वायु पुराण
Vayu Purana
महर्षि वेदव्यास / अनुवादक: पं० तारिणीश झा द्वारा
स्रोत: हिन्दी साहित्य सम्मेलन, प्रयाग · हिन्दी साहित्य सम्मेलन, प्रयाग (उद्गम)
| [अ०५५श्लो०४३-६०] | वायुपुराणम् । | १८३ |
|---|
( लिङ्गोद्भवस्तवः )
लक्ष्मीः कीर्तिर्धृतिर्मेधा लज्जा क्षान्तिर्वपुः स्वधा । तुष्टिः पुष्टिः क्रिया चैव वाचां देवीं सरस्वती
त्वत्तः प्रसूता देवेश संध्या रात्र्रिस्तथैव च ॥ ४३
सूर्यायुतानामयुतप्रभाव नमोऽस्तु ते चन्द्रसहस्रगोचर ।
नमोऽस्तु त पर्वतरूपधारिणे नमोऽस्तु ते सर्वगुणाकराय ॥ ४४
नमोऽस्तु ते पट्टिशरूपधारिणे नमोऽस्तु ते चर्मविभूतिधारिणे ।
नमोऽस्तु ते रुद्रपिनाकपाणये नमोऽस्तु ते शायकचक्रधारिणे ॥ ४५
नमोऽस्तु ते भस्मविभूताभूषिताङ्ग नमोऽस्तु ते कामशरिरनाशन ।
नमोऽस्तु ते देव हिरण्यवाससे नमोऽस्तु ते देव हिरण्यवाहवे ॥ ४६
नमोऽस्तु ते देव हिरण्यरूप नमोऽस्तु ते देव हिरण्यनाभ ।
नमोऽस्तु ते नेत्रसहस्रचित्र नमोऽस्तु ते देव हिरण्यरेतः ॥ ४७
नमोऽस्तु ते देव हिरण्यवर्ण नमोऽस्तु ते देव हिरण्यगर्भ ।
नमोऽस्तु ते देव हिरण्यचीर नमोऽस्तु ते देव हिरण्यदायिने ॥ ४८
नमोऽस्तु ते देव हिरण्यमालिने नमोऽस्तु ने देव हिरण्यवाहिने ।
नमोऽस्तु ते देव हिरण्यवर्त्मने नमोऽस्तु ते भैरवनादनादिने ॥ ४९
नमोऽस्तु ते भैरववेगवेग नमोऽस्तु ते शंकर नीलकण्ठ ।
नमोऽस्तु ते दिव्यसहस्रबाहो नमोऽस्तु ते नर्तनवादनप्रिय ॥ ५०
एवं संस्तूयमानस्तु व्यक्तो भूत्वा महामतिः । भाति देवो महायोगी सूर्यकोटिसमप्रभः ॥ ५१
अभिभाष्यस्तदा हृष्टो महादेवो महेश्वरः । वक्त्रकोटिसहस्रेण ग्रसमान इवाम्बरम् ॥ ५२
एकग्रीवस्त्वेकजटो नानाभूषणभूषितः । नानारत्नावाचित्राङ्गो नानामाल्यानुलेपनः ॥ ५३
पिनाकपाणिर्भगवान्वृषभासनशूलधृक् । दण्डकृष्णाजिनधरः कपाली घोररूपधृक् ॥ ५४
व्यालयज्ञोपवीती च सुराणामभयंकरः । दुन्दुभिस्वननिर्घोषपर्जन्यनिनदोपमः ॥ ५५
मुक्तो हासस्तदा तेन नभः सर्वमपूरयत् ॥ ५६
तेन शब्देन महता वयं भीता महात्मनः । तदोवाच महायोगी प्रीतोऽहं सुरसत्तमौ ॥ ५७
पश्येतां च महामायां भयं सर्वं प्रमुच्यताम् । युवां प्रसूतौ गात्रेषु मम पूर्वं सनातनौ ॥ ५७
अयं मे दक्षिणो बाहुर्ब्रह्मा लोकपितामहः । वामो बाहुश्च मे विष्णोर्नित्यं युद्धेषु तिष्ठति ॥
प्रीतोऽहं युवयोः सम्यग्वरं दद्मि यथेप्सितम् ॥ ५८
ततः प्रहृष्टमनसौ प्रणतौ पादयोः पुनः । ऊचतुश्च महात्मानौ पुनरेव तदाऽनघौ ॥ ५९
यदि प्रीतिः समुत्पन्ना यदि देयो वरश्च नौ । भक्तिर्भवतु नो नित्यं त्वयि देव सुरेश्वर ॥ ६०
एवमस्तु महाभागौ सृजतां विविधाः प्रजाः । एवमुक्त्वा स भगवांस्तत्रैवान्तरधायत ॥ ६१
१८४ श्रीमद्द्वैपायनमुनिप्रणीतम्– [अ०५५-५६श्लो०६१-६८-१-८] ( पितृवर्णनमः )
भगवानुवाच— एवमस्तु महाभागौ सृजतां विविधाः प्रजाः । एवमुक्त्वा स भगवांस्तत्रैवान्तरधायत ॥ ६१ एवमेष मयोक्तो वः प्रभावस्तस्य योगिनः । तेन सर्वमिदं सृष्टं हेतुमात्रा वयं त्विह ॥ ६२ एतद्रूपमज्ञातमव्यक्तं शिवसंज्ञितम् । अचिन्त्यं तददृश्यं च पश्यन्ति ज्ञानचक्षुषः ॥ ६३ [*तस्मै देवाधिपत्याय नमस्कारं प्रयुञ्ज्वहे । येन सूक्ष्ममचिन्त्यं च पश्यन्ति ज्ञानचक्षुषः ] ६४ महादेव नमस्तेऽस्तु महेश्वर नमोऽस्तु ते । सुरासुरवरश्रेष्ठ मनोहंस नमोऽस्तु ते ॥ ६५
सूत उवाच— एतच्छ्रुत्वा गताः सर्वे सुराः स्वं स्वं निवेशनम् । नमस्कारं प्रयुञ्जानाः शंकराय महात्मने ॥ ६६ इमं स्तवं पठेद्यस्तु ईश्वरस्य महात्मनः । कामांश्च लभते सर्वान्पापेभ्यस्तु विमुच्यते ॥ ६७ एतत्सर्वं सदा तेन विष्णुना प्रभविष्णुना । महादेवप्रसादेन उक्तं ब्रह्म सनातनम् ॥ एतद्वः सर्वमाख्यातं मया माहेश्वरं बलम् ॥ ६८ इति श्रीमहापुराणे वायुप्रोक्ते लिङ्गोद्भवस्तवो नाम पञ्चपञ्चाशोऽध्यायः ॥ ५५ ॥
॥ आदितः श्लोकानां समष्ट्यङ्काः-४३३८
अथ षट्पञ्चाशोऽध्यायः । पितृवर्णनम् ।
शांशपायन उवाच-- अगात्कथममवास्यां मासि मासि दिवं नृपः । ऐडः पुरूरवाः सूत कथं वाऽतर्पयत्पितॄन् ॥ १
सूत उवाच-- तस्य चाहं प्रवक्ष्यामि प्रभावं शांशपायन । ऐडस्याऽऽदित्यसंयोगं सोमस्य च महात्मनः ॥ २ अपां सारमयस्येन्दोः पक्षयोः शुक्लकृष्णयोः । ह्रासवृद्धी पितृमतः पक्षस्य च विनिर्णयः ॥ ३ सोमाच्चैवामृतप्राप्तिः पितॄणां तर्पणं तथा । कव्याग्नेश्चाऽऽत्तसोमानां पितॄणां चैव दर्शनम् ॥ ४ यथा पुरूरवाश्चैडस्तर्पयामास वै पितॄन् । एतत्सर्वं प्रवक्ष्यामि पर्वाणि च यथाक्रमम् ॥ ५ यदा तु चन्द्रसूर्यौ तौ नक्षत्रेण समागतौ । अमावास्यां निवसतः एकरात्रैकमण्डले ॥ ६ स गच्छति तदा द्रष्टुं दिवाकरनिशाकरौ । अमावास्याममावास्यां मातामहपितामहौ ॥ अभिवाद्य तदा तत्र कालापेक्षः प्रतीक्षति(ते) ॥ ७ प्रसीदमानात्सोमाच्च पित्रर्थं तत्परिस्रवात् । ऐलः पुरूरवा विद्वान्मासि मासि प्रयत्नतः ॥ उपास्ते पितृमन्ते तं ससोमं स दिवा स्थितः ॥ ८
* धनुश्चिह्नान्तर्गतग्रन्थोः घ. पुस्तके नास्ति ।
[अ० ५६श्लो० ९-३२] वायुपुराणम् १८५
( पितृवर्णनम् )
द्विलवं कुहुमात्रं तु ते उभे तु विचार्य सः । सिनीवालीप्रमाणेने सिनीवालीमुपासकः ॥ ९
कुहुमात्रां कलां चैव ज्ञात्वोपास्ते कुहुं पुनः । स तदा भानुमत्येककालावेक्षी प्रपश्यति ॥ १०
सुधामृतं कुतः सोमात्प्रस्रवेन्मासतृप्तये । दशाभिः पञ्चभिश्चैव सुधामृतपरिस्रवैः ॥ ११
कृष्णपक्षे तदा पीत्वा दुह्यमानं तथांऽशुभिः । सद्यः प्रक्षरता तेन सौम्येन मधुना च सः ॥ १२
निर्वापणार्थं दत्तेन पित्र्येण विधिना नृपः । सुधामृतेन राजेन्द्रस्तर्पयामास वै पितॄन् ॥
सौम्या बर्हिषदः काव्या अग्निष्वात्तास्तथैव च ॥ १३
ऋतुरग्निस्तु यः प्रोक्तः स तु संवत्सरो मतः । जज्ञिरे ह्यृतवस्तस्मादृत्तुभ्यश्चाऽऽर्तवाश्च ये ॥ १४
आर्तवा ह्यर्धमासाख्याः पितरो ह्यब्दसूनवः । ऋतुः पितामहा मासा ऋतवश्चाब्दसूनवः ॥ १५
प्रपितामहास्तु वै देवाः पञ्चाब्दा ब्रह्मणः सुताः । सौम्यास्तु सोम्यजा ज्ञेयाः काव्या ज्ञेयाः कवे सुताः॥
उपहूताः स्मृता देवाः सोमजाः सोमपास्तथा । आज्यपास्तु स्मृताः काव्यास्तृप्यन्ति पितृजातयः॥
काव्या बर्हिषदश्चैव अग्निष्वात्ताश्च ते त्रिधा । गृहस्था ये च यज्वान ऋतुर्बार्हिषदो ध्रुवम् ॥ १८
गृहस्थाश्चापि यज्वानो अ(ह्य)ग्निष्वात्तास्तथाऽऽर्तवाः । अष्टकापतयः काव्याः पञ्चाब्दास्तान्निबोधत ॥
एषां संवत्सरो ह्यग्निः सूर्यस्तु परिवत्सरः । सोम इद्वत्सरः प्रोक्तो वायुश्चैवानुवत्सरः ॥ २०
रुद्रस्तु वत्सरस्तेषां पञ्चाब्दा ये युगात्मकाः । लेखाश्चैवोष्मपाश्चैव दिवाकीर्त्याश्च ते स्मृताः ॥ २१
एते पिबन्त्यमावास्यां मासि मासि सुधां दिवि । तांस्तेन तर्पयामास यावदासीत्पुरूरवाः ॥ २२
यस्मात्प्रस्रवते सोमान्मासि मासि निबोधत । तस्मात्सुधामृतं तद्वै पितॄणा सोमपायिनाम् ॥ २३
एवं तदमृतं सौम्य सुधा च मधु चैव ह । कृष्णपक्षे यथा चेन्दोः कलाः पञ्चदश क्रमात् ॥ २४
पिबन्त्यम्बुमयीर्देवास्यत्रिंशत्तुछन्दजाः । पीत्वा च मासं गच्छन्ति चतुर्दश्यां सुधामृतम् ॥ २५
इत्येवं पीयमानस्तु दैवतैश्च निशाकरः । समागच्छदमावास्यां भागे पञ्चदशे स्थितिः ॥ २६
सुषुम्नाप्यायितं चैव अमावास्यां यथाक्रमम् । पिबन्ति द्विकलं कालं पितरस्ते सुधामृतम् ॥ २७
