम्' इत्येवंरूपोऽर्थः अन्यैः अभियुक्ततरैः कणादादिभिः अन्यथैव 'परमाणुः जगत्कारणम्' इत्येवंरूपेण उपपाद्यते एवं तदन्यैरपि अन्यथा इति, ततश्च युक्तमुक्तं 'न चागमादृते धर्मस्तर्केण व्यवतिष्ठते' इति । यतः यत्नेन विवेचिता अपि आगमानपेक्षाः पुरुषोत्प्रेक्षामात्रनिबन्धनास्तर्का अव्यवस्थिता भवन्तीति नागमगम्ये- ऽर्थे केवलेन तर्केण प्रत्यवस्थातव्यमिति तथा चाहुर्बादरायणपादाः 'तर्काप्रतिष्ठाना- त्......' इति भावः ॥ ३४ ॥ अनुमान करनेमें बड़े चतुर कपिल आदि महर्षियोंने जिसकी सिद्धि बड़े यत्नसे अनुमान द्वारा की है। उसीका दूसरे (कणादि) महर्षिने उलटा अर्थ कर दिया है। जैसे कपिलने यत्नपूर्वक अनुमानसे जगत्‌का कारण प्रधान सिद्ध किया है और वैसी ही युक्तियोंसे कणादने परमाणुको जगत्‌का कारण मान लिया । अतः चतुर अनुमाता भी धर्मके बारेमें अनुमानसे कोई निर्णय नहीं कर सकता है ॥ ३४ ॥ नन्वेवं धर्माधर्मयोः प्रत्यक्षागोचरत्वेन शब्दोपमानयोश्च 'एते पदार्थाः मिथः संसर्गवन्तः आकाङ्क्षादिमत्पदोपस्थापितत्वात्, गवयपदं सप्रवृत्तिनिमित्तकं साधुपद- त्वात्,' इत्यनुमानविधयैव १प्रामाण्येन अनुमानानतिरेकित्वाद् अनुमानस्य चाव्य- वस्थितत्वेन धर्माधर्मप्रमापकत्वायोगात् धर्माधर्मप्रमितिनिर्मूलैव स्यादित्याशङ्कामपा- कर्तुं प्रत्यक्षानुमाने एव प्रमाणे इत्यभ्युपगमनं व्यभिचारयितुं प्रमाणान्तरमाह—यद्वा तर्कस्याव्यवस्थितत्वेन धर्माद्यप्रमापकत्वमुपपाद्य आर्षज्ञानस्य धर्मादिप्रमापकत्वेऽपि तस्यागममूलकत्वमुपपादयितुं लौकिकालौकिकभेदेन द्विविधमार्षज्ञानं वक्तुमुपक्रमते— इस प्रकार अनुमान धर्माधर्म निर्णय में अप्रमाण है । आर्षज्ञान प्रमाण होते हुए भी आगममूलक है क्योंकि—आर्ष ज्ञान दो प्रकारका होता है। एक लौकिक और दूसरा अलौकिक— परेपामसमाख्येयमभ्यासादेव जायते । मणिरूप्यादिविज्ञानं तद्विदां नानुमानिकम् ॥ ३५ ॥ परेपामसमाख्येयं परेभ्यो वक्तुमशक्यम् मणिरूप्यादिविज्ञानम् मणिरूप्या- दितारतम्यज्ञानं यत् तद्विदां मणिरूप्यादिविदां रूपतर्काणां २सूक्ष्मान् कार्षापणा- दिनारतम्यसमधिगमहेतून् कल्पयित्वापि परेभ्यो वक्तुमशक्नुवताम् अभ्यासादेव आकरमणिपरिचेतृवचनपूर्वकत्वात् प्रत्यक्षपौन्ःपुन्यात् नेन्द्रियादिभ्यः जायते तत् नानुमानिकं व्याप्तिज्ञानाजन्यत्वात्, न प्रत्यक्षं पटुभिरिन्द्रियैरपि अभ्यासरहितैरधि- १. शब्दोपमानयोर्न पृथक् प्रामाण्यकथनम् । अनुमानगतार्थत्वादिति वैशेषिक मतम् ॥ २. रूपं रूप्यभेदः दीणारादिः तं तर्कयन्ति परीक्षन्ते इति रूपतर्काः सौवर्णिकाः ।

ब्रह्मकाण्डम् ] संस्कृत-हिन्दी-व्याख्योपेतम् ५५

  • गन्तुमशक्यतया इन्द्रियमात्रजन्यत्वात् , इति लौकिकप्रत्यक्षानुमानातिरिक्तं किंचित् लौकिकसमाधिजन्यं भावनापरपर्यायमभ्यासाख्यं प्रमाणान्तरमाश्रयितव्यम् । एवं षड्जर्षभगान्धारधैवतादिभेदः प्रत्यक्षप्रमाणविषयोऽपि अभ्यासरहितैः प्रणिहितमनो- भिरपि अभियुक्तैरधिगन्तुमशक्यतया गान्धर्वशास्त्रपूर्वकेण प्रत्यक्षाद्यतिरिक्तेनाभ्या- साख्यप्रमाणेन संवेद्य इत्यास्थेयम् । तमिमं 'श्वो मे भ्राताऽऽगन्तेति हृदयं मे कथयति' इतिकन्यकाज्ञानमिव लौकिकमार्षमित्याचक्षते । स्पष्टं चेदं प्रशस्तपादभाष्ये । शब्दोपमानयोश्च व्याप्तिज्ञानजन्यत्वान्नानुमानान्तर्भाव इति तत्त्वम् ॥ ३५ ॥ लेकिन मणि और मिश्री आदिके मूल्यके तारतम्यका ज्ञान जानकार स्वर्णकारोंको ही होता है। वे इसे चाहने पर भी बता नहीं सकते। क्योंकि किसी वस्तुकी विशेषताका ज्ञान तो [L1

