वाक्यपदीयम्: ब्रह्मकाण्ड (भर्तृहरि - शब्दब्रह्म, स्फोट-सिद्धान्त एवं भाषा-दर्शन सटीक)
Vakyapadiya Brahmakanda of Bhartrihari with Commentary
भर्तृहरि (टीकाकार: पं. सूर्यनारायण शुक्ल) द्वारा
पृष्ठ 93, कुल 192 में से
संदर्भ में पढ़ें६४ वाक्यपदीयम् वितर्कितः पुरा बुद्ध्या क्वचिदर्थे निवेशितः । कारणेभ्यो विवृत्तेन ध्वनिना सोऽनुगृह्यते ॥ ४७ ॥ पुरा उच्चारणात् प्राक् बुद्ध्या अन्तःकरणवृत्त्या योऽयं शब्दः सोऽर्थो योऽर्थः स शब्दः इत्येवंरूपाध्यासात्मकसङ्केतबुद्धिरूपया वितर्कितः विशिष्टेन अन्यव्यावृत्तेन रूपेणविषयीकृतः क्वचिदर्थे यस्मिन्नर्थे यादृशध्वन्यभिव्यक्तस्य स्फोटरूपस्य शब्द- स्याध्यासस्तस्मिन् निवेशितः तत्तादात्म्यापन्नः यः शब्दः सः तद्बोधनेच्छया कार- णेभ्यः स्थानप्रयत्नेभ्यः विवृत्तेन सूक्ष्मे ध्वनौ कारणव्यापारेण प्रचीयमाने स्थूलेऽ- नादात्मना प्राप्तविवर्तेन ध्वनिना अनुगृह्यते अविक्रियाधर्मकोऽपि विक्रियाधर्मिणं ध्वनिमनु ध्वनिधर्मेण कत्वगत्वादिना भासते इत्यर्थः । तथा च घटध्वन्यभिव्यक्तस्फो- टस्य पटध्वन्य