ततः पीतक्षये सोमे सूर्योऽसावेकरश्मिना । आप्याययत्सुषुम्नेन पितॄणां सोमपायिनाम् ॥ २८
निःशेषायां कलायां तु सोममाप्याययत्पुनः । सुषुम्नाप्यायमानस्य भागं भागमहःक्रमात् ॥
कलाः क्षीयन्ति ताः कृष्णाः शुक्लाश्चाऽऽप्याययन्ति तम् ॥ २९
एवं सूर्यस्य वीर्येण चन्द्रस्याऽऽप्यायिता तनुः । दृश्यते पौर्णमास्यां वै शुक्लः संपूर्णमण्डलः ॥
संसिद्धिरेवं सोमस्य पक्षयोः शुक्लकृष्णयोः ॥ ३०
इत्येष पितृमान्सोमः स्मृत इद्वत्सरः क्रमात् । क्रान्तः पञ्चदशैः सार्धं सुधामृतपरिस्रवैः ॥ ३१
अतः पर्वाणि वक्ष्यामि पर्वणां संधयस्तथा । ग्रन्थिमान्ति यथा पर्वाणीक्षुवेणोर्भवन्त्युत ॥ ३२
२४
१८६ श्रीमद्वैपायनमुनिप्रणीतम्- [अ०५६-श्लो० ३३-५१] ( पितृवर्णनम् )
तथाऽर्धमासपर्वाणि शुक्लकृष्णानि वै विदुः । पूर्णीमावास्ययोर्भेदैर्गन्थिर्या संधयश्च वै ॥ ३३ अर्धमासास्तु पर्वाणि तृतायाप्रभृतीनि तु । अग्नयाधानाक्रिया यस्मात्क्रियते पर्वसंधिषु ॥ ३४ (*सायाह्ने ह्यनुमत्याऽसौ द्वौ लवौ काल उच्यते । लवौ द्वावेव राकायाः कालो ज्ञेयोऽपराह्निकः ३५ +प्रतिपत्कृष्णपक्षस्य कालेऽतीतेऽपराह्निकः । ) सायाह्ने प्रतिपच्चैव स कालः पौर्णमासिकः ॥ ३६ व्यतीपाते स्थिते सूर्ये लेखोर्ध्वं ? तु युगान्तरे । युगान्तरोदिते चैव लेखोर्ध्वं ? शशिनः क्रमात् ॥ ३७ पौर्णमासे ध्यतीपाते यदीक्षेते परस्परम् । यस्मिन्काले स सोमान्ते स व्यतीपात एव तु ॥ ३८ कालं सूर्यस्य निर्देशं दृष्ट्वा संख्या तु सर्पति । स वै पथं ? क्रियाकालः कालात्सद्यो विधीयते ॥ ३९ र्णैन्दोः पूर्णपक्षे तु रात्रिसंधिषु पूर्णिमा । × यस्माच्चामनुपश्यन्ति पितरो दैवतैः सह ॥ तस्मादनुमतिर्नाम पूर्णिमा प्रथमा स्मृता ॥ ४० अत्यर्थं भ्राजते यस्मात्पौर्णमास्यां निशाकरः । रञ्जनाच्चैव चन्द्रस्य राकेति कवयो विदुः ॥ ४१ अमा वसेतामृक्षे तु यदा चन्द्रादिवाकरौ । एकां पञ्चदशीं रात्रिममावास्या ततः स्मृता ॥ ४२ ततोऽपरस्य तैर्व्यक्तः पौर्णमास्यां निशाकरः । यदीक्षेते व्यतीपाते दिवा पूर्णौ परस्परम् ॥ चन्द्रार्कविपराह्ने तु पूर्णात्मानौ तु पूर्णिमा ॥ ४३ विच्छिन्नां ताममावास्यां पश्यतश्च समागतौ । अन्योन्यं चन्द्रसूर्यौ तौ यदा तद्दर्श उच्यते ॥ ४४ द्वौ द्वौ लवावमावास्यां यः कालः पर्वसंधिषु । द्व्यक्षरं कुहुमात्रं तु एवं कालस्तु स स्मृतः ॥ नष्टचन्द्राप्यमावास्या मध्यसूर्येण संगता ॥ ४५ दिवसार्धेन रात्र्यर्थं सूर्यं प्राप्य तु चन्द्रमाः । सूर्येण सहसा मुक्तं गत्वा प्रातस्तनोत्सवौ ॥ द्वौ कालौ संगमश्चैव मध्याह्ने निष्पतेद्रविः ॥ ४६ प्रतिपच्छुक्लपक्षस्य चन्द्रमाः सूर्यमण्डलात् । निर्मुच्यमानयोर्मध्ये तयोर्मण्डलयोस्तु वै ॥ ४७ स तदा ह्याहुतः कालो दर्शस्य च वषट्क्रिया । एतद्दृतुमुखं ज्ञेयममावास्याऽस्य पर्वणः ॥ ४८ दिवा पर्वण्यमावास्यां क्षीणेन्दौ बहुले तु वै । तस्माद्दिवा ह्यमावास्यां गृह्यतेऽसौ दिवाकरः ॥ गृह्यते वै दिवा ह्यस्मादमावास्यां दिविक्षयैः ॥ ४९ कलानामपि वै तासां बहुमान्याऽजडात्मकैः । तिथीनां नामधेयानि विद्वद्भिः संज्ञितानि वै ॥ ५० दर्शयेतामन्योन्यं सूर्याचन्द्रमसावुभौ । निष्क्रामत्यथ तेनैव क्रमशः सूर्यमण्डलात् ॥ ५१
* धनुश्चिह्नान्तर्गतग्रन्थः क. पुस्तकेषु । + इदमर्धं नास्ति ख. घ. पुस्तकेषु । × यस्मादित्याभ्य ततः स्मृतेत्यन्तग्रन्थस्य क्रमव्यत्यासः । ख. घ. ङ. पुस्तकेषु वर्तते ।
[अ० ५६ श्लो० ५२-७८] वायुपुराणम्। १८७
(पितृवर्णनम्ः)
द्विलवेन सहोरात्रं भास्करं स्पृशते शशी। स तदा ह्याहुतेः कालो दर्शस्य च वषट्क्रिया ॥ ५२
कुहेति कोकिलेनोक्तो यः कालः परिचिह्नितः। तत्कालसंज्ञिता यस्मादमावास्या कुहूः स्मृता ॥ ५३
सिनीवालीप्रमाणेन क्षीणशेषो निशाकरः। अमावास्यां विशत्यर्कं सिनीवाली ततः स्मृता ॥ ५४
(*अनुमत्याः सराकायाः सिनीवाली कुहूस्तथा। एतासां द्विलवः कालः कुहूमात्रा कुहूस्तथा ॥
इत्येष पर्वसंधीनां कालो वै द्विलवः स्मृतः ॥) ५५
पर्वणः पर्वकालस्तु तुल्यो वै तु वषट्क्रिया। चन्द्रसूर्यव्यतीपाते उभे ते पूर्णिमे स्मृते ॥ ५६
प्रतिपत्पञ्चदश्यांश्र्च पर्वकालो द्विमात्रकः। कालः कुहूसिनीवाल्योः समुद्रो द्विलवः स्मृतः ॥ ५७
अर्काग्निमण्डले सोमे पर्वकालः कलाश्रयः। एवं स शुक्लपक्षो वै रजन्याः पर्वसंधिषु ॥ ५८
संपूर्णमण्डलः श्रीमांश्चन्द्रमा उपरज्यते। यस्मादाप्यायते सोमः पञ्चदश्यां तु पूर्णिमा ॥ ५९
दशभिः पञ्चभिश्चैव कलाभिर्दिवसक्रमात्। तस्मात्कलाः पञ्चदशी सोमे नास्ति तु षोडशी ॥
तस्मात्सोमस्य भवति पञ्चदश्यां महाक्षयः ॥ ६०
इत्येते पितरो देवाः सोमपाः सोमवर्धनाः। आर्तवा ऋतवो यस्मात्ते देवा भावयन्ति च ॥ ६१
अतः पितॄन्प्रवक्ष्यामि मासश्राद्धभुजस्तु ये। तेषां गतिं च तत्त्वं च गतिं श्राद्धस्य चैव हि ॥ ६२
न मृतानां गतिः शक्या विज्ञातुं पुनरागतिः। तपसाऽपि प्रसिद्ध्येन किं पुनर्मांसचक्षुषा ॥ ६३
श्राद्धदेवान्पितॄनेतान्पितरो लौकिकाः स्मृताः। देवाः सौम्याश्च यज्वानः सर्वे चैव ह्ययोनिजाः ॥ ६४
देवास्ते पितरः सर्वे देवास्तान्भावयन्त्युत। मनुष्याः पितरश्चैव तेभ्योऽन्ये लौकिकाः स्मृताः ॥ ६५
पिता पितामहश्चैव तथैव प्रपितामहः। यज्वानो ये तु सोमेन सोमवन्तस्तु ते स्मृताः ॥ ६६
ये यज्वानः स्मृतास्तेषां ते वै बर्हिषदः स्मृताः। कर्मस्वेतेषु युक्तास्ते तृप्यन्त्यादेहसंभवात् ॥ ६७
अग्निष्वात्ताः स्मृतास्तेषां होमिनो याज्ययाजिनः। +तेषां ते धर्मसाधर्म्यात्स्मृता सा योज्यैर्द्विजैः ॥
ये वाऽप्याश्रमधर्मेण प्रख्यानेषु व्यवस्थिताः ॥ ६८
अन्ते च नैव सीदन्ति श्रद्धायुक्तेन कर्मणा। ब्रह्मचर्येण तपसा यज्ञेन प्रजया च वै ॥ ६९
श्रद्धया विद्यया चैव प्रदानेन च सप्तधा। कर्मस्वेतेषु ये युक्ता भवन्त्यादेहपातनात् ॥ ७०
देवैस्तैः पितृभिः सार्धं सूक्ष्मकैः सोमपायकैः। स्वर्गता दिवि मोदन्ते पितृमन्तमुपासते ॥ ७१
प्रजावतां प्रशंसैव स्मृता सिद्धा क्रियावताम्। तेषां निवापदत्तान्नं तत्कुलीनैश्च बान्धवैः ॥ ७२
मासं श्राद्धभुजस्तृप्तिं लभन्ते सोमलौकिकाः। एते मनुष्याः पितरो मासि श्राद्धभुजस्तु ते ॥ ७३
तेभ्योऽपरे तु ये चान्ये संकीर्णाः कर्मयोनिषु। भ्रष्टाश्चाऽऽश्रमधर्मेभ्यः स्वधास्वाहाविवर्जिताः ॥ ७४
भिन्नदेहा दुरात्मानः प्रेतभूता यमक्षये। स्वकर्माण्येव शोचन्ति यातनास्थानमागताः ॥ ७५
दीर्घायुषाऽतिशुष्काश्च विवर्णाश्च विवाससः। क्षुत्पिपासापरीताश्च विद्रवन्ति ततस्ततः ॥ ७६
सरित्सरस्तडागानि वापींश्चैव जलेप्सवः। परान्नानि च लिप्सन्ते काल्यमानास्ततस्ततः ॥ ७७
स्थानेषु पाच्यमानाश्च यातायातेषु तेषु वै। शाल्मलौ वैतरण्यां च कुम्भीपाकेषु तेषु च ॥ ७८
* धनुश्चिह्नान्तर्गतग्रन्थः क. पुस्तके नास्ति। + इदमर्धं नास्ति क. पुस्तके।
१८८ श्रीमद्वैपायनमुनिप्रणीतम्- [अ०५६-५७-श्लो०७९-९४-१-२] ( यज्ञवर्णनम्ः )