आविर्भूतप्रकाशानामनुपप्लुतचेतसाम् । अतीतानागतज्ञानं प्रत्यक्षान्न विशिष्यते ॥ ३७ ॥ न उपप्लुतानि रजस्तमोभिराक्रान्तानि चेतांसि येषां तेषामनुपप्लुतचेतसाम् तपसा क्षीणकल्मषाणाम् अत एव आविर्भूतं आवरणरहितः प्रकाशो ज्ञानं येषां ते तेषाम् आविर्भूतप्रकाशानां निरावरणख्यातीनां योगिनाम् यत् अतीतानागतज्ञानं जायते तत् प्रत्यक्षात् अस्मदादिप्रत्यक्षाद् न विशिष्यते न भिद्यते न विलक्षण- मिति यावत् ॥ यदपि लौकिकमात्रं तदपि आगमसहकृतयत्नपूर्वकप्रत्यक्षाभ्याम्जन्य- तया प्रयत्नपूर्वक मञ्जनादिना दृश्यद्रष्टॄणां सिद्धानां ज्ञानमिव उपनेत्रसहकृतचाक्षुष- मिव च प्रत्यक्षमेवेति ध्येयम् । यथा लोकः स्वमुखमपश्यन्नपि स्वच्छदर्पणे प्रतिबिम्ब- रूपेण पश्यत्येवम् ऋषयः तपसा विशुद्धे अन्तःकरणे अस्मदादिभिरग्राह्यमपि वस्तु अव्यभिचरितं पश्यन्ति तच्च ज्ञानं योगजप्रत्यक्षजन्यं न लौकिकप्रत्यक्षजन्यमनुमान- जन्यं वा येन लौकिकप्रत्यक्षानुमानयोरसंभवाल्लोकानां तत्राविश्वासो भवेदिति भावः ॥ ३७ ॥ जिनके चित्त रजोगुण और तमोगुणसे अभिभूत नहीं है। जिन्हें प्रकाश (ज्ञान) हो गया है उन महर्षियों को जो भूत और भविष्यत्‌का ज्ञान होता है । वह भी 'हम लोगोंके प्रत्यक्षकी ही भाँति प्रत्यक्ष है'॥३७॥ नन्विन्द्रियासम्बद्धविषयकम् ऋषीणां ज्ञानं कथं प्रत्यक्षम् कुतो वा 'आर्षं ज्ञानं मिथ्या इन्द्रियासम्बद्धविषयकत्वे सति प्रत्यक्षत्वाच्छुक्तिरजतवदिति' इत्यनुमानेन न बाध्यते इत्यत आह— यद्यपि महर्षियोंका वह प्रत्यक्षज्ञान इन्द्रियजन्य नहीं है। तथापि 'आर्षज्ञानं मिथ्या इन्द्रियासम्बद्धविषयकत्वे सति प्रत्यक्षत्वात्' इस अनुमानसे बाधित नहीं होता। क्योंकि— अतीन्द्रियानसंवेद्यान्पश्यन्त्यार्षेण चक्षुषा । ये भावान् वचनं तेषां नानुमानेन बाध्यते ॥ ३८ ॥ इन्द्रियमतिक्रान्ता अतीन्द्रियास्तान् अतीन्द्रियान्—इन्द्रियैरग्राह्यान् अत एव असंवेद्यान् प्रत्यक्षपूर्वकैरनुमानादिभिरपि अग्राह्यान् भावान् अन्तर्यामिणं, चतुर्विधपरमाणून्, अविवृत्तं शब्दब्रह्म, देवताः, कर्मणां फलप्रदसंस्कारम् फलजनन- शक्तिवैलक्ष्यं महावान्तरप्रतियोगितशक्तेः फलदानाभिमुख्यम्, आतिवाहिकं¹ शरी- रम्, इत्येवमादीन् ये ऋषयः आर्षेण व्यावहारिकादन्येन अलौकिकसमाधिरूपतपो- लब्धेन चक्षुषा चक्षुः सदृशेन योगजधर्मेण पश्यन्ति तेषां वचनम् अनुमानेन अनवस्थितेन अतीन्द्रियार्थे प्रवर्तितुमशक्तेन च न बाध्यते इत्यर्थः ॥ लौकिकप्रत्यक्षे विषयेन्द्रियसम्बन्धस्य कारणत्वेऽपि योगजप्रत्यक्षे तस्याकारणत्वेन आर्षज्ञानस्य १० इह मृतस्य देशान्तरे शरीरान्तरग्रहाय यदन्तरा भव शरीरं तद्देशमतिवाहयति तदातिवाहिकम् ॥

ब्रह्मकाण्डम् ] संस्कृत-हिन्दी व्याख्योपेतम् ५७ प्रत्यक्षत्वे बाधकाभावः प्रत्यक्षपूर्वकस्यानुमानस्यातीन्द्रियार्थे अप्रवृत्त्या अनुमाना- बाध्यत्वं चेति भावः ॥ ३८ ॥ जो इन्द्रियोंसे गृहीत नहीं हो सकते और जो प्रत्यक्षमूलक अनुमानसे भी अग्राह्य हैं । भाव ( पदार्थ जैसे भगवान्, परमाणु, शब्दब्रह्म, देवता आदि ) जिन्हें महर्षियोंने आर्ष अलौकिक समाधि रूप तत्त्वसे ग्राह्य ) नेत्र ( नेत्र सदृश योगसे उत्पन्न धर्म ) के द्वारा देखा । उनके वचन अव्यवस्थित अनुमानसे बाधित नहीं हो सकते ॥ ३८ ॥ यद्यपि ऋषीणां वचनमनुमानेन न बाध्यते तथापि तद्वचनात् ये प्रवर्तन्ते तेषां निवृत्तिः शक्या कर्तुम् , अनुमानेन तद्वचनप्रामाण्ये संशयोत्पादनादत आह— और इन वचनोंको प्रमाण मानकर जो कार्यरत हैं उन्हें रोका भी नहीं जा सकता। क्योंकि— यो यस्य स्वमिव ज्ञानं दर्शनं नातिशङ्कते । स्थितं प्रत्यक्षपक्षे तं कथमन्यो निवर्तयेत् ॥ ३९ ॥ यः परिग्रहीता यस्य योगिनः दर्शनं स्वं ज्ञानमिव नातिशङ्कते न व्यभि- चारशङ्कां याति प्रत्यक्षपक्षे स्थितं योगिनां वचनं स्वं प्रत्यक्षमिव मन्यमानम् म् अन्यः तर्कशरणः कथं निवर्तयेत् तदीयानुमानेषु तस्यानाश्वासादिति भावः ॥ ३९ ॥ जो व्यक्ति जिस योगीके प्रत्यक्षको अपना प्रत्यक्ष मान बैठा है । उसे दूसरा व्यक्ति तर्कोंके द्वारा अपनी ओर कैसे खींच सकता है। क्योंकि उसे उसके तर्क पर विश्वास ही नहीं है ॥ ३९ ॥ इह कृतानां कर्मणां प्रेत्यादूर्ध्वम् इष्टानिष्टफलप्राप्तिर्भविष्यतीति ऋषिवचनानु- सारिणामाप्तानां वचनबलादेव सर्वैर्मनुष्यैः शास्त्रोपदेशं विना ब्राह्मणत्वादिजातिरिव निस्सन्दिग्धं मन्यते तथैवानुगम्यते चेत्याह— इदं पुण्यमिदं पापमित्येतस्मिन्पदद्वये । आचण्डालं मनुष्याणामल्पं शास्त्रप्रयोजनम् ॥ ४० ॥ चण्डालेभ्य आ इति आचण्डालं चण्डालपर्यन्तं मनुष्याणाम् इदं पापं इदं पुण्यम् इत्येतस्मिन्पदद्वये शास्त्रप्रयोजनम् अल्पम् इति सम्बन्धः ॥ एतादृशीं ख्यातिं प्राप्तमृषीणां वचनं यत् पामरा अपि जनाः शास्त्रमनधीत्यापि ऋषिवचनानु- सार्याप्तवचनविश्वासादेव पुण्यं पापं च जानन्तीति ततः कथं केनापि ऋषिवचनानु- सारिणः निवर्तयितुं शक्या इति भावः ॥ ४० ॥ यही कारण है कि—ब्राह्मणसे लेकर चाण्डाल तक जितने मनुष्य हैं । वे सब 'यह पुण्य है' और 'यह पाप है' ( यह ऋषियोंके वचनोंसे ही जान लेते हैं और विश्वास करते हैं । ) अतः उनके लिए शास्त्रका प्रयोजन अल्प ही है । तात्पर्य यह है कि आप्तज्ञान तर्ककी सहायताके बिना स्वयं प्रमाण है । क्योंकि वह आगममूलक है ॥ ४० ॥ ८

