वायु पुराण
Vayu Purana
महर्षि वेदव्यास / अनुवादक: पं० तारिणीश झा द्वारा
स्रोत: हिन्दी साहित्य सम्मेलन, प्रयाग · हिन्दी साहित्य सम्मेलन, प्रयाग (उद्गम)
पृष्ठ 321, कुल 465 में से
संदर्भ में पढ़ें३१२ श्रीमद्वैपायनमुनिप्रणीतम्- [अ०८६श्लो०१०-३५]
( वैवस्वतमन्वंशानुगान्धर्वमूर्च्छनाकथनम् )
विवादोऽत्र महानासीत्संवर्तस्य बृहस्पतेः । ऋद्धिं दृष्ट्वा तु यज्ञस्य क्रुद्धस्तस्य बृहस्पतिः ॥ १०
संवर्तेन हते यज्ञे चुकोप सुभृशं तदा । लोकानां स हि नाशाय दैवतैर्हि प्रसादितः ॥ ११
मनूत्तश्चक्रवर्ती स नरिष्यन्तमवाप्तवान् । नरिष्यन्तस्य दायादो राजा दण्डधरो दमः ॥ १२
तस्य पुत्रस्तु विक्रान्तो राजाऽऽसीद्राष्ट्रवर्धनः । सुधृती तस्य पुत्रस्तु नरः सुधृतिनः सुतः ॥ १३
केवलस्तस्य पुत्रस्तु बन्धुमान्केवलात्मजः । अथ बन्धुमतः पुत्रो धर्मात्मा वेगवान्नृपः ॥ १४
बुधो वेगवतः पुत्रस्तृणबिन्दुर्वुधात्मजः । त्रेतायुगमुखे राजा तृतीये संबभूव ह ॥ १५
कन्या तु तस्य द्रविडा माता विश्ववसो हि सा । पुत्रश्चास्य विशालोऽभूद्राजा परमधार्मिकः ॥ १६
विशालात्स्य समुत्पन्ना विशाला येन निर्मिता । विशालस्य सुतो राजा हेमचन्द्रो महाबलः ॥ १७
सुचन्द्र इति विख्यातो हेमचन्द्रादनन्तरम् । सुचन्द्रतनयो राजा धूम्राश्व इति विश्रुतः ॥ १८
धूम्राश्वतनयो विद्वान्सृञ्जयः समपद्यत । सृञ्जयस्य सुतः श्रीमान्सहदेवः प्रतापवान् ॥ १९
कृशाश्वः सहदेवस्य पुत्रः परमाधार्मिकः । कृशाश्वस्य महातेजाः सोमदत्तः प्रतापवान् ॥ २०
सोमदत्तस्य राजर्षेः सुतोऽभूज्जनमेजयः । जनमेजयात्मजश्चैव प्रमतिर्नाम विश्रुतः ॥ २१
तृणबिन्दुप्रसादेन सर्वे वैशालका नृपाः । दीर्घायुषो महात्मानो वीर्यवन्तः सुधार्मिकाः ॥ २२
शर्यातेर्मिथुनं त्वासीदानार्तो नाम विश्रुतः । पुत्रः सुकन्या कन्या च भार्या या च्यवनस्य तु ॥ २३
आनर्तस्य तु दायादो रेवो नाम्ना तु वीर्यवान् । अनार्तो विषयो यस्य पुरी चापि कुशस्थली ॥
रेवस्य रैवतः पुत्रः ककुद्मी नाम धार्मिकः । ज्येष्ठो भ्रातृशतस्याऽऽसीद्राजा प्राप्य कुशस्थलीम् ॥
कन्यया सह श्रुत्वा च गान्धर्वं ब्रह्मणोऽन्तिके । मुहूर्तं देवदेवस्य मर्त्यं बहुयुगं विभोः ॥ २६
आजगाम युवा चैव स्वां पुरीं यादवैर्वृताम् । कृतां द्वारवतीं नाम बहुद्वारां मनोरमाम् ॥ २७
भोजवृष्ण्यन्धकैर्गुप्तां वसुदेवपुरोगमैः । तां कथां रैवतः श्रुत्वा यथातत्त्वमरिंदमः ॥* २८
+ कन्यां तु बलदेवाय सुव्रतां नाम रेवतीम् । दत्त्वा जगाम शिखरं मेरोस्तपसि संस्थितः ॥ २९
रेमे रामश्च धर्मात्मा रेवत्या सहितः किल । तां कथामृषयः श्रुत्वा पप्रच्छुस्तदनन्तरम् ॥ ३०
ऋषय ऊचुः--
कथं बहुयुगे काले व्यतीते सूतनन्दन । न जरां रेवती प्राप्ता पलितं च कुतः प्रभो ॥ ३१
मेरुं गतस्य वा तस्य शर्यातेः संततिः कथम् । स्थिता पृथिव्यामद्यापि श्रोतुमिच्छामि तत्त्वतः ॥ ३२
कियन्तो वा सुरगणा गन्धर्वास्तत्र कीदृशाः । यच्छ्रुत्वा रैवतः कालान्मुहूर्तमिव मन्यते ॥ ३३
सूत उवाच--
न जरा क्षुत्पिपासा वा न च मृत्युभयं ततः । न च रोगः प्रभवति ब्रह्मलोकगतस्य हि ॥ ३४
गान्धर्वं प्रति यच्चापि पृष्टस्तु मुनिसत्तमाः । ततोऽहं संप्रवक्ष्यामि याथातथ्येन सुव्रताः ॥ ३५
* अत्रैवाध्यायसमाप्तिः ख. घ. पुस्तकयोः । + कन्यां तु बलदेवाय इत्यारभ्य सप्ताशीतितमाध्यायस्यसप्तसप्तस्वरं तु य इत्यन्तग्रन्थः ख. घ. पुस्तकयोर्नास्ति ।