करम्भवालुकायां च असिपत्रवने तथा । शिलासंपेषणे चैव पात्यमानाः स्वकर्मभिः ॥ ७९ तत्र स्थानानि तेषां वै दुःखानमप्यनाकवत् । तेषां लोकान्तरस्थानां विविधैर्नामगोत्रतः ॥ ८० भूम्यापसव्यं ? दर्भेषु दत्त्वा पिण्डत्रयं तु वै । पतितांस्तर्पयन्ते च प्रेतस्थानेष्वधिष्ठिताः ॥ ८१ अप्राप्ता यातनास्थानं सृष्टा ये भुवि पञ्चधा । पश्वादिस्थावरान्तेषु भूतानां तेषु कर्मसु ॥ ८२ नानारूपासु जातीषु तिर्यग्योनिषु जातिषु । यदाहारा भवन्त्येते तासु तास्विह योनिषु ॥ तस्मिंस्तस्मिंस्तदाहारं श्राद्धे दत्तोपतिष्ठति ॥ ? ८३ काले न्यायागतं पात्रं विधिना प्रतिपादितम् । प्राप्नोत्यन्नं यथादत्तं बन्धुर्यत्रावतिष्ठते ॥ ८४ यथा गोषु प्रनष्टासु वत्सो विन्दन्ति मातरम् । तथा श्राद्धे तद्दिष्टानां मन्त्रः प्रापयते पितॄन् ॥ ८५ एवं ह्यविकलं श्राद्धं श्रद्धादत्तं तु मन्त्रतः । सनत्कुमारः प्रोवाच पश्यन्दिव्येन चक्षुषा ॥ गतागतिज्ञः प्रेतानां प्राप्तश्राद्धस्य चैव हि ॥ ८६ बर्हीकाश्चोष्मपाश्चैव दिवाकीर्त्यांश्च ते स्मृताः । कृष्णपक्षस्त्वहस्तेषां शुक्लः स्वमाय शर्वरी ॥ ८७ इत्येते पितरो देवा देवाश्च पितरश्च ये । ऋतार्तवा अनेके तु अन्योन्यपितरः स्मृताः ॥ ८८ एते तु पितरो देवा मानुषाः पितरश्च य । प्रीतेषु तेषु प्रीयन्ते श्रद्धायुक्तेन कर्मणा ॥ ८९ इत्येवं पितरः प्रोक्ताः पितॄणां सोमपायिनाम् । एतत्पितृमतत्वं हि पुराणे निश्चयो मतः ॥ ९० इत्यर्कपितृसोमानां ऐलस्य च समागमः । सुधामृतस्य चावाप्तिः पितॄणां चैव तर्पणम् ॥ ९१ पूर्णिमावास्ययोः कालः पितॄणां स्थानमेव च । समाप्तात्कीर्तितस्तुभ्यमेष सर्गः सनातनः ॥ ९२ वैश्वरूप्यं तु सर्वस्य कथितं चैकदेशिकम् । न शक्यं परिसंख्यातुं श्रद्धेयं भूतिमिच्छता ॥ ९३ स्वायंभुवस्य हीत्येष सर्गः क्रान्तो मयाऽत्र वै । विस्तरेणाऽऽनुपूर्व्या च भूयः किं वर्णयाम्यहम् ॥ ९४
इति श्रीमहापुराणे वायुप्रोक्ते पितृवर्णनं नाम षट्पञ्चाशोऽध्यायः ॥ ५६ ॥
आदितः श्लोकानां समष्ट्यङ्कः—४४३२
अथ सप्तपञ्चाशोऽध्यायः ।
यज्ञवर्णनम् ।
ऋषय ऊचुः— चतुर्युगानि(णि)यान्यासन्पूर्वे स्वायंभुवेऽन्तरे । तेषां निसर्गं तत्त्वं च श्रोतुमिच्छामि विस्तरात् ॥ १
सूत उवाच— पृथिव्यादिप्रसङ्गेन यन्मया प्रागुदाहृतम् । तेषां चतुर्युगं ह्येतत्प्रवक्ष्यामि निबोधत ॥ २
[अ० ५७ श्लो० ३-२२] वायुपुराणम् । १८९ ( यज्ञवर्णनम् ) संख्यायेह प्रसंख्याय विस्तराच्चैव सर्वशः । युगं च युगभेदं च युगधर्मं तथैव च ॥ ३ युगसंध्यंशकं चैव युगसंधानमेव च । षट्प्रकारयुगाख्यानां प्रवक्ष्यामीह तत्त्वतः ॥ ४ लौकिकेन प्रमाणेन विबुद्धोऽब्दस्तु मानुषः । तेनाब्देन प्रसंख्याय वक्ष्यामीह चतुर्युगम् ॥ ५ निमेषकालः काष्ठा च कलाश्चापि मुहूर्त्तकाः । निमेषकालतुल्यं हि विद्याल्लध्वक्षरं च यत् ॥ ६ काष्ठा निमेषा दश पञ्च चैव त्रिंशच्च काष्ठा गणयेत्कलास्ताः । त्रिंशत्कलाश्चैव भवेन्मुहूर्त्तस्तास्त्रिंशता रात्र्यहणी समेते ॥ ७ अहोरात्रे विभजते सूर्यो मानुषदैविके । तत्राहः कर्मचेष्टायां रात्रिः स्वमाय कल्प्यते ॥ ८ पित्र्ये रात्र्यहणी मासः प्रविभागस्तयोः पुनः । कृष्णपक्षस्त्वहस्तेषां शुक्लः स्वमाय शर्वरी ॥ ९ त्रिंशच्च मानुषा मासाः पित्र्यो मासश्च स स्मृतः । शतानि त्रीणि मासानां षष्ट्या चाप्यधिकानि वै पित्र्यः संवत्सरो ह्येष मानुषेण विभाव्यते ॥ १० मानुषेणैव मानेन वर्षाणां यच्छतं भवेत् । पितॄणां त्रीणि वर्षाणि संख्यातानीह तानि वै ॥ चत्वारश्चाधिका मासाः पित्रे चैवेह कीर्तिताः ॥ ११ लौकिकेनैव मानेन अब्दो यो मानुषः स्मृतः । एतद्दिव्यमहोरात्रं शास्त्रेऽस्मिन्निश्चयो मतः ॥ १२ दिव्ये रात्र्यहणी वर्षे प्रविभागस्तयोः पुनः । अहस्तत्रोदगयनं रात्रिः स्याद्दक्षिणायनम् ॥ १३ ये ते रात्र्यहणी दिव्ये प्रसंख्याते तयोः पुनः । त्रिंशच्च तानि वर्षाणि दिव्यो ह्येष विधिः स्मृतः ॥ १४ मानुषं च शतं विद्धि दिव्यमासांस्तु ते । दश चैव तथाऽहानि दिव्यो ह्येष विधिः स्मृतः ॥ १५ त्रीणि वर्षशतान्येव षष्टिव (र्षा) णानि यानि च । दिव्यः संवत्सरो ह्येष मानुषेण प्रकीर्तितः ॥ १६ त्रीणि वर्षसहस्राणि मानुषेण प्रमाणतः । त्रिंशद्यानि तु वर्षाणि मतः सप्तर्षिवत्सरः ॥ १७ नव यानि सहस्राणि वर्षाणां मानुषाणि तु । अन्यानि नवतिश्चैव क्रौञ्चः संवत्सरः स्मृतः ॥ १८ षट्त्रिंशत्तु सहस्राणि वर्षाणां मानुषाणि । तु । * षष्टिश्चैव सहस्राणि संख्यातानि तु संख्यया ॥ वर्षाणां तु शतं ज्ञेयं दिव्यो ह्येष विधिः स्मृतः ॥ १९ त्रीण्येव नियुतान्याहुर्वर्षाणां मानुषाणि च । षष्टिश्चैव सहस्राणि संख्यातानि तु संख्यया ॥ दिव्यं वर्षसहस्रं तु प्राहुः संख्याविदो जनाः ॥ २० इत्येवमृषिभिर्गीतं दिव्यया संख्ययाऽन्वितम् । दिव्येनैव प्रमाणेन युगसंख्याप्रकल्पनम् ॥ २१ चत्वारि भारते वर्षे युगानि कवयो विदुः । पूर्वं कृतयुगं नाम ततस्त्रेता विधीयते ॥ द्वापरश्च कलिश्चैव युगान्येतान्यकल्पयत् ॥ २२
* इदमर्धं नास्ति क. ख. घ. पुस्तकेषु ।
| १९० | श्रीमद्वैपायनमुनिप्रणीतम्- | [अ० ५७ श्लो० २३-४४] |
|---|---|---|
| ( यज्ञवर्णनम् ) |
चत्वार्याहुः सहस्राणि वर्षाणां तु कृतं युगम् । तत्र तावच्छती संध्या संध्यांशश्च तथाविधः ॥ २३
इतरासु च संध्यासु संध्यांशेषु च वै त्रिषु । एकापायेन वर्तन्ते सहस्राणि शतानि च ॥ २४
त्रेता त्रीणि सहस्राणि संख्ययैव परिकीर्त्यते । तस्यास्तु त्रिशती संध्या संध्यांशश्च तथाविधः ॥ २५
द्वापरं द्वे सहस्रे तु युगमाहुर्मनीषिणः । तस्यापि द्विशती संध्या संध्यांशः संध्यया समः ॥ २६
कलिं वर्षसहस्रं तु युगमाहुर्मनीषिणः । तस्याप्येकशती संध्या संध्यांशः संध्यया समः ॥ २७
एषा द्वादशसाहस्री युगसंख्या परिकीर्तिता । कृतं त्रेता द्वापरश्च कलिश्चैव चतुष्टयम् ॥ २८
अत्र संवत्सरः सृष्टा मानुषेण प्रमाणतः । कृतस्य तावद्वक्ष्यामि वर्षाणां तत्प्रमाणतः ॥ २९
सहस्राणां शतान्यत्र चतुर्दश तु संख्यया । चत्वारिंशत्सहस्राणि कलिकालयुगस्य तु ॥ ३०
+एवं संख्यावकालश्च कालेष्विह विशेषतः । एवं चतुर्युगः कालो विना संख्यांशकैः स्मृतः ॥ ३१
÷नियुतान्येकषड्विंशन्निरंशानि तु तानि वै । चत्वारिंशत्त्रीणि चैव नियुतानि च संख्यया ॥
विंशतिश्च सहस्राणि स संख्याशश्चतुर्युगे ॥ ३२
एवं चतुर्युगाख्या तु साधिका सेकसप्ततिः । कृतत्रेतादियुक्ता सा मन्वन्तरमुच्यते ॥ ३३
मन्वन्तरस्य संख्या तु वर्षीयेण निबोधत । त्रिंशत्कोट्यस्तु वर्षाणां मानुषेण प्रकीर्तिताः ॥ ३४
सप्तषष्ठिस्तथाऽन्यानि नियुतान्यधिकानि तु । विंशतिश्च सहस्राणि कालोऽयं संधिकं विना ॥ ३५
मन्वन्तरस्य संख्यैषा संख्याविद्भिर्द्विजैः स्मृता । मन्वन्तरस्य कालोऽयं युगैः सार्धं प्रकीर्तितः ॥ ३६
चतुःसहस्रयुक्तं वै प्रथमं तत्कृतं युगम् । त्रेतावशिष्टं वक्ष्यामि द्वापरं कलिमेव च ॥ ३७
युगपत्समवेतार्थो द्विधा वक्तुं न शक्यते । क्रमागतं मया ह्येतत्तुभ्यं प्रोक्तं युगद्वयम् ॥
ऋषिवंशप्रसङ्गेन व्याकुलत्वात्तथैव च ॥ ३८
तत्र त्रेतायुगस्याऽऽदौ मनुः सप्तर्षयश्च ते । श्रौतं स्मार्तं च धर्मं च ब्रह्मणा च प्रचोदितम् ॥ ३९
दाराग्निहोत्रसंयोगमृग्यजुःसामसंज्ञितम् । इत्यादिलक्षणं श्रौतं धर्मं सप्तर्षयोऽब्रुवन् ॥ ४०
परम्परागतं धर्मं स्मार्तं चाऽऽचारलक्षणम् । वर्णाश्रमाचारयुतं प्रभुः स्वायंभुवोऽब्रवीत् ॥ ४१
सत्येन ब्रह्मचर्येण श्रुतेन तपसा च वै । तेषां सुतप्रतपसाभार्येण क्रमेण तु ॥ ४२
- सप्तर्षीणां मनोश्चैव आद्ये त्रेतायुगस्य तु । अबुद्धिपूर्वकं तेषामक्रियापूर्वमेव च ॥ ४३