ननु द्विविधमपि आर्षं प्रत्यक्षं यद्यपि लौकिकप्रत्यक्षानुमानागमेभ्योऽतिरिक्तं तथापि आगमसंस्कृतप्रत्यक्षजन्यतया आगमोदीरिततपोनुष्ठानजन्यादृष्टजन्यतया च आगममूलकमेव तत् । अत एवोक्तम् 'ऋषीणामपि यज्ज्ञानं तदप्यागमपूर्वकम्' इति। एवं च आगमः स्वप्रामाण्याय तर्कमपेक्षत इति तर्कापेक्षया दुर्बल इति तन्मूलकस्य आर्षशास्त्रस्य सुतरां दौर्बल्यमिति शङ्कामपनुदन् आगमस्य स्वतः प्रमाणत्वेन तर्काऽन- पेक्षणात् तर्काबाध्यत्वमाह—यद्वा एवमार्षज्ञानस्यादृष्टविशेषजन्यत्वे उपपादिते अदृष्टस्यागमवेद्यतया तज्जन्यमार्षं ज्ञानमागममूलकमिति सिद्धमिति सांप्रतमागमस्य सर्वतो बलवत्त्वाय स्वतः प्रमाणतामाह— इसी तरह आगमोंका प्रामाण्य भी तर्कके अधीन नहीं है। किन्तु आगम तर्ककी अपेक्षा प्रबल और स्वतः प्रमाण है। चैतन्यमिव यश्चायमविच्छेदेन वर्तते । आगमस्तमुपासीनो हेतुवादैर्न बाध्यते ॥ ४१ ॥ अविच्छेदेन-स्वतः, स्वप्रकाशतया वर्तमानं चैतन्यमिव यश्चायं श्रुतिलक्षणः आगमः अविच्छेदेन विच्छेदोऽप्रामाण्यम् अविच्छेदः प्रामाण्यम् तेन स्वतः प्रमाणतया वर्तते तम् स्वतः प्रमाणमागमम् उपासीनः आगमानुरोधेन प्रवर्त्तमानः हेतुवादैः तार्किकवादैः, न बाध्यते न्यायशास्त्रपथौ न विचार्य्यते इत्यर्थः ॥ जैसे अविच्छिन्न रूप से (स्वयं प्रकाश) चैतन्य वर्तमान है। वैसे यह वेदरूपी आगम भी अविच्छेदरूपसे (स्वतः प्रामाण्यसे) युक्त है। ऐसे स्वतःप्रमाण आगमों पर विश्वास करनेवाले लोग तर्कवादसे विचलित होकर आगममे विश्वास नहीं खो बैठते। एतदुक्तं भवति यथा विज्ञाने जाते कश्चिदपि जानामि नवेति न संदिग्धे न जानामीति वा न विपर्य्यस्यति अतः विज्ञानं स्वप्रकाशमास्थीयते इति न तद्व्यक्ति- ज्ञानानुव्यवसायो१ ज्ञाततालिङ्गकानुमितिर्वापेक्ष्यते एवं आगमेऽपि कश्चिदपि 'आगमः प्रमाणं न वे'ति न संदिग्धे 'न प्रमाणमि'ति वा न विपर्यस्यति अतः आगमः स्वतः प्रमाणमित्यास्थीयते इति न तत्प्रामाण्याय तर्कादिकमपेक्ष्यते इति आगमोऽनपेक्षतया तर्कादिभ्यो बलवानिति तर्काबाध्य इति ॥ यद्वा चैतन्यमिव यथा कश्चिदपि अहमस्मीति प्रत्ययानुगते अनादिचैतन्यरूपे आत्मनि 'अहं वा नाहं वा' इति न संदिग्धे न च 'नाहमेव' इति विपर्यस्यति तथा योऽयं श्रुतिस्मृतिलक्षणः आगमः अविच्छेदेन अनादिशिष्टपरम्परया वर्तते प्रमाणमेवेति स्वीक्रियते न च तत्र कश्चिदपि 'प्रमाणं न वा' इति सन्दिग्धे न च 'अप्रमाणमेव' इति विपर्यस्यति किं बहुना येऽपि भिन्नाः प्रवादिनस्तेऽपि कार्याकार्य- १. मुरारिमिश्राणां मते ज्ञानमनुव्यवसायेन गृह्यते। भट्टानां मते ज्ञानमतीन्द्रियं ज्ञानजन्या ज्ञातता प्रत्यक्षा तया ज्ञानमनुमीयते। वेदान्तिनस्तु ज्ञानं स्वप्रकाशमातिष्ठन्ते तन्मतेनेदमभि- धेयम्।

ब्रह्मकाण्डम् ] संस्कृत-हिन्दी व्याख्यापेतम् ३६ भक्ष्याभक्ष्यागम्यागम्यादिषु अहिंसादयादानब्रह्मचर्यतपःसत्यवदनप्रभृतिषु च यमा- गममुपजीव्यैव प्रवर्तन्ते न हि तेषां कार्याकार्यादिनिर्णयः स्वागममूलः स्वागमस्य अतीन्द्रियार्थदर्शिपुरुषबुद्धिप्रभवत्वेनाप्रमाणत्वात् ते सर्ववादिभिरुपसेवितमागमम् , उपासीनः आश्रितः हेतुवादैः तार्किकवादैः न बाध्यते न न्यायमार्गस्थो विचाल्यत इत्यर्थः ॥ अथवा—जैसे 'मैं हूँ' इस ज्ञानके बाद 'यह मैं हूँ वा नहीं' यह सन्देह नहीं होता और 'मैं नहीं हूँ' इस तरह उलटा ज्ञान भी नहीं होता। वैसे यह श्रुतिस्मृतिरूपी आगम अनादि परम्परासे प्रमाणरूपमें स्वीकृत है और इसके प्रामाण्यके बारेमें न तो किसीको सन्देह है और न तो अप्रामाण्यरूप उलटा ज्ञान ही है। इस तरह सब लोगोंके द्वारा स्वीकृत आगमपर विश्वास करनेवाले लोग तार्किकवादोंके द्वारा न्यायमार्गसे विचलित भी नहीं किए जा सकते हैं। तात्पर्य यह है कि आगम भी तर्कसे प्रबल है ॥ ४१ ॥ स्पष्टीकृतञ्चायमर्थो न्यायमञ्जर्याम् तथाहि—'चातुर्वर्ण्यचातुराश्रम्यरूपश्चैष महा- जनो वेदपथप्रवृत्तः आगमान्तरवादिभिरप्यप्रत्याख्येय एव । तथा चैते बौद्धादयोऽपि दुरात्मानो वेदप्रमाण्यनियमिता एव चाण्डालादिस्पर्शं परिहरन्ति निरस्ते हि जातिवादावलेपे क्व चाण्डालादिस्पर्शे दोषः......ईदृशश्चायमनभ्यसाम्नान्यविभवो महाभागो वेदनामा ग्रन्थराशिः यदन्ये बाह्यागमवादिन एवमेवं स्पर्धन्ते ते स्वागम- प्रामाण्यमभिवदन्तो वेदरीत्याभिदधति । वेदे यथा तथा प्रवेष्टुमीहन्ते वैदिकानर्था- नन्तरान्तरा स्वागमेषु निवध्नन्ति वेदस्पर्शपूतमिवात्मानं मन्यन्ते तेषामप्यन्तर्हृदये ज्वलतीव ( वेद ) प्रामाण्यम्' इति ॥ ४१ ॥ तदेवमागमस्य तर्काद्बलवत्त्व

