वायु पुराण
Vayu Purana
महर्षि वेदव्यास / अनुवादक: पं० तारिणीश झा द्वारा
स्रोत: हिन्दी साहित्य सम्मेलन, प्रयाग · हिन्दी साहित्य सम्मेलन, प्रयाग (उद्गम)
पृष्ठ 192, कुल 465 में से
संदर्भ में पढ़ें| [अ०५५श्लो०४३-६०] | वायुपुराणम् । | १८३ |
|---|
( लिङ्गोद्भवस्तवः )
लक्ष्मीः कीर्तिर्धृतिर्मेधा लज्जा क्षान्तिर्वपुः स्वधा । तुष्टिः पुष्टिः क्रिया चैव वाचां देवीं सरस्वती
त्वत्तः प्रसूता देवेश संध्या रात्र्रिस्तथैव च ॥ ४३
सूर्यायुतानामयुतप्रभाव नमोऽस्तु ते चन्द्रसहस्रगोचर ।
नमोऽस्तु त पर्वतरूपधारिणे नमोऽस्तु ते सर्वगुणाकराय ॥ ४४
नमोऽस्तु ते पट्टिशरूपधारिणे नमोऽस्तु ते चर्मविभूतिधारिणे ।
नमोऽस्तु ते रुद्रपिनाकपाणये नमोऽस्तु ते शायकचक्रधारिणे ॥ ४५
नमोऽस्तु ते भस्मविभूताभूषिताङ्ग नमोऽस्तु ते कामशरिरनाशन ।
नमोऽस्तु ते देव हिरण्यवाससे नमोऽस्तु ते देव हिरण्यवाहवे ॥ ४६
नमोऽस्तु ते देव हिरण्यरूप नमोऽस्तु ते देव हिरण्यनाभ ।
नमोऽस्तु ते नेत्रसहस्रचित्र नमोऽस्तु ते देव हिरण्यरेतः ॥ ४७
नमोऽस्तु ते देव हिरण्यवर्ण नमोऽस्तु ते देव हिरण्यगर्भ ।
नमोऽस्तु ते देव हिरण्यचीर नमोऽस्तु ते देव हिरण्यदायिने ॥ ४८
नमोऽस्तु ते देव हिरण्यमालिने नमोऽस्तु ने देव हिरण्यवाहिने ।
नमोऽस्तु ते देव हिरण्यवर्त्मने नमोऽस्तु ते भैरवनादनादिने ॥ ४९
नमोऽस्तु ते भैरववेगवेग नमोऽस्तु ते शंकर नीलकण्ठ ।
नमोऽस्तु ते दिव्यसहस्रबाहो नमोऽस्तु ते नर्तनवादनप्रिय ॥ ५०
एवं संस्तूयमानस्तु व्यक्तो भूत्वा महामतिः । भाति देवो महायोगी सूर्यकोटिसमप्रभः ॥ ५१
अभिभाष्यस्तदा हृष्टो महादेवो महेश्वरः । वक्त्रकोटिसहस्रेण ग्रसमान इवाम्बरम् ॥ ५२
एकग्रीवस्त्वेकजटो नानाभूषणभूषितः । नानारत्नावाचित्राङ्गो नानामाल्यानुलेपनः ॥ ५३
पिनाकपाणिर्भगवान्वृषभासनशूलधृक् । दण्डकृष्णाजिनधरः कपाली घोररूपधृक् ॥ ५४
व्यालयज्ञोपवीती च सुराणामभयंकरः । दुन्दुभिस्वननिर्घोषपर्जन्यनिनदोपमः ॥ ५५
मुक्तो हासस्तदा तेन नभः सर्वमपूरयत् ॥ ५६
तेन शब्देन महता वयं भीता महात्मनः । तदोवाच महायोगी प्रीतोऽहं सुरसत्तमौ ॥ ५७
पश्येतां च महामायां भयं सर्वं प्रमुच्यताम् । युवां प्रसूतौ गात्रेषु मम पूर्वं सनातनौ ॥ ५७
अयं मे दक्षिणो बाहुर्ब्रह्मा लोकपितामहः । वामो बाहुश्च मे विष्णोर्नित्यं युद्धेषु तिष्ठति ॥
प्रीतोऽहं युवयोः सम्यग्वरं दद्मि यथेप्सितम् ॥ ५८
ततः प्रहृष्टमनसौ प्रणतौ पादयोः पुनः । ऊचतुश्च महात्मानौ पुनरेव तदाऽनघौ ॥ ५९
यदि प्रीतिः समुत्पन्ना यदि देयो वरश्च नौ । भक्तिर्भवतु नो नित्यं त्वयि देव सुरेश्वर ॥ ६०