अभिव्यक्तास्तु ते मन्त्रास्तारकाद्यैर्निदर्शनैः । आदिकल्पे तु देवानां प्रादुर्भूतास्तु ते स्वयम् ॥ ४४
- इदमर्धं नास्ति क. पुस्तके । ÷ अस्मिन्नर्धस्थाने इदमर्धं संख्यातस्त्वेककालस्तु काले त्विह विशेषत इति ख. ग. घ. ङ. पुस्तकेषु ।
[अ०५७-श्लो०४५-६९] वायुपुराणम् । १६१ ( यज्ञवर्णनम्ः )
प्रणाशे त्वथ सिद्धीनामप्यासां च प्रवर्तनम् । आसन्मन्त्रा व्यतीतेषु ये कल्पेषु सहस्रशः ॥ ते मन्त्रा वै पुनस्तेषां प्रतिभासमुत्थिताः ॥ ४५ ऋचो यजूंषि सामानि मन्त्राश्चाथर्वणानि च । सप्तर्षिभिस्तु ते प्रोक्ताः स्मार्तं धर्मं मनुर्जगौ ॥ त्रेतादौ संहिता वेदाः केवला धर्मशेषतः । संरोधादायुषश्चैव व्यसन्ते द्वापरेषु ते ॥ ४७ ऋषयस्तपसा देवाः कलौ च द्वापरेषु वै । अनादिनिधना दिव्याः पूर्वं सृष्टाः स्वयंभुवा ॥ ४८ सधर्माः सप्रजाः साङ्गा यथाधर्मं युगे युगे । विक्रियन्ते समानार्था वेदवादा यथा युगम् ॥ ४९ आरम्भयज्ञाः क्षत्रस्य हविर्यज्ञा विशांपतेः । परिचारयज्ञाः शूद्रास्तु जपयज्ञा द्विजोत्तमाः ॥ ५० तदा प्रमुदिता वर्णास्त्रेतायां धर्मपालिताः । क्रियावन्तः प्रजावन्तः समृद्धाः सुखिनस्तथा ॥ ५१ ब्राह्मणाननुवर्तन्ते क्षत्रियाः क्षत्रियान्विशः । वैश्यानुवर्तिनः शूद्राः परस्परमनुव्रताः ॥ ५२ शुभाः प्रवृत्तयस्तेषां धर्मा वर्णाश्रमास्तथा । संकल्पितेन मनसा वाचोक्तेन स्वकर्मणा ॥ त्रेतायुगे त्वविकलः कर्मारम्भः प्रसिध्यति ॥ ५३ आयुर्मेधा बलं रूपमारोग्यं धर्मशीलता । सर्वसाधारणा ह्येते त्रेतायां वै भवन्त्युत ॥ ५४ वर्णाश्रमव्यवस्थां तेषां ब्रह्मा तथाऽकरोत् । पुनः प्रजास्तु ता मोहात्तान् धर्मान् न्यपालयन् ॥ ५५ परस्परविरोधेन मनुं ताः पुनरन्वयुः । मनुः स्वायंभुवो दृष्ट्वा याथातथ्यं प्रजापतिः ॥ ५६ ध्यात्वा तु शतरूपायाः पुमान्स उदपादयत् । प्रियव्रतोत्तानपादौ प्रथमं तौ महीपती ॥ ५७ ततः प्रभृति राजान उत्पन्ना दण्डधारिणः । प्रजानां रञ्जनाच्चैव राजानस्त्वभवन्नृपाः ॥ ५८ प्रच्छन्नपापा ये जेतुमशक्या मनुजा भुवि । धर्मसंस्थापनार्थाय तेषां शास्त्रे तपोमयाः ॥ ५९ वर्णानां प्रविभागाश्च त्रेतायां संप्रकीर्तिताः । संहिताश्च ततो मन्त्रा ऋषिभिर्ब्राह्मणैस्तु ते ॥ ६० यज्ञः प्रवर्तितश्चैवं तदा ह्येव तु दैवतैः । यागे शुक्रैर्जपैश्चैव सर्वसंभारसंवृतैः ॥ ६१ सार्धं विश्वभुजा चैव देवेन्द्रेण महौजसा । स्वायंभुवेऽन्तरे देवैर्यज्ञास्ते वाक्प्रवर्तिताः ॥ ६२ सत्यं जपस्तपो दानं त्रेतायां धर्म उच्यते । क्रिया धर्मश्च ह्रसते सत्यधर्मः प्रवर्तते ॥ ६३ प्रजायन्ते ततः शूरा आयुष्मन्तो महाबलाः । न्यस्तदण्डमहाभागा यज्वानो ब्रह्मवादिनः ॥ ६४ मद्मपत्रायताक्षाश्च पृथूरस्काः सुसंहिताः । सिंहान्तका महासत्त्वा मत्तमातङ्गगामिनः ॥ ६५ महाधनुर्धराश्चैव त्रेतायां चक्रवर्तिनः । सर्वलक्षणसंपन्ना न्यग्रोधपरिमण्डलाः ॥ ६६ न्यग्रोधौ तौ स्मृतौ बाहू व्यामो न्यग्रोध उच्यते । व्यामेनैवोच्छ्रयो यस्य सम ऊर्ध्वं तु देहिनः ॥ समुच्छ्रयपरणाहो ज्ञेयो न्यग्रोधमण्डलः ॥ ६७ चक्रं रथो मणिर्भार्या निधिरश्वा गजास्तथा । सप्तातिशयरत्नानि सर्वेषां चक्रवर्तिनाम् ॥ ६८ चक्रं रथो मणिः खड्गं धनूरत्नं च पञ्चमम् । केतुर्निधिश्च सप्तैते प्राणहीनाः प्रकीर्तिताः ॥ ६९
५९२ श्रीमद्वैपायनमुनिप्रणीतम्- [अ०५७श्लो०७०-९१ (यज्ञवर्णनम्)
भार्या पुरोहितश्चैव सेनानी रथकृच्च यः। मन्त्र्यश्वः कलभश्चैव प्राणिनः संप्रकीर्तिताः॥ ७० रत्नान्येतानि दिव्यानि संसिद्धानि महात्मनाम्। चतुर्दश विधेयानि सर्वेषां चक्रवर्तिनाम्॥ ७१ विष्णोरंशेन जायन्ते पृथिव्यां चक्रवर्तिनः। मन्वन्तरेषु सर्वेषु अतीतानागतेषु वै॥ ७२ (*भूतभव्यानि यानीह वर्तमानानि यानि च। त्रेतायुगादिकेष्वेव जायन्ते चक्रवर्तिनः॥ ७३ भद्राणीमानि तेषां वै भवन्तीह महीक्षिताम्।) अद्भुतानि च चत्वारि बलं धर्मः सुखं धनम्॥ ७४ अन्योन्यस्याविरोधेन प्राप्यन्ते वै नृपैः समम्। अर्थो धर्मश्च कामश्च यशो विजय एव च॥ ७५ ऐश्वर्येणाणिमाद्येन प्रभुशक्त्या तथैव च। अनेन तपसा चैव ऋषीनभिभवन्ति च॥ बलेन तपसा चैव देवदानवमानुषान्॥ ७६ लक्षणैश्चापि जायन्ते शरीरस्थैर्मानुषैः। केशस्थिता ललाटोर्णा जिह्वा चाऽस्यप्रमार्जनी। ताम्रप्रभोष्ठदन्तोष्ठाः श्रीवत्साथोर्ध्वरोमशाः॥ ७७ आजानुबाहवश्चैव जालहस्ता वृषाङ्गिताः। न्यग्रोधपरिणाहाश्च सिंहस्कन्धाः सुमेहनाः॥ गजेन्द्रगतयश्चैव महाहनव एव च॥ ७८ पादयोश्चक्रमत्स्यौ तु शङ्खपद्मौ तु हस्तयोः। पञ्चाशीतिसहस्राणि ते भवन्त्यजरा नृपाः॥ ७९ असङ्गा गतयस्तेषां चतस्रश्चक्रवर्तिनाम्। अन्तरिक्षे समुद्रे च पाताले पर्वतेषु च॥ ८० इज्या दानं तपः सत्यं त्रेतायां धर्म उच्यते। तदा प्रवर्तते धर्मो वर्णाश्रमविभागशः॥ ८१ मर्यादास्थापनार्थं च दण्डनीतिः प्रवर्तते। हृष्टपुष्टाः प्रजाः सर्वा ह्यरोगः पूर्णमानसाः॥ ८२ एको वेदश्चतुष्पादस्त्रेतायुगविधौ स्मृतः। त्रीणि वर्षसहस्राणि तदा जीवन्ति मानवाः॥ ८३ पुत्रपौत्रसमाकीर्णा म्रियन्ते च क्रमेण तु। एष त्रेतायुगे धर्मस्त्रेतासंधौ निबोधत॥ ८४ त्रेतायुगस्वभावस्तु संध्यापादेन वर्तते। संध्यायां वै स्वभावस्तु युगपादेन तिष्ठति॥ ८५
शांशपायन उवाच--
कथं त्रेतायुगमुखे यज्ञस्यऽसीत्प्रवर्तनम्। पूर्वे स्वायंभुवे सर्गे यथावत्तद्ब्रवीहि मे॥ ८६ अन्तर्हितायां संध्यायां सार्धं कृतयुगेन वै। कलारूपायां प्रवृत्तायां प्राप्ते त्रेतायुगे तदा॥ वर्णाश्रमव्यवस्थानं कृतवन्तश्च वै पुनः॥ ८७ संभारांस्तांश्च संभृत्य कथं यज्ञः प्रवर्तितः। एतच्छ्रुत्वाऽब्रवीत्सूतः श्रूयतां शांशपायन॥ ८८ यथा त्रेतायुगमुखे यज्ञस्याऽसीत्प्रवर्तनम्। ओषधीषु च जातासु प्रवृत्ते वृष्टिसर्जने॥ प्रतिष्ठितायां वार्तायां गृहाश्रमपुरेषु च॥ ८९ वर्णाश्रमव्यवस्थानं कृत्वा मन्त्रांश्च संहिताम्। मन्त्रान्संयोजयित्वाऽथ इहामुत्रेषु कर्मसु॥ ९० तथा विश्वभुगिन्द्रस्तु यज्ञं प्रावर्तयत्तदा। देवतैः सहितः सर्वैः सर्वसंभारसंभृतम्॥ ९१
* धनुश्चिह्नान्तर्गतग्रन्थः ग. पुस्तके नास्ति।
[अ० ५७ श्लो० ९२-११४] वायुपुराणम् । १९३
( यज्ञवर्णनम् : )
अथाश्वमेधे वितते समाजग्मुर्महर्षयः । यजन्ते पशुभिर्मेध्यैर्हुत्वा सर्वे समागताः ॥ ९२
कर्मव्यग्रेषु ऋत्विक्षु सतते यज्ञकर्मणि । संप्रगीतेषु तेष्वेवमागमेष्वथ सुस्वरम् ॥ ९३
परिक्रान्तेषु लघुषु अध्वर्युवृषभेषु च । आलब्धेषु च मेध्येषु तथा पशुगणेषु वै ॥ ९४
हविष्यग्नौ हूयमाने देवानां देवहोतृभिः । आहूतेषु च देवेषु यज्ञभाक्षु महात्मसु ॥ ९५
य इन्द्रियात्मका देवा यज्ञभाजस्तथा तु ये । तान्यजन्ते तदा देवाः कल्पादिषु भवन्ति ये ॥ ९६
अध्वर्यवः प्रैषकाले व्युत्थिता ये महर्षयः । महर्षयस्तु तान्दृष्ट्वा दीनान्पशुगणान्स्थितान् ॥
पप्रच्छुरिन्द्रं संभूय कोऽयं यज्ञविधिस्तव ॥ ९७
अधर्मो बलवानेष हिंसाधर्मेप्सया तव । नेष्टः पशुवधस्त्वेव तव यज्ञे सुरोत्तम ॥ ९८
अधर्मो धर्मघाताय प्रारब्धः पशुभिस्त्वया । नायं धर्मो ह्यधर्मोऽयं न हिंसा धर्म उच्यते ॥ ९९
आगमेन भवान्यज्ञं करोतु यदिहेच्छसि । विधिदृष्टेन यज्ञेन धर्ममव्ययहेतुना ॥ १००
यज्ञबीजैः सुरश्रेष्ठ येषु हिंसा न विद्यते ॥
