वायु पुराण
Vayu Purana
महर्षि वेदव्यास / अनुवादक: पं० तारिणीश झा द्वारा
स्रोत: हिन्दी साहित्य सम्मेलन, प्रयाग · हिन्दी साहित्य सम्मेलन, प्रयाग (उद्गम)
पृष्ठ 173, कुल 465 में से
संदर्भ में पढ़ें| १६४ | श्रीमद्द्वैपायनमुनिप्रणीतम्- | [अ० ५१ श्लो० २३-४६] |
|---|---|---|
| (ज्योतिष्प्रचारः) |
तेन चाभ्राणि जायन्ते स्थानमत्राम्भसां स्मृतम् । आर्कं तेजो हि भूतेभ्यो ह्यादत्ते रश्मिभिर्जलम् ॥ २३
समुद्राद्वायुसंयोगाद्वहन्त्यापो गभस्तयः । यतस्त्वृतुवशात्काले परिवर्तो दिवाकरः ॥ २४
यच्छत्यपो हि मेघेभ्यः शुक्लाः शुक्लगभस्तिभिः ॥
अभ्रस्थाः प्रपतन्त्यापो वायुना समुदीरिताः । सर्वभूतहितार्थाय वायुभिश्च समन्ततः ॥ २५
ततो वर्षति षण्मासान्सर्वभूतविवृद्धये । वायव्यं स्तनितं चैव वैद्युतं चाभिसंभवम् ॥ २६
मेहनाच्च मिहेर्धातौर्मेघत्वं व्यञ्जयन्ति च । न अश्यन्ति यतस्वापस्तदभ्रं कवयो विदुः ॥ २७
मेघानां पुनरुत्पत्तिस्त्रिविधा योनिरुच्यते । आग्नेया ब्रह्मजाश्चैव पक्षजाश्च पृथग्विधाः ॥ २८
त्रिधा घनाः समाख्यातास्तेषां वक्ष्यामि संभवम् ॥
आग्नेयास्त्वर्णजाः प्रोक्तास्तेषां तस्मात्प्रवर्तनम् । शीतदुर्दिनवाता ये स्वगुणास्ते व्यवस्थिताः ॥ २९
महिषाश्च वराहाश्च मत्तमातङ्गगामिनः । भूत्वा धरणिमभ्येत्य विचरन्ति रमन्ति च ॥ ३०
जीमूता नाम ते मेघा एतेभ्यो जीवसंभवाः । विद्युद्गुणविहीनाश्च जलधाराविलम्बिनः ॥ ३१
मूका घना महाकाया आवहस्य वशानुगाः । क्रोशमात्राथ वर्षन्ति क्रोशार्धादपि वा पुनः ॥ ३२
पर्वतग्रानितम्बेषु वर्षन्ति च रमन्ति च । बलाकागर्भदाश्चैव बलाकागर्भधारिणः ॥ ३३
ब्रह्मजा नाम ते मेघा ब्रह्मनिश्वाससंभवाः । ते हि विद्युद्गुणोपेताः स्तनयन्ति स्वनप्रियाः ॥ ३४
तेषां शब्दप्रणादेन भूमिः स्वाङ्गरुहोद्गमा । राज्ञी राज्ञाभिषिकेव पुनर्यौवनमश्नुते ॥ ३५
तेष्वियं प्रीतिमासक्ता भूतानां जीवितोद्भवा ॥
जीमूता नाम ते मेघा येभ्यो जिवस्य संभवाः । द्वितियं प्रवहं वायुं मेघास्ते तु समाश्रिताः ॥ ३६
एते योजनमात्राच्च सार्धार्धात्रिष्कृतादपि । वृष्टिसर्गतस्तथा तेषां धारासाराः प्रकीर्तिताः ॥ ३७
पुष्करावर्तका नाम ये मेघाः पक्षसंभवाः ॥
शकेण पक्षाश्छिन्ना ये पर्वतानां महौजसाम् । कामगानां प्रवृद्धानां भूतानां शिवमच्छता ॥ ३८
पुष्करा नाम ते मेघा बृहन्तस्तोयमत्सराः । पुष्करावर्तकास्तेन कारणेनेह शब्दिताः ॥ ३९
नानारूपधराश्चैव महाघोरतराश्च ते । कल्पान्तवृष्टेः स्रष्टारः संवर्ताग्नेर्नियामकाः ॥ ४०
वर्षन्त्येते युगान्तेषु तृतीयास्ते प्रकीर्तिताः । अनेकरूपसंस्थानाः पूरयन्तो महीतलम् ॥ ४१
वायुं परं वहन्तः स्युराश्रिताः कल्पसाधकाः ॥
यान्यस्याण्डकपालस्य प्राकृतस्याभवंस्तदा । तस्माद्गत्वा समुत्पन्नाश्चतुर्वक्त्रः स्वयंभुवः ॥ ४२
तान्येवाण्डकपालस्य सर्व मेघाः प्रकीर्तिताः ॥
तेषामाप्यायनं धूम सर्वेषामविशेषतः । तेषां श्रेष्ठस्तु पर्जन्यश्चत्वारश्चैव दिग्गजाः ॥ ४३
गजानां पर्वतानां च मेघानां भोगिभिः सह । कुलमेकं पृथग्भूतं योनिरैका जले स्मृतम् ॥ ४४
पर्जन्यो दिग्गजाश्चैव हेमन्ते शीतसंभवाः । तुषारवृष्टिं वर्षन्ति सर्वसस्यविवृद्धये ॥ ४५
श्रेष्ठः परिवहो नाम तेषां वायुरपाश्रयः । योऽसौ बिभर्ति भगवान्गङ्गामाकाशगोचराम् ॥ ४६
दिव्यामृतजलां पुण्यां त्रिधा स्वर्गपथे स्थिताम् ॥