सहायकके विना अनुमानके आधार पर कार्य करनेवाले व्यक्तिका पतन दुर्लभ नहीं है ॥ ४२ ॥ 'न चागमादृते' इत्यारभ्य एतावता प्रबन्धेन धर्माधर्मयोस्तर्कागम्यत्वमार्ष- ज्ञानस्य च आगमपूर्वकत्वमुपपाद्य धर्माधर्मयोरागमैकवेद्यत्वमुपसंहरति— तस्मादकृतकं शास्त्रं स्मृतिं च सनिबन्धनाम् । आश्रित्यारभ्यते शिष्टैः शब्दानामनुशासनम् ॥ ४३ ॥ तस्मात् तर्कस्यान्यथास्थितत्वेन आर्षज्ञानस्य चागमपूर्वकत्वेन धर्माधर्मयोरा- गमैकवेद्यत्वात् अकृतकम् अपौरुषेयं शास्त्रं पुरुषहितोपदेशाय प्रवृत्तमाम्नायं निबध्यतेऽनेनेति निबन्धनं मूलं तेन सहितां सनिबन्धनां शिष्टपरम्पराचरणात्नु- गृहीतां 'पृषोदरादीनि यथोपदिष्टम्' इत्यादिरूपां स्मृतिं च आश्रित्य प्रमाणीकृत्य शिष्टैः पाणिन्यादिभिः शब्दानामनुशासनमारभ्यते क्रियते इत्यर्थः ॥ अयं भावः शब्दानुशासनमारभमाणाः पाणिन्यादयः अनादिप्रवृत्तं व्याकरणा- गममुपजीव्यैवारभन्ते अत एव शाकल्यस्य शाकटायनस्य इति पूर्वांन्स्मर्तॄन् स्मरन्ति तेऽपि हि स्वपूर्वान् स्मर्तॄन् इति अनादिप्रवृत्तव्याकरणमूलभूतश्रुतिमूलक एव साध्वसाधुप्रविभाग इति 'तस्मान्निबध्यते पूर्वैः साधुत्वविषया स्मृतिः' इति यदुकं तदुपपन्नमिति ॥ ४३ ॥ इसीलिए अपौरुषेय शास्त्र और शिष्टाचार परम्परासे स्वीकृत स्मृतियोंको प्रमाण मानकर पाणिनि, कात्यायन और पतञ्जलि आदि शिष्टमहर्षियोंने शब्दानुशासन ( व्याकरण-शास्त्र ) का निर्माण किया है ॥ ४३ ॥ ( वाक्यपदीयकी इस कारिका तक व्याकरणशास्त्रके निर्माणका प्रयोजन कहा गया है और 'अथशब्दानुशासनम्' वाक्य की यह विस्तृत व्याख्या है। अब वाक्यपदीय ग्रन्थका आरम्भ विषयकी दृष्टिसे किया जा रहा है । ) लोके नदीघोषतन्त्रीशब्दकाकवाशितादौ, व्यवहर्तृषु, पदार्थबोधकत्वेन प्रसिद्धे श्रोत्रेन्द्रियग्राह्ये ध्वनौ च शब्दशब्दप्रयोगात् शब्दशब्दस्य सामान्यशब्दतया प्रकरणादिकं विना विशेषेऽवस्थानासम्भवेन शब्दानुशासनेऽस्मिन् शास्त्रे नदीघोषा- दीनामप्यनुशासनप्रसङ्ग इति इदानीमनुशासनकर्मभूतं तपरसूत्रभाष्यादावुक्तं ध्वनिशब्दत्वं शब्दविशेषमभिधातुमाह— यद्यपि नदीकी हरहराहट, वीणाका नाद और कौवे की काँव काँव भी शब्द ही कही जाती है। तथापि इस व्याकरण शास्त्रमें हम उन शब्दोंका अनुशासन ( साधुत्व ) बतायेंगे— द्वावुपादानशब्देषु शब्दौ शब्दविदो विदुः । एको निमित्तं शब्दानाम् अपरोऽर्थे प्रयुज्यते ॥ ४४ ॥ उपादीयते स्वरूपेऽध्यारोप्यते अर्थरूपतां विहाय स्वरूपमिव आपाद्यतेऽर्थो येन स उपादानः वाचकः शब्दस्तस्यार्थरूपेण रजोः सर्परूपेणेव विवर्तनाद्रज्जुरिव सर्पस्य अर्थस्य विवर्तोपादानं शब्दः, शब्दार्थयोः कार्यकारणभावादेव योऽर्थः स शब्दः यः

ब्रह्मकाण्डम् ] संस्कृत-हिन्दी-व्याख्योपेतम् ६१ शब्दः सोऽर्थ इति शब्दार्थयोस्तदात्म्यमिति ध्येयम् । ननु अग्नेर्ढगित्यादौ वाच्य- वाचकयोरुभयोरपि एकरूपतया नार्थरूपस्य शब्दे चारोप इति न तत्राग्निशब्दोऽग्नि- शब्दस्य विवर्तोपादानमिति तस्य उपादानशब्दपदेन ग्रहणं न स्यादिति चेदुच्यते द्वयोः शब्दयोर्भेदमारोप्य संज्ञासंज्ञिभावस्येव उपादानोपादेयभावस्य स्वीकार इत्य- दोषात् । यद्वा उपादीयतेऽर्था बोध्यन्तेऽनेनेति व्युत्पत्त्या उपादानशब्दोऽत्र बोधकपर एव न विवर्तोपादानपर इति न क्षतिः इति ॥ तथा च उपादानशब्देषु वाचकशब्देषु उच्चारणेन प्रकाशनीयेषु द्वौ शब्दौ व्यङ्ग्यव्यञ्जकरूपौ लक्ष्येते इति शब्दविदो वैयाकरणाः विदुः । शब्दद्वयाङ्गीकारे किन्मानमिति चेत् शब्दस्वरूपावधारणरूपम् अर्थावधारणरूपं च कार्यद्वयमेव तदङ्गी- [L11

An exact, line-by-line transcription of the page into Unicode Devanagari:

अत्र कैयटः 'ध्वनिः स्फोटश्च व्यङ्ग्यो व्यञ्जकश्च स्त इति शेषः, शब्दानां व्यञ्जकानां सम्बन्धी व्यञ्जको यो ध्वनिः स एव महानल्पश्च लक्ष्यते व्यङ्ग्यस्त्व- भिन्नकाल एव, उभयं-व्यङ्ग्यो व्यञ्जकश्च प्रमाणेन स्वभावतः—स्वरूपेण सिद्धौ केषांचित् व्यक्तानामुभयं गृह्यते अव्यक्तानां तु ध्वनिरेव' इति । एतदेव 'एवं तर्हि स्फोटः शब्दः ध्वनिः शब्दगुण' इति भाष्येणाप्युक्तम् 'शब्दगुण. —उपकारको व्यञ्- कत्वेनेत्यर्थः इति कैयटः। ध्वनिः-वर्णा वैकृतध्वनिश्च, वैकृतध्वनेरप्युपलब्धिपौनः- पुन्यकारणत्वात् व्यञ्जकत्वम् 'व्यञ्जकत्वेनेति-स्फोटोपलब्धिप्रतिबन्धकस्तिमितवाय्व- पसारणद्वारा स्वधर्मरूपिततदुपलब्धिहेतुत्वेनेत्यर्थः' इत्युद्योतः । ध्वनिपदेन वैखरी, स्फोटपदेनाभ

ब्रह्मकाण्डम् ] संस्कृत-हिन्दी व्याख्योपेतम् ६३ जो भेद वादी हैं वे घटके कारण कपालमें पानी भरनेकी शक्ति न रहने परभी कार्य घटमें उस शक्तिको देखकर कार्यकारणमें परस्पर भेद मानते हैं। और इसे स्वाभाविक भेद कहते हैं। और जो अभेद वादी हैं वे 'मिट्टी का घड़ा' इस वाक्यमें मिट्टी और घड़े में भेद नहीं मानते। इनके मतसे एकही शब्द बुद्धि भेदसे भिन्न भिन्न माना गया है। जैसे मनोग्राहा स्फोट और श्रोत्रग्राह्य वैखरी ॥ ४५ ॥ 'तत्रैको निमित्तं शब्दानाम्' इति यः स्फोटवैखर्योः कार्यकारणभाव उक्तस्त- मुपपादयति— स्फोट और वैखरीके अभेद पक्षमें भी कार्यकारण भाव बना रहता है। अरणिस्थं यथा ज्योतिः प्रकाशान्तरकारणम् । तद्वच्छब्दोऽपि बुद्धिस्थः श्रुतीनां कारणं पृथक् ॥ ४६ ॥ अरणिस्थं निष्पर्षणान्प्राक् काष्ठान्तः स्थितं अविकृतं ज्योतिः यथा विवर्त- काले प्रकाशान्तरकारणं प्रकाशान्तरस्य उद्बुद्धस्य वह्नेः कारणमुपादानं भवति तद्वत् तथा बुद्धिस्थः बुद्धिरन्तःकरणं तत्र भिन्नशब्दबीजरूपेणावस्थितः तदवच्छि- न्नहृदयाकाशदेशस्थ इत्यर्थः, हृदयदेशे बुद्धिविषयीकृत इति यावत् । 'तेनाकाशदेशः शब्द' इति भाष्येण न विरोधः । शब्दः अविकृतः अक्रमः स्फोटोऽपि अर्थबोध- नेच्छया स्थानकरणाद्यनुगृहीतः विवर्तकाले पौर्वापर्यवानुपलभ्यमानः पृथक् भिन्नानां श्रूयन्त इति श्रुतयस्तासां श्रुतीनां भिन्नभिन्नघटपदादिशब्दानां कारणं भवति इत्यर्थः॥ जैसे अरणि (काष्ठ) में रहनेवाली ज्योति (अग्नि) जब मथनके बाद प्रकट होती है। तब दाहक अग्निका कारण हो जाती है। वैसे बुद्धि (अन्तःकरण) में स्थित शब्द (अक्रम स्फोट) भी अर्थबोधकी इच्छासे क्रमसे प्रकट होकर भिन्न भिन्न श्रुतियों (शब्दों) का कारण माना जाता है। अयं भावः यथा बीजावस्थमविकृतं ज्योतिरुत्तरेण प्रकाशात्मनाऽभिज्वलितं स्वरूपपररूपप्रतिपत्तिकारणं भवति एवं वक्तृबुद्धिस्थः स्फोटः वक्तृप्रयत्नाभिव्यङ्ग्य- ध्वनिरूपरूपितः परश्रवणगोचरो भवति स च परेण श्रुतः तद्बुद्धिस्थं स्फोटमभि- व्यनक्ति ततोऽर्थबोध इति व्यङ्ग्यव्यञ्जकभेदानुपातेन पौर्वापर्यवानुपलभ्यमानः स्फोटः स्वरूपपररूपयोः प्रकाशको भवति इति प्रकाश्यप्रकाशभावमूलक एव वैखरी- स्फोटयोः कार्यकारणभाव इति ॥ ४६ ॥ अरणियोंमें आग बीजरूपमें है। वह मन्थनके बाद प्रकट होकर प्रकाशक आग बन जाती है और प्रकाश करती है। इसी तरह वक्ताकी बुद्धिमें वक्ताके प्रयत्नसे ध्वनि बनता है और श्रोताके कानों तक पहुँचकर उसकी बुद्धिमें स्थित स्फोटको अभिव्यक्त करता है तब अर्थज्ञान होता है। इस तरह स्फोट ही अपना और वैखरीका प्रकाशक है ॥ ४६ ॥ स्फोटस्य बुद्धिस्थत्वं ध्वनिव्यङ्ग्यत्वं चोपपादयन् तस्यैकत्वेऽपि घटव्यङ्ग्याभिव्य- क्तिकाले न पटबोधकत्वमित्याह— यह एक, बुद्धिस्थ और ध्वनिव्यङ्ग्य स्फोट एक ध्वनिसे दूसरी ध्वनिका बोधक नहीं होगा। क्योंकि—