त्रिवर्षपरमं कालमुषितैरप्ररोहिभिः । एष धर्मो महानिन्द्र स्वयंभुविहितः पुरा ॥ १०१
एवं विश्वभुगिन्द्रस्तु मुनिभिस्तत्त्वदर्शिभिः । जङ्गमैः स्थावरैर्वेति कैर्यष्टव्यमिहोच्यते ॥ १०२
ते तु खिन्ना विवादेन तत्त्वयुक्ता महर्षयः । संधाय वाक्यमिन्द्रेण पप्रच्छुश्चेश्वरं वसुम् ॥ १०३
ऋषय ऊचुः—
महाप्राज्ञ कथं दृष्टस्त्वया यज्ञविधिर्नृप । उत्तानपादे प्रब्रूहि संशयं छिन्धि न प्रभो ॥ १०४
• श्रुत्वा वाक्यं ततस्तेषामाविचार्य बलाबलम् । वेदशास्त्रमनुस्मृत्य यज्ञतत्त्वमुवाच ह ॥
यथोपदिष्टैर्यष्टव्यमिति होवाच पार्थिवः ॥ १०५
यष्टव्यं पशुभिर्मेध्यैरथ बीजैः फलैस्तथा । हिंसास्वभावो यज्ञस्य इति मे दर्शयत्यसौ ॥ १०६
यथेह संहितामन्त्रा हिंसालिङ्गा महर्षिभिः । दीर्घेण तपसा युक्तैर्दर्शनैस्तारकादिभिः ॥
तत्प्रामाण्यान्मया चोक्तं तस्मान्मा मन्तुमर्हथ ॥ १०७
यदि प्रमाणं तान्येव मन्त्रवाक्यानि (णि) च द्विजाः । तदा प्रवर्त्ततां यज्ञो ह्यन्यथा नोऽनृतं वचः ॥
एवं हतोत्तरास्ते वै युक्तात्मानस्तपोधनाः ॥ १०८
अधश्च भवनं दृष्ट्वा तमर्थं वाग्यतो भव । मिथ्यावादी नृपो यस्मात्प्रविवेश रसातलम् ॥ १०९
इत्युक्तमात्रे नृपतिः प्रविवेश रसातलम् । ऊर्ध्वचारी वसुर्भूत्वा रसातलचरोऽभवत् ॥ ११०
वसुधातलावासी तु तेन वाक्येन सोऽभवत् । धर्माणां संशयच्छेत्ता राजा वसुरथाऽऽगतः ॥ १११
तस्मान्न वाच्यमेकेन बहुज्ञेनापि संशयः । बहुद्वारस्य धर्मस्य सूक्ष्माद्दूरमुपागतिः ॥ ११२
तस्मान्न निश्चयाद्वक्तुं धर्मः शक्यस्तु केनचित् । देवानृषीनुपादाय स्वायंभुवमृते मनुम् ॥ ११३
तस्मान्न हिंसा धर्मस्य द्वारमुक्तं महर्षिभिः । ऋषिकोटिसहस्राणि कर्मभिः स्वैर्दिवं ययुः ॥ ११४
२५
१९४ श्रीमद्द्वैपायनमुनिप्रणीतम्- [अ० ५७-५८ श्लो० ११५-१२५-१-४] (चतुर्युगाख्यानम्ः)
तस्मान्न दानं यज्ञं वा प्रशंसन्ति महर्षयः। [ तुच्छं मूलं फलं शाकमुदपात्रं तपोधनाः॥
एवं दत्त्वा विभवतः स्वर्गलोके प्रतिष्ठिताः॥ ११५
अद्रोहश्चाप्यलोभश्च दमो भूतदया तपः ] । ब्रह्मचर्यं तथा सत्यमनुक्रोशः क्षमा धृतिः॥
सनातनस्य धर्मस्य मूलमेतद्दुरासदम् ॥ ११६
धर्ममन्त्रात्मको यज्ञस्तपश्चाज्ञानात्मकम् । यज्ञेन देवानाप्नोति वैराग्यं तपसा पुनः॥ ११७
ब्राह्मण्यं कर्मसंन्यासाद्वैराग्यात्प्रेक्षते लयम् । ज्ञानात्माप्नोति कैवल्यं पञ्चैता गतयः स्मृताः ॥ ११८
एवं विवादः सुमहाञ्जयस्याऽऽसीत्प्रवर्तने । ऋषीणां देवतानां च पूर्वं स्वायंभुवेऽन्तरे ॥ ११९
ततस्ते ऋषयो दृष्ट्वाऽद्भुतं वर्त्म बलेन तु । वसोर्वाक्यमनादृत्य जग्मुस्ते वै यथागताः॥ १२०
गतेषु देवसंघेषु देवा यज्ञमवाप्नुयुः । श्रूयन्ते हि तपःसिद्धा ब्रह्मक्षत्रमया नृपाः॥ १२१
प्रियव्रतोत्तानपादौ ध्रुवो मेधातिथिर्वसुः । सुमेधा विरजाश्चैव शङ्खपादज एव च॥
प्राचीनबर्हिः पर्जन्यो हविर्धानादयो नृपाः॥ १२२
एते चान्ये च बहवो नृपाः सिद्धा दिवं गताः। राजर्षयो महासत्त्वा येषां कीर्तिः प्रतिष्ठिता ॥ १२३
(*तस्माद्विशिष्यते यज्ञात्तपः सर्वेषु कारणैः। ब्रह्मणा तपसा सृष्टं जगद्विश्वमिदं पुरा॥) १२४
तस्मान्नात्येति तद्यज्ञस्तपोमूलमिदं स्मृतम् । यज्ञप्रवर्तनं ह्येवमतः स्वायंभुवेऽन्तरे ॥
ततः प्रभृति यज्ञोऽयं युगैः सह व्यवर्तत ॥ १२५
इति श्रीमहापुराणे वायुप्रोक्ते यज्ञप्रवर्तनं नाम सप्तपञ्चाशोऽध्यायः ॥ ५७ ॥
आदितः श्लोकानां समष्ट्यङ्काः-४५५७
अथाष्टपञ्चाशोऽध्यायः ।
चतुर्युगाख्यानम् ।
सूत उवाच—
अत ऊर्ध्वं प्रवक्ष्यामि द्वापरस्य विधिं पुनः। तत्र त्रेतायुगे क्षीणे द्वापरं प्रतिपद्यते ॥ १
द्वापरादौ प्रजानां तु सिद्धिस्त्रेतायुगे तु या । परिवृत्ते युगे तस्मिंस्ततः सा संप्रणश्यति ॥ २
ततः प्रवर्तते तासां प्रजानां द्वापरे पुनः । लोभोऽधृतिर्वाणिग्युद्धं तत्त्वानामाविनिश्चयः॥ ३
संभेदश्चैव वर्णानां कार्याणां च विनिर्णयः। याच्ञा वधः पणो दण्डो मदो दम्भोऽक्षमाऽबलम् ॥
एषां रजस्तमोयुक्ता प्रवृत्तिर्द्वापरे स्मृता ॥ ४
* धनुश्चिह्नान्तर्गतग्रन्थो ङ. पुस्तके नास्ति । + धनुश्चिह्नान्तर्गतग्रन्थो घ. पुस्तके नास्ति ।
[अ० ५८ श्लो ० ५-३०] वायुपुराणम् । १९५
(चतुर्युगाख्यानम् ) आद्ये कृते न धर्मोऽस्ति त्रेतायां संप्रपद्यते । द्वापरे व्याकुली भूत्वा प्रणश्यति कलौ युगे ॥ ५ वर्णानां विपरिध्वंसः संकीर्त्यते तथाऽऽश्रमः । द्वैधमुत्पद्यते चैव युगे तस्मिञ्छ्रुतौ स्मृतौ ॥ ६ द्वैधाच्छ्रुतेः स्मृतेश्चैव निश्चयो नाधिगम्यते । अनिश्चयाधिगमनाद्धर्मतत्त्वं न विद्यते ॥ धर्मतत्त्वे तु भिन्नानां मतिभेदो भवेन्नृणाम् ॥ ७ परस्परविभिन्नैस्तैर्दृष्टीनां विभ्रमेण च । अयं धर्मो ह्ययं नेति निश्चयो नाभिगम्यते ॥ ८ कारणानां च वैकल्यात्कारणस्याप्यनिश्चयात् । मतिभेदे च तेषां वै दृष्टीनां विभ्रमो भवेत् ॥ ९ ततो दृष्टिविभिन्नैस्तैः कृतं शास्त्रकुलं त्विदम् । एको वेदश्चतुष्पादस्त्रेतास्विह विधीयते ॥ १० संरोधादायुषश्चैव दृश्यते द्वापरेषु च । वेदव्यासैश्चतुर्धा तु व्यस्यते द्वापरादिषु ॥ ११ ऋषिपुत्रैः पुनर्वेदा भिद्यन्ते दृष्टिविभ्रमैः । मन्त्रब्राह्मणविन्यासैः स्वरवर्णादिपर्ययैः ॥ १२ संहिता ऋग्यजुःसाम्नां संहन्यन्ते श्रुतर्षिभिः । सामान्याद्वैकृताच्चैव दृष्टिभिन्नैः क्वचित्क्वचित् ॥ १३ ब्राह्मणं कल्पसूत्राणि मन्त्रप्रवचनानि च । अन्ये तु प्रहितास्तीर्थैः केाचित्तान्प्रत्यवस्थिताः ॥ १४ द्वापरेषु प्रवर्तन्ते भिन्नवृत्ताश्रमा द्विजाः । एकमाध्वर्यवं पूर्वमासीद्वैधं पुनस्ततः ॥ १५ सामान्याविपरीतार्थैः कृतं शास्त्रकुलं त्विदम् । आध्वर्यवस्य प्रस्तावैर्बहुधा व्याकुलं कृतम् ॥ १६ तथैवाथर्वऋक्साम्नां विकल्पैश्चाप्यसंख्ययाः । व्याकुलं द्वापरे भिन्नं क्रियते भिन्नदर्शनैः ॥ १७ तेषां भेदाः प्रभेदाश्च विकल्पैश्चाप्यसंख्ययाः । द्वापरे संप्रवर्तन्ते विनश्यन्ति पुनः कलौ ॥ १८ तेषां विपर्ययाश्चैव भवन्ति द्वापरे पुनः । अवृष्टिर्मरणं चैव तथैव व्याध्युपद्रवाः ॥ १९ वाङ्मनःकर्मजैर्दुःखैर्निर्वेदो जायते पुनः । निर्वेदाज्जायते तेषां दुःखमोक्षविचारणा ॥ २० विचारणाच्च वैराग्यं वैराग्याद्दोषदर्शनम् । दोषाणां दर्शनाच्चैव द्वापरे ज्ञानसंभवः ॥ २१ तेषां च मानिनां पूर्वमाद्ये स्वायंभुवेऽन्तरे । उत्पद्यन्ते हि शास्त्राणां द्वापरे परिपन्थिनः ॥ २२ आयुर्वेदविकल्पाश्च अङ्गानां ज्योतिषस्य च । अर्थशास्त्रविकल्पश्च हेतुशास्त्रविकल्पनम् ॥ २३ स्मृतिशास्त्रप्रभेदाश्च प्रस्थानानि पृथक्पृथक् । द्वापरेष्वभिवर्तन्ते मतिभेदास्तथा नृणाम् ॥ २४ मनसा कर्मणा वाचा कृच्छाद्वार्ता प्रसिध्यति । द्वापरे सर्वभूतानां कायक्लेशपुरस्कृता ॥ २५ लोभोऽधृतिर्विनिर्युद्धं तत्त्वानामनिश्चयः । वेदशास्त्रप्रणयने धर्माणां संकरस्तथा ॥ २६ द्वापरेषु प्रवर्तन्ते रागो लोभो वधस्तथा । वर्णाश्रमपरिध्वंसाः कामद्वेषौ तथैव च ॥ २७ पूर्णे वर्षसहस्रे द्वे परमायुस्तथा नृणाम् । निःशेषे द्वापरे तस्मिंस्तस्य संध्या तु पादतः ॥ २८ प्रतिष्ठते गुणैर्हीनो धर्मोऽसौ द्वापरस्य तु । तथैव संध्यापादेन अंशतस्त्यावतिष्ठते ॥ २९ द्वापरस्य च वर्षे या तिष्यस्य तु निबोधत । द्वापरस्यांशशेषे तु प्रतिपत्तिः कलेरतः ॥ ३०
