भारतकोश
वाक्यपदीयम्: ब्रह्मकाण्ड (भर्तृहरि - शब्दब्रह्म, स्फोट-सिद्धान्त एवं भाषा-दर्शन सटीक)

वाक्यपदीयम्: ब्रह्मकाण्ड (भर्तृहरि - शब्दब्रह्म, स्फोट-सिद्धान्त एवं भाषा-दर्शन सटीक)

Vakyapadiya Brahmakanda of Bhartrihari with Commentary

भर्तृहरि (टीकाकार: पं. सूर्यनारायण शुक्ल) द्वारा

DevanagariHindipublished192 पृष्ठ

पृष्ठ 94, कुल 192 में से

संदर्भ में पढ़ें
पृष्ठ 94

ब्रह्मकाण्डम् ] संस्कृत-हिन्दी व्याख्योपेतम् ६५ ग्राहक है। फिर प्रयोक्ता अर्थ समझानेके लिए स्फोटरूप शब्दका जिस अर्थ में तादात्म्य गृहीत करता है उस प्रकारको ध्वनि उसकी प्रतीतिके लिए करता है। उसी ध्वनिसे स्वरूपा- वस्थित शब्द अभिव्यक्त होता है और शक्तिविषयक संस्कारके उद्बुद्ध हो जाने पर शाब्द- बोध होता है। जैसे घटको मिट्टीका रूप माननेके बाद मिट्टीमें पटके अभिव्यक्ति की शक्ति मानते हैं। वैसे शब्दमें बोधात्मक घटसे तादात्म्य ग्रहण होने पर बोधात्मक घटाभिव्यक्ति- शक्ति स्वीकारते हैं। इस प्रकार जब बौद्ध-शब्दके ज्ञानके लिए ध्वनि उत्पन्न हुई तब बौद्ध शब्दका ध्वनि निमित्त है और बौद्ध-शब्द ध्वनिका प्रकाशक है। नन्वध्यासस्य सङ्केतस्तत्त्वे किम्मानमिति चेदुच्यते—'ओमित्येकाक्षरं ब्रह्म' इत्यादि शास्त्रेषु, 'वृद्धिरादैच्' इत्यादौ व्याकरणे, 'कम्बुग्रीवादिमान् घटः' इत्यादौ लोके, 'अमरा निर्जरा देवा' इत्यादौ कोशे च योऽयं शब्दः सोऽर्थः योऽर्थः स शब्दः इत्येवमितरेतराध्यासरूपस्य सङ्केतस्य दर्शनमेवेति गृहाण। न च ओमित्येकाक्षरमि- त्यादौ तत्तच्छब्दवाच्ये लक्षणेति न तेन शब्दार्थाध्याससिद्धिरिति वाच्यम्—लक्ष- णायां मानाभावात्। अत एव ईदृशानाद्यभेदारोपेणैवागमिनो मन्त्रार्थयोरभेदेनो- पासनामामनन्ति। मीमांसकाश्च मन्त्रमर्थी देवतामाचक्षते। ईदृश एव सङ्केतो मुख्यः। क्वचित्तु भेदं परिकल्प्य अस्यार्थस्यायं वाचक इत्यपि कदाचित् सङ्केतः यथा पाणिनेः 'कर्मणि द्वितीया' 'उञः प्रगृह्यमित्यादिः ॥ तदिदं बौद्धं स्फोटाख्यं नित्यमक्रमं निरंशं शब्दतत्त्वम् अन्यवर्णप्रत्ययरूपव्यापा- रेणाभिव्यक्तं परं प्रति प्रतिपिपादयिषया वक्तृभिरुच्यमानैः श्रोतृभिः श्रूयमाणैर्वर्णैरुत्परा- गादनादिवाग्व्यवहारवासनामात्रमङ्गीकृत्य लोकबुद्ध्या परमार्थपदन्योऽन्याभेदेन सङ्केतेन प्रतीयते न तु तदतिरिक्तरूपेण। यद्यपि लाक्षाद्युपाधेरपगमे स्फटिकः स्वच्छधवलोऽ- नुभूयते उपाधिं विनापि प्रकाशात् अस्य तूपाधिव्यतिरेकेण प्रतीत्यभावान्न केवलस्य प्रत्ययः यथा राहोश्चन्द्रव्यतिरेकेणेति ॥ ४७ ॥ नन्वेवं स्फोटो नाना स्यादित्याशङ्क्य औपाधिकं भेदमुपपादयन् बुद्धिस्थस्य शब्दस्य स्वरूपमाह— नादस्य क्रमजन्मत्वात् न पूर्वो नापरश्च स । अक्रमः क्रमरूपेण भेदवानिव जायते ॥ ४८ ॥ यद्यपि सः बुद्धिस्थः नादव्यङ्ग्यः स्फोटाख्यः शब्दः न पूर्वो नापरश्च चो हेतौ यतः पूर्वापरीभावरहितः अतः अक्रमः तथापि नादस्य स्फोटाभिव्यञ्जकध्वनेः वैखर्याः क्रमेण जन्म यस्य तादृशात् क्रमजन्मत्वात् ध्वनिकारणीभूतैः क्रमवद्भिः स्थानकरणा- भिघातैः जायमानस्य ध्वनेरपि क्रमवत्त्वेन तद्गतेन क्रमरूपेण भेदवानिव सक्रमो भिन्न इव जायते भवति भासते इति यावत् । न तु स्वतस्तस्य वास्तवः क्रमो भेद- श्चास्ति नित्यत्वैकत्वाभ्यां विरोधात् । ततश्च घटध्वन्यभिव्यक्तस्फोटात् घटरूपार्थस्य बोधः न तु पटरूपार्थस्य घटध्वन्यभिव्यक्तस्फोटे घटरूपार्थस्यैव तादात्म्येन तत्रैव सङ्केतः स्वीकारादिति भावः ॥ ४८ ॥ १ व्या०