६४ वाक्यपदीयम् वितर्कितः पुरा बुद्ध्या क्वचिदर्थे निवेशितः । कारणेभ्यो विवृत्तेन ध्वनिना सोऽनुगृह्यते ॥ ४७ ॥ पुरा उच्चारणात् प्राक् बुद्ध्या अन्तःकरणवृत्त्या योऽयं शब्दः सोऽर्थो योऽर्थः स शब्दः इत्येवंरूपाध्यासात्मकसङ्केतबुद्धिरूपया वितर्कितः विशिष्टेन अन्यव्यावृत्तेन रूपेणविषयीकृतः क्वचिदर्थे यस्मिन्नर्थे यादृशध्वन्यभिव्यक्तस्य स्फोटरूपस्य शब्द- स्याध्यासस्तस्मिन् निवेशितः तत्तादात्म्यापन्नः यः शब्दः सः तद्बोधनेच्छया कार- णेभ्यः स्थानप्रयत्नेभ्यः विवृत्तेन सूक्ष्मे ध्वनौ कारणव्यापारेण प्रचीयमाने स्थूलेऽ- नादात्मना प्राप्तविवर्तेन ध्वनिना अनुगृह्यते अविक्रियाधर्मकोऽपि विक्रियाधर्मिणं ध्वनिमनु ध्वनिधर्मेण कत्वगत्वादिना भासते इत्यर्थः । तथा च घटध्वन्यभिव्यक्तस्फो- टस्य पटध्वन्य

ब्रह्मकाण्डम् ] संस्कृत-हिन्दी व्याख्योपेतम् ६५ ग्राहक है। फिर प्रयोक्ता अर्थ समझानेके लिए स्फोटरूप शब्दका जिस अर्थ में तादात्म्य गृहीत करता है उस प्रकारको ध्वनि उसकी प्रतीतिके लिए करता है। उसी ध्वनिसे स्वरूपा- वस्थित शब्द अभिव्यक्त होता है और शक्तिविषयक संस्कारके उद्बुद्ध हो जाने पर शाब्द- बोध होता है। जैसे घटको मिट्टीका रूप माननेके बाद मिट्टीमें पटके अभिव्यक्ति की शक्ति मानते हैं। वैसे शब्दमें बोधात्मक घटसे तादात्म्य ग्रहण होने पर बोधात्मक घटाभिव्यक्ति- शक्ति स्वीकारते हैं। इस प्रकार जब बौद्ध-शब्दके ज्ञानके लिए ध्वनि उत्पन्न हुई तब बौद्ध शब्दका ध्वनि निमित्त है और बौद्ध-शब्द ध्वनिका प्रकाशक है। नन्वध्यासस्य सङ्केतस्तत्त्वे किम्मानमिति चेदुच्यते—'ओमित्येकाक्षरं ब्रह्म' इत्यादि शास्त्रेषु, 'वृद्धिरादैच्' इत्यादौ व्याकरणे, 'कम्बुग्रीवादिमान् घटः' इत्यादौ लोके, 'अमरा निर्जरा देवा' इत्यादौ कोशे च योऽयं शब्दः सोऽर्थः योऽर्थः स शब्दः इत्येवमितरेतराध्यासरूपस्य सङ्केतस्य दर्शनमेवेति गृहाण। न च ओमित्येकाक्षरमि- त्यादौ तत्तच्छब्दवाच्ये लक्षणेति न तेन शब्दार्थाध्याससिद्धिरिति वाच्यम्—लक्ष- णायां मानाभावात्। अत एव ईदृशानाद्यभेदारोपेणैवागमिनो मन्त्रार्थयोरभेदेनो- पासनामामनन्ति। मीमांसकाश्च मन्त्रमर्थी देवतामाचक्षते। ईदृश एव सङ्केतो मुख्यः। क्वचित्तु भेदं परिकल्प्य अस्यार्थस्यायं वाचक इत्यपि कदाचित् सङ्केतः यथा पाणिनेः 'कर्मणि द्वितीया' 'उञः प्रगृह्यमित्यादिः ॥ तदिदं बौद्धं स्फोटाख्यं नित्यमक्रमं निरंशं शब्दतत्त्वम् अन्यवर्णप्रत्ययरूपव्यापा- रेणाभिव्यक्तं परं प्रति प्रतिपिपादयिषया वक्तृभिरुच्यमानैः श्रोतृभिः श्रूयमाणैर्वर्णैरुत्परा- गादनादिवाग्व्यवहारवासनामात्रमङ्गीकृत्य लोकबुद्ध्या परमार्थपदन्योऽन्याभेदेन सङ्केतेन प्रतीयते न तु तदतिरिक्तरूपेण। यद्यपि लाक्षाद्युपाधेरपगमे स्फटिकः स्वच्छधवलोऽ- नुभूयते उपाधिं विनापि प्रकाशात् अस्य तूपाधिव्यतिरेकेण प्रतीत्यभावान्न केवलस्य प्रत्ययः यथा राहोश्चन्द्रव्यतिरेकेणेति ॥ ४७ ॥ नन्वेवं स्फोटो नाना स्यादित्याशङ्क्य औपाधिकं भेदमुपपादयन् बुद्धिस्थस्य शब्दस्य स्वरूपमाह— नादस्य क्रमजन्मत्वात् न पूर्वो नापरश्च स । अक्रमः क्रमरूपेण भेदवानिव जायते ॥ ४८ ॥ यद्यपि सः बुद्धिस्थः नादव्यङ्ग्यः स्फोटाख्यः शब्दः न पूर्वो नापरश्च चो हेतौ यतः पूर्वापरीभावरहितः अतः अक्रमः तथापि नादस्य स्फोटाभिव्यञ्जकध्वनेः वैखर्याः क्रमेण जन्म यस्य तादृशात् क्रमजन्मत्वात् ध्वनिकारणीभूतैः क्रमवद्भिः स्थानकरणा- भिघातैः जायमानस्य ध्वनेरपि क्रमवत्त्वेन तद्गतेन क्रमरूपेण भेदवानिव सक्रमो भिन्न इव जायते भवति भासते इति यावत् । न तु स्वतस्तस्य वास्तवः क्रमो भेद- श्चास्ति नित्यत्वैकत्वाभ्यां विरोधात् । ततश्च घटध्वन्यभिव्यक्तस्फोटात् घटरूपार्थस्य बोधः न तु पटरूपार्थस्य घटध्वन्यभिव्यक्तस्फोटे घटरूपार्थस्यैव तादात्म्येन तत्रैव सङ्केतः स्वीकारादिति भावः ॥ ४८ ॥ १ व्या०