१६६ श्रीमद्वैपायनमुनिप्रणीतम्- [अ० ५८ श्लो० ३१-५६] (चतुर्युगाख्यानम्)
हिंसाऽसूयाऽनृतं माया वधश्चैव तपस्विनाम् । एते स्वभावास्तिष्यस्य साधयन्ति च वै प्रजाः ॥ ३१
एष धर्मः कृतः कृत्स्नो धर्मश्च परिहीयते । मनसा कर्मणा स्तुत्या वार्ता सिध्यति वा नवा ॥ ३२
कलौ प्रमारको रोगः सततं क्षुद्रयानि वै । अनावृष्टिभयं घोरं देशानां च विपर्ययः ॥ ३३
न प्रमाणं स्मृतेरस्ति तिष्ये लोके युगे युगे । गर्भस्थो ध्रियते कश्चिद्यौवनस्थस्तथाऽपरः ॥
स्थाविरे मध्यकौमारे म्रियन्ते वै कलौ प्रजाः ॥ ३४
अधार्मिकास्त्वनाचारा मोहकोपाल्पतेजसः । अनृतंब्रुवाश्च सततं तिष्ये जायन्ति वै प्रजाः ॥ ३५
दुरिष्टैर्दुरधीतैश्च दुराचारैर्दुरागमैः । विप्राणां कर्मदोषैस्तैः प्रजानां जायते भयम् ॥ ३६
हिंसा माया तथेष्र्या च क्रोधोऽसूयाऽक्षमाऽनृतम् । तिष्ये भवन्ति जन्तूनां रागो लोभश्च सर्वशः ॥
संक्षोभो जायतेऽत्यर्थं कलिमासाद्य वै युगम् । नाधीयन्ते तदा वेदा न यजन्ते द्विजातयः ॥
उत्सीदन्ति नराश्चैव क्षत्रियाः सविशः क्रमात् ॥ ३८
शूद्राणामन्त्ययोनेस्तु संबन्धा ब्राह्मणैः सह । भवन्तीह कलौ तस्मिञ्शयनासनभोजनैः ॥ ३९
राजानः शूद्रभूयिष्ठाः पाषण्डानां प्रवर्तकाः । भ्रूणहत्याः प्रजास्तत्र प्रजा एवं प्रवर्तते ॥ ४०
आयुर्मेधा बलं रूपं कुलं चैव महीयते । शूद्राश्च ब्राह्मणाचाराः शूद्राचाराश्च ब्राह्मणाः ॥ ४१
राजवृत्ते स्थिताश्चौराश्चौरवृत्ताश्च पार्थिवाः । भृत्याश्च नष्टसुहृदो युगान्ते पर्युपस्थिते ॥ ४२
अशीलिन्योऽव्रताश्चापि स्त्रियो मद्यामिषप्रियाः । मायामात्रा भविष्यन्ति युगान्ते प्रत्युपस्थिते ॥ ४३
श्वापदप्रबलत्वं च गवां चैवाप्युपक्षयः । साधूनां विनिवृत्तिश्च विद्यात्तस्मिन्कलौ युगे ॥ ४४
तदा सूक्ष्मो महोदर्को दुर्लभो दानमूलवान् । चतुराश्रमशैथिल्याद्धर्मः प्रविचालिष्यति ॥ ४५
तदा स्वल्पफला देवी भवेद्भूमिर्महीयसी । शूद्रास्तपश्चरिष्यन्ति युगान्ते प्रत्युपस्थिते ॥ ४६
तदा ह्यैकाहिको धर्मो द्वापरे यश्च मासिकः । त्रेतायां वत्सरस्थश्च एकाहादतिरिच्यते ॥ ४७
अराक्षितारो हर्त्तारो बलिभागस्य पार्थिवाः । युगान्तेषु भविष्यन्ति स्वरक्षणपरायणाः ॥ ४८
अक्षत्रियाश्च राजानो विशः शूद्रोपजीविनः । शूद्राभिवादिनः सर्वे युगान्ते द्विजसत्तमाः ॥ ४९
यतयश्च भविष्यन्ति बहवोऽस्मिन्कलौ युगे । चित्रवर्षी तदा देवो यदा स्यात्तु युगक्षयः ॥ ५०
सर्वे वाणिजकाश्चापि भविष्यन्त्यधमे युगे । (* शूद्राश्च यतिनश्चैव गूढवासास्तपस्विनः ॥
लोलुपाः परदारेषु नष्टमार्गाः कलौ युगे ।) भूयिष्ठं कूटमानैश्च पुण्यं विक्रीयते जनैः ॥ ५१
कुशीलचर्या पाषण्डैर्वृथारूपैः समावृतम् । पुरुषालपं बहुस्त्रीकं युगान्ते पर्युपस्थिते ॥ ५२
बहुयाचनको लोको भविष्यति परस्परम् । क्रव्यादनः क्रूरवाक्योऽनार्जवो नानसूयकः ॥ ५३
न कृते प्रतिकर्ता च क्षीणो लोको भविष्यति । अशङ्का चैव पतिते तद्युगान्तस्य लक्षणम् ॥ ५४
नरशून्या वसुमती शून्या चैव भविष्यति । मण्डलानि भवन्त्यत्र देशेषु नगरेषु च ॥ ५५
अल्पोदका चाल्पफला भविष्यति वसुंधरा । गोपाराश्चाप्यगोपाराः प्रभाविष्यन्त्यशासनाः ॥ ५६
* नास्त्ययं श्लोकः क. ध. ड. पुस्तकेषु ।
[अ० ५८ श्लो० ५७--८२] वायुपुराणम् । १६७
(चतुर्युगाख्यानम्ः )
हर्तारः परत्नानां परदारमघर्षकाः । कामात्मानो दुरात्मानो ह्यधर्मात्साहसप्रियाः ॥ ५७
प्रनष्टचेतना पुंसो मुक्तकेशास्तु चूलिकाः । ऊनषोडशवर्षाश्च (÷प्रजायन्ते युगक्षये ॥ ५८
शुक्लदन्ता जिताक्षाश्च मुण्डाः काषायवाससः । शूद्रा धर्मं चरिष्यन्ति युगान्ते पर्युपस्थिते ॥ ५९
सस्यचौरा भविष्यन्ति तथा चैलाभिमर्शिनः । चौराश्चौरस्य हर्तारो हर्तुर्हतीर एव च ॥ ६०
ज्ञानकर्मण्युपरते लोके निष्क्रियतां गते । कीटमूषिकसर्पाश्च ) धर्षयिष्यन्ति मानवान् ॥ ६१
सुभिक्षं क्षेममारोग्यं सामर्थ्यं दुर्लभं भवेत् । कौशिकाः प्रतिवत्स्यन्ति देशान्क्षुद्भयपीडितान् ॥ ६२
दुःखनाभिप्लुतानां च परमायुः शतं भवेत् । दृश्यन्ते न च दृश्यन्तै वेदाः कलियुगेऽखिलाः ॥ ६३
उत्सीदन्ति तथा यज्ञाः केवला धर्मपीडिताः । कषायिणश्च निर्ग्रन्थास्तथा कापालिनश्च ह ॥ ६४
वेदविक्रयिणश्चान्ये तीर्थविक्रयिणोऽपरे । वर्णाश्रमाणां ये चान्ये पाषण्डाः पारपन्थिनः ॥ ६५
उत्पद्यन्ते तथा ते वै समाप्ते तु कलौ युगे । नाधीयन्ते तदा वेदाः शूद्रा धर्मार्थकोविदाः ॥ ६६
यजन्ते नाश्वमेधेन राजानः शूद्रयोनयः । स्त्रीवधं गोवधं कृत्वा हत्वा चैव परस्परम् ॥
उपहन्युस्तदाऽन्योन्यं साधयन्ति तथा प्रजाः ॥ ६७
दुःखप्रचारतोऽल्पायुर्देहोत्साहः सरोगता । मोहो ग्लानिस्तथा सौख्यं तमोधृतं कलौ स्मृतम् ॥ ६८
प्रजासु भ्रूणहत्या च अथ वै संप्रवर्तते । तस्मादायुर्बलं रूपं कालं प्राप्य प्रहीयते ॥
दुःखनाभिप्लुतानां वै परमायुः शतं नृणाम् ॥ ६९
दृश्यन्ते नाभिवृश्यन्ते वेदाः कलियुगेऽखिलाः । उत्सीदन्ते तदा यज्ञाः केवला धर्मपीडिताः ॥ ७०
तदा त्वल्पेन कालेन सिद्धिं यास्यन्ति मानवाः । धन्या धर्मं चरिष्यन्ति युगान्ते द्विजसत्तमाः ॥ ७१
श्रुतिस्मृत्यूदितं धर्मं ये चरन्त्यनसूयकाः । त्रेतायां वार्षिको धर्मो द्वापरे मासिकः स्मृतः ॥
यथाशक्ति चरन्प्राज्ञस्तदह्ना प्राप्नुयात्कलौ ॥ ७२
एषा कलियुगेऽवस्था संध्यांशं तु निबोध मे । युगे युगे तु हीयन्ते त्रिंस्त्रिनिपादांश्च सिद्धयः ॥ ७३
युगस्वभावात्संध्यास्तु तिष्ठन्तीमास्तु पादशः । संध्यास्वभावाच्चांशेषु पादशस्ते प्रतिष्ठिताः ॥ ७४
एवं संध्यांशके काले संप्राप्ते तु युगान्तिके । तेषां शास्ता ह्यसाधूनां भृगूणां निधनोत्थितः ॥ ७५
गोत्रेण वै चन्द्रमसो नाम्ना प्रमितिरुच्यते । माधवस्य तु सोऽशेन पूर्वं स्वायंभुवेऽन्तरे ॥ ७६
समाः स विंशतिं पूर्णाः पर्यटद्वै वसुंधराम् । आचकर्ष स वै सेनां सवाजिरथकुञ्जराम् ॥ ७७
प्रगृहीतायुधैर्विप्रैः शतशोऽथ सहस्रशः । स तदा तैः परिवृतो म्लेच्छान्हन्ति सहस्रशः ॥ ७८
स हत्वा सर्वगश्चैव राज्ञस्ताञ्शूद्रयोनिजान् । पाषण्डान्स ततः सर्वाञ्छेषान्कृतवान्प्रभुः ॥ ७९
नात्यर्थं धार्मिका ये च तान्सर्वान्हन्ति सर्वशः । वर्णव्यत्यासजातांश्च ये च तानुपजीविनः ॥ ८०
उदीच्यान्मध्यदेशांश्च पार्वतीयस्तथैव च । प्राच्यान्प्रतीच्यांश्च तथा विन्ध्यपृष्ठापरान्तिकान् ॥ ८१
तथैव दाक्षिणात्यांश्च द्रविडांन्सिंहलैः सह । गान्धारात्पारदांश्चैव पह्लवान्यवनांस्तथा ॥ ८२
÷ धनुश्चिह्नान्तर्गतग्रन्थो घ. पुस्तके नास्ति ।
१६८ श्रीमद्वैपायनमुनिप्रणीतम्— [अ०५८श्लो०८३-१०९] ( चतुर्युगाख्यानम्ः )
तुषारान्बर्बरांश्चीनाञ्शूलिकान्दरदान्खसान् । लम्पाकानथ केतांश्च किरातानां च जातयः ॥ ८३
प्रवृत्तचक्रो बलवानम्लेच्छानामन्तकृद्विभुः । अधृष्यः सर्वभूतानां चचाराथ वसुंधराम् ॥ ८४
माधवस्य तु सोंऽशेन देवस्य हि विजाज्ञिवान् । पूर्वजन्मविधिज्ञैश्च प्रमितिर्नाम वीर्यवान् ॥ ८५
गोत्रेण वै चन्द्रमसः पूर्वे कलियुगे प्रभुः । द्वात्रिंशेऽभ्युदिते वर्षे प्रक्रान्ते विंशतिं समाः ॥ ८६
विनिघ्नन्सर्वभूतानि मानवानि सहस्रशः । कृत्वा वीर्यावशेषा तु पृथ्वीं रूढेन कर्मणा ॥
परस्परनिमित्तेन कोपेनाऽऽकस्मिकेन तु ॥ ८७
