वाक्यपदीयम्: ब्रह्मकाण्ड (भर्तृहरि - शब्दब्रह्म, स्फोट-सिद्धान्त एवं भाषा-दर्शन सटीक)
Vakyapadiya Brahmakanda of Bhartrihari with Commentary
भर्तृहरि (टीकाकार: पं. सूर्यनारायण शुक्ल) द्वारा
पृष्ठ 87, कुल 192 में से
संदर्भ में पढ़ेंननु द्विविधमपि आर्षं प्रत्यक्षं यद्यपि लौकिकप्रत्यक्षानुमानागमेभ्योऽतिरिक्तं तथापि आगमसंस्कृतप्रत्यक्षजन्यतया आगमोदीरिततपोनुष्ठानजन्यादृष्टजन्यतया च आगममूलकमेव तत् । अत एवोक्तम् 'ऋषीणामपि यज्ज्ञानं तदप्यागमपूर्वकम्' इति। एवं च आगमः स्वप्रामाण्याय तर्कमपेक्षत इति तर्कापेक्षया दुर्बल इति तन्मूलकस्य आर्षशास्त्रस्य सुतरां दौर्बल्यमिति शङ्कामपनुदन् आगमस्य स्वतः प्रमाणत्वेन तर्काऽन- पेक्षणात् तर्काबाध्यत्वमाह—यद्वा एवमार्षज्ञानस्यादृष्टविशेषजन्यत्वे उपपादिते अदृष्टस्यागमवेद्यतया तज्जन्यमार्षं ज्ञानमागममूलकमिति सिद्धमिति सांप्रतमागमस्य सर्वतो बलवत्त्वाय स्वतः प्रमाणतामाह— इसी तरह आगमोंका प्रामाण्य भी तर्कके अधीन नहीं है। किन्तु आगम तर्ककी अपेक्षा प्रबल और स्वतः प्रमाण है। चैतन्यमिव यश्चायमविच्छेदेन वर्तते । आगमस्तमुपासीनो हेतुवादैर्न बाध्यते ॥ ४१ ॥ अविच्छेदेन-स्वतः, स्वप्रकाशतया वर्तमानं चैतन्यमिव यश्चायं श्रुतिलक्षणः आगमः अविच्छेदेन विच्छेदोऽप्रामाण्यम् अविच्छेदः प्रामाण्यम् तेन स्वतः प्रमाणतया वर्तते तम् स्वतः प्रमाणमागमम् उपासीनः आगमानुरोधेन प्रवर्त्तमानः हेतुवादैः तार्किकवादैः, न बाध्यते न्यायशास्त्रपथौ न विचार्य्यते इत्यर्थः ॥ जैसे अविच्छिन्न रूप से (स्वयं प्रकाश) चैतन्य वर्तमान है। वैसे यह वेदरूपी आगम भी अविच्छेदरूपसे (स्वतः प्रामाण्यसे) युक्त है। ऐसे स्वतःप्रमाण आगमों पर विश्वास करनेवाले लोग तर्कवादसे विचलित होकर आगममे विश्वास नहीं खो बैठते। एतदुक्तं भवति यथा विज्ञाने जाते कश्चिदपि जानामि नवेति न संदिग्धे न जानामीति वा न विपर्य्यस्यति अतः विज्ञानं स्वप्रकाशमास्थीयते इति न तद्व्यक्ति- ज्ञानानुव्यवसायो१ ज्ञाततालिङ्गकानुमितिर्वापेक्ष्यते एवं आगमेऽपि कश्चिदपि 'आगमः प्रमाणं न वे'ति न संदिग्धे 'न प्रमाणमि'ति वा न विपर्यस्यति अतः आगमः स्वतः प्रमाणमित्यास्थीयते इति न तत्प्रामाण्याय तर्कादिकमपेक्ष्यते इति आगमोऽनपेक्षतया तर्कादिभ्यो बलवानिति तर्काबाध्य इति ॥ यद्वा चैतन्यमिव यथा कश्चिदपि अहमस्मीति प्रत्ययानुगते अनादिचैतन्यरूपे आत्मनि 'अहं वा नाहं वा' इति न संदिग्धे न च 'नाहमेव' इति विपर्यस्यति तथा योऽयं श्रुतिस्मृतिलक्षणः आगमः अविच्छेदेन अनादिशिष्टपरम्परया वर्तते प्रमाणमेवेति स्वीक्रियते न च तत्र कश्चिदपि 'प्रमाणं न वा' इति सन्दिग्धे न च 'अप्रमाणमेव' इति विपर्यस्यति किं बहुना येऽपि भिन्नाः प्रवादिनस्तेऽपि कार्याकार्य- १. मुरारिमिश्राणां मते ज्ञानमनुव्यवसायेन गृह्यते। भट्टानां मते ज्ञानमतीन्द्रियं ज्ञानजन्या ज्ञातता प्रत्यक्षा तया ज्ञानमनुमीयते। वेदान्तिनस्तु ज्ञानं स्वप्रकाशमातिष्ठन्ते तन्मतेनेदमभि- धेयम्।