६६ वाक्यपदीयम् ( यद्यपि बुद्धिस्थ नाद व्यङ्ग्य स्फोट रूपी शब्द ) न पूर्व है और न तो अपर है किन्तु पूर्वापरीभावरहित है ( अतः ) अक्रम है। तथापि स्फोटको व्यक्त करनेवाले नादकी उत्पत्ति क्रमसे होती है इसलिए स्फोट भी सक्रमकी तरह भासित होता है ॥ ४८ ॥ अन्यधर्मस्यान्यत्र भानं दृष्टान्तेनोपपादयति— यद्यपि दूसरेका धर्म दूसरी वस्तुमें नहीं प्रतीत होना चाहिए यह कहा जा सकता है। तथापि ठीक नहीं। क्योंकि एक दूसरेके भी धर्म दूसरेमें प्रतीत होते हैं। प्रतिबिम्बं यथान्यत्र स्थितं तोयक्रियावशात् । तत्प्रवृत्तिमिवान्वेति स धर्मः स्फोटनादयोः ॥ ४९ ॥ यथा अन्यत्र तोये स्थितं भासमानं प्रतिबिम्बं चन्द्रप्रतिबिम्बं वस्तुतोऽ- क्रियमपि तोयक्रियावशात् तत्प्रवृत्तिं जलक्रियां चाञ्चल्यमन्वेति अनुगच्छति स स्फोटनादयोः धर्मः सादृश्यम् नादवर्तिनं क्रमं कालह्रस्वत्वदीर्घत्वादिकञ्च अतथाभूतोऽपि स्फोटोऽनुगच्छतीत्यर्थः ॥ जैसे जलमें झलकता हुआ चन्द्रमा का प्रतिबिम्ब स्वयं नहीं हिलता किन्तु जलके हिलनेसे हिलता हुआ प्रतीत होता है। वैसे नादके धर्म ( सादृश्य और नादमें रहनेवाले क्रम जैसे ह्रस्वत्व, दीर्घत्व, काल, गत्व आदि ) स्फोटके धर्म न होने पर भी स्फोटके धर्मकी तरह प्रतीत होने लगते हैं। अयं भावः जलगतं हि चन्द्रबिम्बं जलवृद्धौ वर्धते, जलह्रासे ह्रसति, जलचलने चलति, जलभेदे भिद्यते इत्येवंधर्मानुयायि भवति न तु परमार्थतः चन्द्रस्य तथात्वम्। एवं परमार्थतोऽक्रमपि एकरूपमपि शब्दतत्त्वं ध्वन्युपाध्यन्तर्भावात् भजत इवोपा- धिधर्मान्क्रमवत्त्वादीनिति। अत्र दर्शनद्वयम् चन्द्रबिम्बसन्निधाने तच्छायायोपरक्तास्तोयावयवाश्चन्द्रप्रतिबिम्ब- मित्येकम् । अत्र पक्षे तोयक्रिययैव तोयावयवाश्चन्द्रप्रतिबिम्बरूपा

श्रीब्रह्मकाण्डम् ] संस्कृत-हिन्दी-व्याख्योपेतम् ६७ दूसरा मत यह है कि जलमे भिन्न किन्तु अनिर्वचनीय और मिथ्या शुक्तिमें रजतकी भाँति जलमें प्रतिबिम्ब उत्पन्न होता है । इन दोनों मतोंमे यह तो निर्विवाद सिद्ध है कि जलसे प्रतिबिम्ब भिन्न है और क्रिया- वान् है । अतः अन्यके धर्मकी अन्यमें प्रतीति होती है यह सिद्ध होता है ॥ ४९ ॥ स्फोटरूपस्य शब्दस्य अर्थप्रकाशकत्वमिव स्वप्रकाशकत्वमाह— वह स्फोटरूपी शब्द, आत्मरूपं यथा ज्ञाने ज्ञेयरूपं च दृश्यते । अर्थरूपं तथा शब्दे स्वरूपं च प्रकाशते ॥ ५० ॥ निर्विषयस्य ज्ञानस्याभावात् ज्ञानं ज्ञेयपरतन्त्रमिति यथा ज्ञाने जाते ज्ञेय- रूपं घटादिकं तद्विशेषणतया आत्मरूपं ज्ञानरूपं च 'ज्ञातो घट' इतिप्रतीतौ दृश्यते प्रतीयते तथा अर्थबोधनेच्छया शब्दप्रयोगात् शब्दः अर्थपरतन्त्रमिति शब्दे श्रूय- माणे अर्थरूपं घटादि तद्विशेषणतया स्वरूपं शब्दरूपं च 'घटशब्दबो

६८ वाक्यपदीयम् यः शब्दसंज्ञकः लोके शब्द इति प्रसिद्धः बाह्यः श्रोत्रानुपाती वर्णरूपावयववान् सक्रमः शब्दः क्रतुः ज्ञानमिवार्थमनतिक्रामन् क्रतुसदृशः 'यत्क्रतुः पुरुषः' इत्यादौ ज्ञाने क्रतुशब्दप्रयोगात् अण्डे भवः आण्डो रसस्तस्य भावः आण्डभावः रसरूपतापन्नम् आण्डभावम् आपन्न इव वर्तते तस्य क्रियारूपा आविर्भावतिरोभावरूपा वृत्तिः भागशः अवयवेषु क्रमं भजते इत्यर्थः ॥ जो लोगोंके कानतक क्रमसे सुनाई पड़ता है वह शब्द नामका क्रतु (ज्ञान) मयूर पक्षीके अण्डेमें स्थित कलल (रस) की तरह है। उसकी क्रियारूप (प्रकट और तिरोहित होनेवाली) वृत्ति अवयवोंमें क्रमसे प्रकट होती है । एतदुक्तं भवति—यथा मयूरादयः अङ्गप्रत्यङ्गचन्द्रकादीनामुपसंहारेण लीयमानाः सूक्ष्मरूपेण तदुत्पादनशक्त्या सह रसभावमापन्ना अण्डे समवतिष्ठन्ते पुनश्च अ

. Wait, is it a bullet/hyphen? No, it's just a hyphen or printing artifact. In verses, 2nd line is indented. Let's write व्यवसायो ग्रहीतॄणामेवं तेष्वेव जायते ॥ ५३ ॥.