स साधयित्वा वृषलान्प्रायशस्तानधार्मिकान् । गङ्गायमुनयोर्मध्ये निष्ठां प्राप्तः सहानुगः ॥ ८८
ततो व्यतीते तस्मिंस्तु अमात्ये सत्यसैनिके । उत्साद्य पार्थिवान्सर्वानम्लेच्छांश्चैव सहस्रशः ॥ ८९
तत्र संध्यांशके काले संप्राप्ते तु युगान्तिके । स्थितास्त्वल्पावशिष्टासु प्रजास्विह क्वचित्क्वचित् ॥ ९०
अप्रग्रहस्ततस्ता वै लोकचेष्टास्तु वृन्दशः । उपहिंसन्ति चान्योन्यं प्रपद्यन्ते परस्परम् ॥ ९१
अराजके युगशान्तसंशये समुपस्थिते । प्रजास्ताः वै ततः सर्वाः परस्परभयार्दिताः ॥ ९२
व्याकुलाश्च परिश्रान्तास्त्यक्त्वा दारान्गृहाणि चास्वान्प्राणान्समवेक्षन्तो निष्कारुण्याः सुदुःखिताः
नष्टे श्रौते स्मृते धर्मे परस्परहतास्तदा । निर्मर्यादा निराक्रन्दा निस्नेहा निरपत्रपाः ॥ ९४
नष्टे वर्षे प्रतिहता ह्रस्वकाः पञ्चविंशकाः । हित्वा दारांश्च पुत्रांश्च विषाद्व्याकुलेन्द्रियाः ॥ ९५
अनावृष्टिहताश्चैव वार्त्तामुत्सृज्य दुःखिताः । प्रत्यन्तांस्तान्निषेवन्ते हित्वा जनपदान्स्वकान् ॥ ९६
सरितः सागरानूपान्त्सेवन्ते पर्वतांस्तदा । मधुमांसैर्मूलफलैर्वर्तयन्ति सुदुःखिताः ॥ ९७
चीरवल्काजिनधरा निष्पत्रा निष्परिग्रहाः । वर्णाश्रमपरिभ्रष्टाः संकरं घोरमास्थिताः ॥ ९८
एतां काष्ठामनुप्राप्ता अल्पशेषाः प्रजास्तथा । जराव्याधिक्षुधाविष्टा दुःखान्निर्वेदमागमन् ॥ ९९
विचारणं तु निर्वेदात्साम्यावस्था विचारणात् । साम्यावस्थासु संबोधः संबोधाद्धर्मशीलता ॥ १००
तासपगमयुक्तासु कलिंशिष्टासु वै स्वयम् । अहोरात्रं तदा तासां युगं तु परिवर्तते ॥ १०१
चित्तसंमोहनं कृत्वा तासां तैः सक्षमं तु तत् । भाविनोऽर्थस्य च बलात्ततः कृतमवर्तत ॥ १०२
प्रवृत्ते तु पुनस्तस्मिंस्ततः कृतयुगे तु वै । उत्पन्नाः कलिंशिष्टास्तु कार्त्तयुग्यः प्रजास्तदा ॥ १०३
तिष्ठन्ति चेह ये सिद्धाः सुदृष्टा विचरन्ति च । सदा सप्तर्षयश्चैव तत्र ते च व्यवस्थिताः ॥ १०४
ब्रह्मक्षत्रविशः शूद्रा बीजार्थं ये स्मृता इह । कलिजैः सह ते सर्वे निर्विशेषास्तदाऽभवन् ॥ १०५
तेषां सप्तर्षयो धर्मं कथयन्तीतरेषु च । वर्णाश्रमाचारयुक्तः श्रौतः स्मार्तो द्विधा तु सः ॥ १०६
ततस्तेषु क्रियावत्सु वर्तन्ते वै प्रजाः कृते । श्रौतः स्मार्तः कृतानां तु धर्मः सप्तर्षिदर्शितः ॥ १०७
तासु धर्मव्यवस्थार्थं तिष्ठन्तीहाऽऽयुगक्षयात् । मन्वन्तराधिकारेषु तिष्ठन्ति मुनयस्तु वै ॥ १०८
यथा दावप्रदग्धेषु तृष्णेष्विह तपे ऋतौ । नवानां प्रथमं दृष्टास्तेषां मूले तु संभवः ॥ १०९
[अ०५८-५९श्लो०११०-१२६-१-२] वायुपुराणम् १९९
(ऋषिलक्षणम्)
* तथा कार्त्तयुगानां तु कलिङ्गेष्विह संभवः । एवं युगाद्युगस्येह संतानस्तु परस्परम् ॥
वर्तते ह्यव्यवच्छेदाद्यावन्मन्वन्तरक्षयः ॥ ११०
सखमायुर्बलं रूपं धर्मार्थौ काम एव च । युगेष्वेतानि हीयन्ते त्रीणि पादक्रमेण तु ॥ १११
ससंध्यांशेषु हीयन्ते युगानां धर्मसिद्धयः । इत्येष प्रतिसंधिर्वः कीर्तितस्तु मया द्विजाः ॥ ११२
चतुर्युगाना(णां) सर्वेषामेतेनैव प्रसाधनम् । एषां चतुर्युगावृत्तिरासहस्रात्प्रवर्तते ॥ ११३
ब्रह्मणस्तदहः प्रोक्तं रात्रिश्च तावती स्मृता । अत्राऽऽर्जवं जडीभावो भूतानामायुगक्षयात् ॥ ११४
एतदेव तु सर्वेषां युगानां लक्षणं स्मृतम् । एषां चतुर्युगानां (णां) तु गणना ह्येकसप्ततिः ॥
क्रमेण परिवृत्ता तु मनोरन्तरमुच्यते ॥ ११५
चतुर्युगे तथैकस्मिन्भवतीह यथाश्रुतम् । तथा चान्येषु भवति पुनस्तद्वै यथाक्रमम् ॥ ११६
सर्गे सर्गे यथा भेदा उत्पद्यन्ते तथैव तु । पञ्चविंशत्परिमिता न न्यूना नाधिकास्तथा ॥ ११७
तथा कल्पयुगैः सार्धं भवन्ति समलक्षणाः । मन्वन्तराणां सर्वेषामेतदेव तु लक्षणम् ॥ ११८
तथा युगानां परिवर्तनानि चिरप्रवृत्तानि युगस्वभावात् ।
तथा न संतिष्ठति जीवलोकः क्षयोदयाभ्यां परिवर्तमानः ॥ ११९
इत्येतल्लक्षणं प्रोक्तं युगानां वै समासतः । अतीतानतीतानां वै सर्वमन्वन्तरेष्विह ॥ १२०
अनागतेषु तद्वच्च तर्कः कार्यो विजानता । मन्वन्तरेषु सर्वेषु अतीतानागतेष्विह ॥ १२१
मन्वन्तरेण चैकेन सर्वाण्येवान्तराणि वै । व्याख्यातानि विजानीध्वं कल्पे कल्पेन चैव हि ॥ १२२
अस्याभिमानिनः सर्वे नामरूपैर्मवन्त्युत । देवा ह्यष्टविधा ये च इह मन्वन्तरेश्वराः ॥ १२३
ऋषयो मनवश्चैव सर्वे तुल्याः प्रयोजनैः । एवं वर्णाश्रमाणां तु प्रविभागे युगे युगे ॥ १२४
युगस्वभावाच्च तथा विधत्ते वै सदा प्रभुः । वर्णाश्रमविभागश्च युगानि युगसिद्धये ॥ १२५
अनुषङ्गः समाख्यातः सृष्टिसर्गं निबोधत । विस्तरेणाऽनुपूर्व्या च स्थितिं वक्ष्ये युगेष्विह ॥ १२६
इति श्रीमहापुराणे वायुप्रोक्ते चतुर्युगाख्यानं नामाष्टपञ्चाशोऽध्यायः ॥ ५८ ॥
आदितः श्लोकानां समष्ट्यङ्काः-- ४६८३
अथोनषष्ट्यध्यायः ।
ऋषिलक्षणम् ।
सूत उवाच—
युगेषु यास्तु जायन्ते प्रजास्ता वै निबोधत । आसुरी सर्पगोपक्षिपैशाची यक्षराक्षसी ॥
यास्मिन्युगे च संभूतिस्तासां यावत्तु जीवितम् ॥ १
पिशाचासुरगन्धर्वा यक्षराक्षसपन्नगाः । युगमात्रं तु जीवन्ति ऋते मृत्युं वधेन ते ॥ २
* इदमर्धं नास्ति ङ. पुस्तके ।
२०० श्रीमद्वैपायनमुनिप्रणीतम्- -[अ० ५९ श्लो० ३-२९] (ऋषिलक्षणम्)
मनुष्याणां पशूनां च पक्षिणां स्थावरैः सह । तेषामायुः परिक्रान्तं युगधर्मेषु सर्वशः ॥ ३
अस्थितिस्तु कलौ दृष्टा भूतानामायुषस्तु च । परमायुः शतं त्वेतन्मनुष्याणां कलौ स्मृतम् ॥ ४
देवासुरप्रमाणात्तु सप्तसप्ताङ्गुलं हसत् । अङ्गुलानां शतं पूर्णमष्टपञ्चाशदुत्तरम् ॥ ५
देवासुरप्रमाणं तदुच्छ्रायं कलिजैः स्मृतम् । चत्वारश्चाप्यशीतिश्च कलिजैरङ्गुलैः स्मृतम् ॥ ६
स्वेनाङ्गुलप्रमाणेण ऊर्ध्वमापादमस्तकम् । इत्येष मानुषोत्सेधो हसतहि युगान्तिके ॥ ७
सर्वेषु युगकालेषु अतीतानागतेष्विह । स्वेनाङ्गुलप्रमाणेण अष्टतालः स्मृतो नरः ॥ ८
आपादतो मस्तकं तु नवतालो भवेत्तु यः । संहताजानुबाहुस्तु स सुरैरपि पूज्यते ॥ ९
गवाश्वहस्तिनां चैव महिषस्थावरात्मनाम् । क्रमेणैतेन योगेन हासवृद्धी युगे युगे ॥ १०
षट्सप्तत्यङ्गुलोत्सेधः पशूनां ककुदस्तु वै । अङ्गुलाष्टशतं पूर्णमुत्सेधः कारिणां स्मृतः ॥ ११
अङ्गुलानां सहस्रं चत्वारिंशाङ्गुलं विना । पञ्चाशतं हयानां च उत्सेधः शाखिनां स्मृतः ॥ १२
मानुषस्य शरीरस्य संनिवेशस्तु यादृशः । तल्लक्षणस्तु देवानां पक्षिणां दृश्यते तत्त्वदर्शनात् ॥ १३
बुद्ध्याऽतिशययुक्तं च देवानां कायमुच्यते । देवानातिशयं चैव मानुषं कायमुच्यते ॥ १४
इत्येते वै परिक्रान्ता भावा ये दिव्यमानुषाः । पशूनां पक्षिणां चैव स्थावराणां निबोधत ॥ १५
गावो ह्यजा महिष्योऽश्वा हस्तिनः पक्षिणो नगाः । उपयुक्ताः क्रियास्वेते यज्ञियास्विह सर्वशः ॥ १६
देवस्थानेषु जायन्ते तद्रूपा एव ते पुनः । यथाशयोपभोगास्तु देवानां शुभमूर्तयः ॥ १७
तेषां रूपानुरूपैस्तैः प्रमाणैः स्थाणुजङ्गमैः । मनोज्ञैस्तत्त्वभावज्ञैः सुखिनो ह्युपपेदिरे ॥ १८
अतः शिष्टान्मवक्ष्यामि सतः साधूंस्तथैव च । सदिति ब्रह्मणः शब्दस्तद्वन्तो ये भवन्त्युत ॥
सायुज्यं ब्रह्मणोऽत्यन्तं तेन सन्तः प्रचक्षते ॥ १९
दशात्मके ये विषये कारणे चाष्टलक्षणे । न क्रुध्यन्ति न हृष्यन्ति जितात्मानस्तु ते स्मृताः ॥ २०
सामान्येषु च धर्मेषु तथा वैशेषिकेषु च । ब्रह्मक्षत्रविशो युक्ता यस्मात्तस्माद्द्विजातयः ॥ २१
वर्णाश्रमेषु युक्तस्य स्वर्गगोमुखचारिणः । श्रौतस्मार्तस्य धर्मस्य ज्ञानाद्धर्मः स उच्यते ॥ २२
विद्यायाः साधनात्साधुर्ब्रह्मचारी गुरोर्हितः । क्रियाणां साधनाच्चैव गृहस्थः साधुरुच्यते ॥ २३
साधनातपसोऽरण्ये साधुर्वैखानसः स्मृतः । यतमानो यतिः साधुः स्मृतो योगस्य साधनात् ॥ २४
एवमाश्रमधर्माणां साधनात्साधवः स्मृता । गृहस्थो ब्रह्मचारी च वानप्रस्थोऽथ भिक्षुकः ॥ २५
न च देवा न पितरो मुनयो न च मानवाः । अयं धर्मो ह्ययं नेति ब्रुवते भिन्नदर्शनाः ॥ २६
धर्माधर्माविह प्रोक्तौ शब्दावेतौ क्रियात्मकौ । कुशलाकुशलं कर्म धर्माधर्माविति स्मृतौ ॥ २७
[+ धारणा धृतिरित्यार्थाद्धातोर्धर्मः प्रकीर्तितः । अधारणेऽमहत्त्वे च अधर्म इति चोच्यते ॥ २८
अत्रेष्टमापको धर्म आचार्यैरुपदिश्यते ] वृद्धा ह्यलोलुपाश्चैव आत्मवन्तो ह्यदम्भकाः ॥
सम्यग्विनीता ऋजवस्तानाचार्यान्प्रचक्षते ॥ २९
+ धनुश्चिह्नान्तरग्रन्थो ग पुस्तके नास्ति ।
मन्वन्तरस्यातितस्य स्मृताऽऽचारं पुनर्जगौ । तस्मात्स्मार्तः स्मृतो धर्मो वर्णाश्रमविभागजः ॥ ३२
[अ० ५९ श्लो० ३०-५४] वायुपुराणम् । २०१
(ऋषिलक्षणम्:)
स्वयमाचरते यस्मादाचारं स्थापयत्यपि । आचिनोति च शास्त्रार्थानियमैः संनियमैर्युतः ॥ ३०
पूर्वेभ्यो वेद्यित्वेह श्रौतं सप्तर्षयोऽब्रुवन् । ऋचो यजूंषि सामानि ब्रह्मणोऽङ्गानि च श्रुतिः ॥ ३१
मन्वन्तरस्यातितस्य स्मृताऽऽचारं पुनर्जगौ । तस्मात्स्मार्तः स्मृतो धर्मो वर्णाश्रमविभागजः ॥ ३२
स एष द्विविधो धर्मः शिष्टाचार इहोच्यते । शेषशब्दाच्छिष्ट इति शिष्टाचारः प्रचक्ष्यते ॥ ३३
मन्वन्तरेषु ये शिष्टा इह तिष्ठन्ति धार्मिकाः । मनुः सप्तर्षयश्चैव लोकसंतानकारणात् ॥
धर्मार्थं ये च शिष्टा वै याथातथ्यं प्रचक्षते ॥ ३४
मन्वादयश्च ये शिष्टा ये मया प्रागुदीरिताः । तैः शिष्टैश्चरितो धर्मः सम्यगेव युगे युगे ॥ ३५
त्रयी वार्ता दण्डनीतिरिज्या वर्णाश्रमस्तथा । शिष्टैराचार्यते यस्मान्मनुना च पुनः पुनः ॥
पूर्वैः पूर्वगतत्वाच्च शिष्टाचारः स शाश्वतः ॥ ३६
दानं सत्यं तपोऽलोभो विद्येज्याप्रजनौ दया । अष्टौ तानि चरित्राणि शिष्टाचारस्य लक्षणम् ॥ ३७
शिष्टा यस्माच्चरन्त्येनं मनुः सप्तर्षयश्च वै । मन्वन्तरेषु सर्वेषु शिष्टाचारस्ततः स्मृतः ॥ ३८
विज्ञेयः श्रवणाम्छ्रौतः स्मरणात्स्मार्त उच्यते । इज्यावेदात्मकः श्रौतः स्मार्तो वर्णाश्रमात्मकः ३९
प्रत्यङ्गानि च वक्ष्यामि धर्मस्येह तु लक्षणम् ॥ ४०
दृष्ट्वा प्रभूतमर्थं यः पृष्टो वै न निगूहति । यथा भूतप्रवादस्तु इत्येतत्सत्यलक्षणम् ॥ ४१
ब्रह्मचर्यं जपो मौनं निराहारत्वमेव च । इत्येतत्तपसो मूलं सुघोरं तद्दुरासदम् ॥ ४२
पशूनां द्रव्यहविषामृक्सामयजुषां तथा । ऋत्विजां दक्षिणानां च संयोगो यज्ञ उच्यते ॥ ४३
आत्मवत्सर्वभूतेषु या हितायाहिताय च । समा प्रवर्तते दृष्टिः कृत्स्ना ह्येषा दया स्मृता ॥ ४४
आक्रुष्टोऽभिहतो वाऽपि नाऽऽक्रोशेद्यो न हन्ति वा । वाङ्मनःकर्मभिः क्षान्तिस्तितिक्षैषा क्षमा स्मृता ॥ ४५
स्वामिनाऽरक्ष्यमाणानामुत्सृष्टानां च सत्सु च । परस्वानामनादानमलोभ इह कीर्त्यते ॥ ४६
मैथुनस्यासमाचारो ह्यचिन्तनमकल्पनम् । निवृत्तिर्ब्रह्मचर्यं तदाच्छिद्रं दम उच्यते ॥ ४७
आत्मार्थं वा परार्थं वा इन्द्रियाणीह यस्य वै । न मिथ्या संप्रवर्तन्ते शमस्यैतत्तु लक्षणम् ॥ ४८
दशात्मके यो विषये कारणे चाष्टलक्षणे । न क्रुध्येत्तु प्रतिहतः स जितात्मा विभाव्यते ॥ ४९
यद्यदिष्टतमं द्रव्यं न्यायेनोपागतं च यत् । तत्तद्गुणवते देयमित्येतद्दानलक्षणम् ॥
दानं त्रिविधमित्येतत्कनिष्ठज्येष्ठमध्यमम् । तत्र नैःश्रेयसं ज्येष्ठं कनिष्ठं स्वार्थसिद्धये ॥
कारुण्यात्सर्वभूतेभ्यः सुविभागस्तु बन्धुषु ॥ ५०
श्रुतिस्मृतिभ्यां विहितो धर्मो वर्णाश्रमात्मकः । शिष्टाचाराविरुद्धश्च धर्मः सत्साधुसङ्गतः ॥ ५१
अपद्वेषो ह्यनिष्टेषु तथेष्टानभिनन्दनम् । प्रीतितापविषादेभ्यो विनिवृत्तिर्विरक्तता ॥ ५२
संन्यासः कर्मणो न्यासः कृतानामकृतैः सह । कुशलाकुशलानां च प्रहाणं त्याग उच्यते ॥ ५३
अव्यक्ताद्योऽविशेषाच्च विकाराऽस्मिन्नचेतने । चेतनाऽचेतनान्यत्वविज्ञानं ज्ञानमुच्यते ॥ ॥ ५४
२६
२०२ श्रीमद्द्वैपायनमुनिप्रणीतम्— [अ०५९–श्लो० ५५–७७] (ऋषिलक्षणम् )
प्रत्यङ्गानां तु धर्मस्य इत्येतल्लक्षणं स्मृतम् । ऋषिभिर्धर्मतत्त्वज्ञैः पूर्वे स्वायंभुवेऽन्तरे ॥ ५५
अत्र वो वर्तयिष्यामि विधिर्मन्वन्तरस्य यः । इतरेतरवर्णस्य च तुर्वर्णस्य चैव हि ॥
प्रतिमन्वन्तरं चैव श्रुतिरन्या विधीयते ॥ ५६
ऋचो यजूंषि सामानि यथावत्प्रतिदैवतम् । आभूतसंप्लवस्थायि वर्ज्यैकं शतरुद्रियम् ॥ ५७
विधिर्होत्रं तथा स्तोत्रं पूर्ववत्संप्रवर्तते । द्रव्यं स्तोत्रं गुणस्तोत्रं कर्मस्तोत्रं तथैव च ॥
चतुर्थमाभिजनिकं स्तोत्रमेतच्चतुर्विधम् ॥ ५८
मन्वन्तरेषु सर्वेषु यथा देवा भवन्ति ये । प्रवर्तयति तेषां वै ब्रह्मा स्तोत्रं चतुर्विधम् ॥
एवं मन्त्रगुणानां च समुत्पत्तिश्चतुर्विधा ॥ ५९
अथर्वयजुषां साम्नां वेदेष्विह पृथक्पृथक् । ऋषीणां तप्यतामुग्रं तपः परमदुश्चरम् ॥ ६०
मन्त्राः प्रादुर्बभूवुर्हि पूर्वमन्वन्तरेष्विह । परितोषाद्भयाद्वाद्दुःखात्सुखाच्छोकाच्च पञ्चधा ॥ ६१
ऋषीणां तपः कात्स्न्र्येन दर्शनेन यदृच्छया । ऋषीणां यदृषित्वं दि तद्वक्ष्यामीह लक्षणैः ॥ ६२
अतीतानागतानां तु पञ्चधा ऋषिरुच्यते । अतस्त्वृषीणां वक्ष्यामि ह्यार्षस्य स समुद्भवम् ॥ ६३
गुणसाम्ये वर्तमाने सर्वसंप्लये तदा । अतिचारे तु देवानामविद्देशे तयोर्यथा ॥ ६४
अबुद्धिपूर्वकं तद्वै चेतनार्थं प्रवर्तते । तेन ह्यबुद्धिपूर्वं तच्चेतनेन ह्यधिष्ठितम् ॥ ६५
वर्तने च यथा तौ तु यथा मत्स्योदके उभौ । चेतनाधिष्ठिते तत्त्वं प्रवर्तति गुणात्मना ॥ ६६
कारणत्वात्तथा कार्यं तदा तस्य प्रवर्तते । विषयं विषयित्वाच्च ह्यर्थेऽर्थित्वात्तथैव च ॥ ६७
कालेन पापणीयेन भेदास्तु कारणात्मकाः । संसिध्यन्ति तदा व्यक्ताः क्रमेण महदादयः ॥ ६८
महतश्चाप्यहंकारस्तस्माद्भूतेन्द्रियाणि च । भूतभेदास्तु भेदेभ्यो जज्ञिरे ते परस्परम् ॥
सांसिद्धिकारणं कार्यं सद्य एव विवर्तते ॥ ६९
यथोलमुकस्फुटदूर्ध्वमेककालं प्रवर्तते । तथा विवृत्तः क्षेत्रज्ञः कालेनैकेन कर्मणा ॥ ७०
यथान्धकारे खद्योतः सहसा संप्रदृश्यते । तथा विवृत्तो ह्यव्यक्तात्खद्योत इव चालवणः ७१
स महान्सशरीरस्तु यत्रैवाग्रे व्यवस्थितः । तत्रैव संस्थितो विद्वान्द्वारशालामुखे स्थितः ॥ ७२
महांस्तु तमसः पारे वैलक्षण्याद्विभाष्यते । तत्रैव संस्थितो विद्वांस्तमसाऽन्त इति श्रुतिः ॥ ७३
बुद्धिविर्वर्तमानस्य प्रादुर्भूता चतुर्विधा । ज्ञानं वैराग्यमैश्वर्यं धर्मश्चेति चतुष्टयम् ॥ ७४
सांसिद्धिकान्यथैतानि सुप्रतीकानि तस्य वै । महतः सशरीरस्य वैवत्यात्सिद्धिरुच्यते ॥ ७५
अत्र शेते च यत्पुर्यां क्षेत्रज्ञानमथापि वा । पुरीशत्वाच्च पुरुषः क्षेत्रज्ञानात्समुच्यते ॥ ७६
क्षेत्रज्ञः क्षेत्रविज्ञानाद्भगवान्मतिरुच्यते । यस्माद्बुबुद्धाऽनु शेते ह तस्माद्बोधात्मकः स वै ॥
संसिद्धये परिगतं व्यक्ताव्यक्तमचेतनम् ॥ ७७