*   Line 16:
    `यथा प्रयोक्तुः उच्चारयितुः प्राक् पूर्वं शब्देष्वेव बुद्धिः प्रवर्तते एवं`
    Check: `यथा प्रयोक्तुः उच्चारयितुः प्राक् पूर्वं शब्देष्वेव बुद्धिः प्रवर्तते एवं`

*   Line 17:
    `ग्रहीतॄणां श्रोतॄणां व्यवसायो बुद्धिः प्राक् पूर्वं तेष्वेव शब्देष्वेव जायते इति ।`
    Check: `ग्रहीतॄणां श्रोतॄणां व्यवसायो बुद्धिः प्राक् पूर्वं तेष्वेव शब्देष्वेव जायते इति ।`

*   Line 18:
    `यथा प्रयोक्ता अर्थबुबोधयिषया शब्दविशेषविषयकं प्रयत्नं कुर्वन् स्पृशन्निव`
    Check: `यथा प्रयोक्ता अर्थबुबोधयिषया शब्दविशेषविषयकं प्रयत्नं कुर्वन् स्पृशन्निव`

*   Line 19:
    `मनः प्रणिधत्ते तथा श्रोताऽपि अर्थबु

अभिधेयं प्रतिपाद्य कृत्यकृत्यान् अत एव अर्थोपसर्जनीभूतान् अर्थविशेषणतापन्नान् शब्दान् लोकः न प्रतिपद्यते क्रियाङ्गत्वेन न जानाति 'एकत्र विशेषणतयाऽन्वित- स्य अपरत्र विशेषणतयाऽन्वयायोग' इति न्यायादिति भावः ॥ शब्दसे अर्थज्ञानरूप परार्थ सिद्ध होता है । और किसी वस्तुका प्रतिपादन करके कृतकृत्य हो जाता है । इसलिए अर्थके विशेषण बने हुए शब्दोंको लोग क्रियाका अङ्ग नहीं मानते । इदमत्रावधेयम्—विद्यमानत्वे सति इतरव्यावर्तकं विधेयान्वयि विशेषणम् । यथा दण्डिनमानय शुक्लं घटं पश्य इत्यत्र विधेयभूतानयनदर्शनक्रिययोः दण्डि- घटयोरिव दण्डरूपयोरप्यन्वयः। यथा वा शुक्लं घटमानय इत्यादौ घटद्वारा शुक्लस्या- प्यानयनान्वयः। अविद्यमानत्वेऽपीतरव्यावर्तकं विधेयानन्वयि उपलक्षणम्। यथा काक- वद्देवदत्तस्य गृहम् इत्यादौ गृहे इव काके न देवदत्तसम्बन्धिरूपविधेयस्यान्वयः। एवं च उपलक्षणविधया अर्थशेषतां प्राप्तं शब्दं लोकः न क्रियाङ्गतां नयतीति ॥ ५४ ॥ विशेषण दो प्रकारका होता है । एक विशेषण दूसरा उपलक्षण । 'जो विद्यमान रहकर इतरका व्यावर्तक हो और विधेयसे अन्वित हो वह विशेषण है।' जैसे 'शुक्लं घटमानय' इस वाक्यमें आनयनरूपा क्रियाके साथ घटके द्वारा शुक्ल गुणका भी अन्वय होता है । और 'जो अविद्यमान रहकर इतरका व्यावर्तक हो और विधेयके साथ अन्वित न हो वह उपलक्षण होता है । जैसे 'काकवद्देवदत्तस्य गृहम्' इस वाक्य में जैसे देवदत्त का अन्वय गृहपद में वैसे काक में अन्वय नहीं है । इसी प्रकार अर्थ का विशेषण शब्द भी उपलक्षण है और लोक उसे क्रिया में अन्वित नहीं मानता । नियम भी है कि 'एक स्थलमें जो विशेषण बनकर अन्वित हो वह अन्यत्र विशेषण बनकर अन्वित नहीं होता ।' ॥ ५४ ॥ संज्ञासंज्ञिभावस्य भेदाधिष्ठानत्वात् 'स्वं रूप'मितिसूत्रबोधितः 'अग्न्यादिशब्दः अग्न्यादिशब्दस्य संज्ञा' इत्येवंरूपः संज्ञासंज्ञिभावोऽनुपपन्न इति एकस्यैव शब्दस्य उपाधिकृतभेदेन संज्ञासंज्ञिभावमुपपादयिष्यन्नुपाधी आह— यद्यपि संज्ञा और संज्ञी को भिन्न भिन्न होना चाहिये तथापि अग्नि शब्द ही संज्ञा और संज्ञी दोनों है और उचित भी है । क्योंकि एकही शब्द उपाधि भेदसे संज्ञा और संज्ञी बन सकता है । ग्राह्यत्वं ग्राहकत्वं च द्वे शक्ती तेजसो यथा । तथैव सर्वशब्दानामेते पृथगिव स्थिते ॥ ५५ ॥ यथा तेजसः प्रदीपादेः ग्राह्यत्वं ज्ञानविषयत्वं ग्राहकत्वं घटादिविषयकज्ञान- जनकत्वं च द्वे ग्राह्यत्वग्राहकत्वरूपेशक्ती स्तः तथैव सर्वशब्दानां एते ग्राह्यत्वग्रा- हकत्वशक्ती शक्तिशक्तिमतोर्भेदात् नित्यमात्मभूते अपि पृथक् भिन्ने इव स्थिते प्रतिभासमाने स्त इत्यर्थः । शब्दः स्वं प्रकाशयन्नेवार्थं प्रकाशयतीति यावत् । यद्यपि घटे ग्राह्यत्वमेव न ग्राहकत्वम्, इन्द्रियेषु ग्राहकत्वमेव न ग्राह्यत्वं स्वभावादिति ग्राह्य- त्वग्राहकत्वशक्त्योर्विरोध इव भासते तथापि प्रदीपे तयोः समावेशस्यापि दर्शनात् उ-

ब्रह्मकाण्डम् ] संस्कृत-हिन्दी व्याख्योपेतम् ७१ भयोरेकत्रावस्थानमविरुद्धमिति शब्दे ग्राह्यत्वं ग्राहकत्वञ्च स्वभावादिति ता- त्पर्यम् ॥ ५५ ॥ जैसे दीपक अपने रूपको प्रकाशित करते हुए अन्य वस्तुओंका भी प्रकाशक होता है। क्योंकि उसमें ग्राह्यत्व और ग्राहकत्व दो शक्तियां हैं। वैसे शब्दों में भी ग्राह्यत्व और ग्राहकत्व दो शक्तियां हैं जो अलग अलग मालूम पडती हैं। इस तरह शब्दोंमें दीपककी भांति शब्द और अर्थको प्रकाशित करने वाली शक्ति स्वभावतः वर्तमान है ॥ ५५ ॥ ननु स्वरूपसत एव शब्दस्य बोधकत्वमस्तु न ज्ञातस्येत्यत आह— यह शब्द सत् होनेके कारण (स्वरूपतः) प्रकाशक नहीं होगा किन्तु ज्ञात ही शब्द अर्थका प्रकाशक होता है। क्योंकि— विषयत्वमनापन्नैः शब्दैर्नार्थः प्रकाश्यते । न सत्तयैव तेऽर्थानामगृहीताः प्रकाशकाः ॥ ५६ ॥ यतः ते शब्दाः अगृहीताः श्रोत्रेन्द्रियाविषयाः सन्तः सत्तयैव सत्तामात्रेण चक्षु- रादयः इ

७२ वाक्यपदीयम् 'पृथगिव स्थिते' इत्यनेन शक्त्योर्भेद उक्तस्तस्य साम्प्रतमुपयोगमाह— अतः एकही शब्द संज्ञा और संज्ञी भी बन सकता है। क्योंकि— भेदेनावगृहीतौ द्वौ शब्दधर्मावपोद्धृतौ । भेदकार्येषु हेतुत्वमविरोधेन गच्छतः ॥ ५८ ॥ द्वौ शब्दधर्मौ ग्राह्यग्राहकत्वशक्ती यद्यपि शब्दस्वरूपभूते शक्तिशक्तिमतो- रभेदात् तथापि अपोद्धृतौ अपोद्धारबुद्ध्या कल्पनया आरोपितभेदौ अतः भेदेना- वगृहीतौ भिन्नतयाज्ञातौ भेदकार्येषु भेदाधिष्ठानेषु संज्ञासंज्ञिभावेषु अविरोधेन शब्दभेदमापाद्य विरोधविघटनद्वारा हेतुत्वं गच्छत इत्यर्थः ॥ अयं भावः—लोके देवदत्तशब्दस्य संज्ञात्वं पिण्डस्य च संज्ञित्वं दृष्टमिह तु 'स्वं रूप'मिति शास्त्रेण अग्निशब्दस्यैव संज्ञात्वं संज्ञित्वं च विरुद्धं कथं बोध्यत इति शङ्कापरिहाराय यथा राहोः शिर इत्यत्र षष्ठ्युपपादनाय एकस्मिन्नपि वस्तुनि अने- कावस्थायुक्तशिरसो राहुशब्दार्थत्वं यत्किञ्चिदेकावस्थायुक्तशिरशः शिरः शब्दार्थत्वं वाश्रित्य शब्दार्थभेदाद्भेदमाश्रित्यावयवावयविभावः एवं ग्राह्यत्वग्राहकत्वशक्तिरूपो- पाधिकृतमेकस्मिन्नेवाग्निशब्दे भेदमाश्रित्य ग्राह्यत्वशक्तिमतोऽग्निशब्दस्य संज्ञित्वं ग्राहकत्वशक्तिमतोऽग्निशब्दस्य संज्ञात्वमिति औपाधिकभेदमादाय एकस्मिन्नपि अग्निशब्दे संज्ञासंज्ञिभावो न विरुध्यत इति ॥ ५८ ॥ जब शब्दमें ग्राह्यत्व और ग्राहकत्व रूप धर्मों की कल्पना करही ली गई और भेदके रूपमें ज्ञात इन शब्दोंसे जहां भिन्न भिन्न कार्य करना है वहां भी एकही शब्दमें (राहोः शिरः) की भांति औपाधिक भेद मानने पर बिना विरोधके अनेक धर्मभी कारण बन सकते हैं ॥५८॥ एतदेव स्पष्टयति— वृद्ध्यादयो यथा शब्दाः स्वरूपोपनिबन्धनाः । आदैच्प्रत्यायितैः शब्दैः सम्बन्धं यान्ति संज्ञिभिः ॥५९॥ अग्निशब्दस्तथैवायमग्निशब्दनिबन्धनः । अग्निश्रुत्यैति सम्बन्धमग्निशब्दाभिधेयया ॥ ६० ॥ 'वृद्धिरादैच्' इत्यादौ यथा वृद्ध्यादयः शब्दाः संज्ञाः स्वरूपमुपनिबध्यते बोध्यते यैस्ते स्वरूपोपनिबन्धना स्वरूपबोधकाः सन्तः आदैच्प्रत्यायितैः आदै- च्शब्दबोधितैराकारादिभिः शब्दैः संज्ञिभिः सम्बन्धं तादात्म्यं 'वृद्धिपदाभिन्ना आदैचः' इत्येवं यान्ति प्राप्नुवन्ति तथैव अग्निशब्दः निबध्यते बोध्यते अनेन इति अग्निशब्दनिबन्धनः अग्निशब्दरूपस्वस्वरूपबोधकः सूत्रस्थोऽग्निशब्दः अग्निश- ब्दाभिधेया अग्निशब्दबोध्यया ग्राह्यत्वशक्तिमत्या अग्निश्रुत्या अग्निशब्देन उच्चरितेन सम्बन्धं तादात्म्यमेति इति सम्बन्धः ॥ जैसे 'वृद्धिरादैच्' इत्यादि सूत्रोंमें 'वृद्धि' आदि शब्द संज्ञा के बोधक हैं और 'आदैच्'

शब्दसे बोधित आकार, ऐकार, और औकार आदि संज्ञी शब्दसे 'वृद्धिः पदमिश्रा कारिष्यः' इस प्रकारका सम्बन्ध (तादात्म्य) भी बनाते हैं। जैसे अग्नि शब्दके स्वरूपका बोधक 'अग्नेर्ढक्' सूत्रका अग्नि शब्दभी अपने स्वरूपका और अग्नि शब्दसे बोध्य लक्ष्यस्थ अग्नि शब्दसे तादात्म्य सम्बन्ध बना लेता है।

एतदुक्तं भवति-यथा 'वृद्धिरादैच्' इत्यनेन स्वरूपबोधकस्य वृद्धिशब्दस्य स्व- भिन्ने आदैच्शब्दबोधिते तादात्म्यरूपसम्बन्धग्रहः। एवं सर्वेभ्यइमिति सूत्रेण स्वरूपबो- धकस्य अग्निशब्दस्य स्वभिन्ने अग्निशब्दे सम्बन्धग्रहः ग्राहकत्वशक्तिमतोऽग्निशब्दस्य ग्राह्यत्वशक्तिमदग्निशब्दभिन्नत्वात्। सर्वत्रावानेव विशेषः- यन् वृद्धिशब्दादैच्शब्दयोः स्फुटावभासो भेदः ग्राहकत्वशक्तिमदग्निशब्दग्राह्यत्वशक्तिमदग्निशब्दयोः समानानु- पूर्वीकत्वेन न स्फुटावभासो भेदइति अस्ति तु औपाधिको भेदः राहोः शिर इतिवदिति न संज्ञासंज्ञिभावस्य भेदाधिष्ठानाविरिति ॥ ५९ ॥ ६० ॥

विशेषता केवल इतनी है कि वृद्धि शब्दसे आदैच् शब्दकी स्फुट-भेद प्रतीति होती है और ग्राहकत्व शक्तिमान् अग्नि शब्द और ग्राह्यत्व शक्तिमान् अग्नि शब्दोंकी आनुपूर्वी एक ढंगकी होनेके कारण भेद स्फुट नहीं प्रतीत होता। इसलिए 'राहोः शिरः' की भाँति औपाधिक भेद रहनेसे दोनोंमें संज्ञा-संज्ञि भाव बन सकता है ॥ ५९ ॥ ६० ॥

ननु 'अग्नेर्ढक्' इत्यादावर्थे वह्रौ कार्यस्य ढको बाधेन सूत्रे उच्चारितस्यैव कार्यभा- कत्वमस्त्वत आह- और उच्चारित शब्द से ही ढक् आदि प्रत्यय भी होते हैं अर्थ से नहीं। क्योंकि अग्नि शब्दका अग्नि अर्थ है उससे परे प्रत्यय आ नहीं सकता। प्रत्यय तो किसी शब्दके सामने आवेगा। अतः प्रत्यय का अधिकारी उच्चरित शब्दही होगा। क्योंकि

यो य उच्चार्यते शब्दो नियतं न स कार्यभाक् । अन्यप्रत्यायने शक्तिर्न तस्य प्रतिबध्यते ॥ ६१ ॥

यो यः शब्दः अग्नेर्ढक्, जराया जरस् इत्यादिः उच्चार्यते स नियतं नियमेन कार्यभाग् न भवति तस्य ग्राहकत्वशक्तिमत्त्वेन संज्ञात्वाद् ग्राह्यत्वशक्तिमत्प्रयोगस्थ- संज्ञिप्रत्यायनमात्रार्थत्वात् 'संज्ञा संज्ञिनं प्रत्याय्य स्वयं निवर्ततं' इति न्यायादिति- भावः। नन्वेवं कार्यभाक्त्वाभाव इव तस्य प्रत्यायकत्वमपि न स्यादत आह-अन्य- प्रत्यायन इति । तस्य उच्चारितस्य अन्यप्रत्यायने अन्यस्य लक्ष्यस्थशब्दान्त- रस्य बोधने शक्तिः प्रत्यायकत्वं न प्रतिबध्यते प्रतिबन्धकाभावादिति भावः ॥

जो शब्द 'अग्नेर्ढक्' या 'जराया जरस्' इत्यादि उच्चरित होते हैं। वे सूत्रस्थ शब्द संज्ञा होनेके कारण केवल संज्ञीका निर्देश कर शान्त हो जाते हैं। उनमें कार्य तो नहीं हो सकता किन्तु उनकी लक्ष्यस्थ शब्दको बतलाने वाली शक्ति का (प्रत्यायकत्वका) बाध नहीं होता॥

एतदुक्तं भवति-शब्दो द्विविधः प्रत्याय्यः प्रत्यायकश्च तत्र सूत्रस्थः प्रत्या- यकः लक्ष्यस्थः प्रत्याय्यः। प्रत्यायको हि प्रत्याय्यार्थमुच्चरितः तं ढगादिकार्ये नियुङ्क्ते न तु स्वं, प्रत्याय्यश्च अर्थप्रत्यायनार्थमुच्चरितः तमानयनादि कार्ये नियुङ्क्ते न तु स्वं

२ श्लो०