भारतकोश
वायु पुराण

वायु पुराण

Vayu Purana

महर्षि वेदव्यास / अनुवादक: पं० तारिणीश झा द्वारा

स्रोत: हिन्दी साहित्य सम्मेलन, प्रयाग · हिन्दी साहित्य सम्मेलन, प्रयाग (उद्गम)

DevanagariHindipublished465 पृष्ठ

पृष्ठ 415, कुल 465 में से

संदर्भ में पढ़ें
पृष्ठ 415

४०६ श्रीमद्वैपायनमुनिप्रणीतम्— [अ० १० । श्लो० १७५-१९८] ( भूर्लोकादिव्यवस्थावर्णनम् )

उपरिष्टात्थितो घोर उष्णआत्मा रौरवो महान् । सुदारुणस्तु शीतात्मा तस्याधस्तात्तपः स्मृतः ॥ एवमादिक्रमेणैव वर्ण्यमानान्निबोधत । भूमेरधस्तात्सप्तैव नरकाः परिकीर्तिताः ॥ १७६ अधर्मसूनवस्ते स्युरन्धतामिस्रकादयः । रौरवः प्रथमस्तेषां महारौरव एव च ॥ १७७ अस्याधः पुनरप्यन्यः शीतस्तप इति स्मृतः । तृतीयः कालसूत्रः स्यान्महाहविर्विधिः स्मृतः ॥ १७८ अप्रतिष्ठश्चतुर्थः स्यादवीची पञ्चमः स्मृतः । लोहपृष्ठस्तमस्तेषामाविधेयस्तु सप्तमः ॥ १७९ घोरत्वाद्रौरवः प्रोक्तः साम्भको दहनः स्मृतः । सुदारुणस्तु शीतात्मा तस्याधस्तात्तमोऽधमः ॥ १८० सर्पो निकृन्तनः प्रोक्तः कालसूत्रोऽतिदारुणः । थप्रतिष्ठे स्थितिर्नास्ति भ्रमस्तस्मिन्सुदारुणः ॥ १८१ अवीचिर्दारुणः प्रोक्तो यन्त्रसंपीडनाच्च सः । तस्मात्सुदारुणो लोहः कर्मणां क्षयणाच्च सः ॥ १८२ तथाभूते (त) शरीरत्वादविवै (वि)भ्यस्तु स स्मृतः । पीडाबन्धवधासङ्गादप्रतीकारलक्षणः ॥ १८३ ऊर्ध्वं शैलाभितास्ते तु निरालोकाश्च ते स्मृताः । दुःखोत्कर्षस्तु सर्वेषु अधर्मस्य निमित्ततः * ऊर्ध्वं लोकैः समावेतौ निरालोकौ च तावुभौ । कूटाङ्गारप्रमाणैश्च शरीरी सूत्रनायकाः ॥ १८४ उपभोगसमर्थैस्तु सद्यो जायन्ति कर्मभिः । दुःखमकर्षश्चोग्रस्तु तेषु सर्वेषु वै स्मृतः ॥ १८५ यातनाश्चाप्यसंख्येया नारकाणां तथा स्मृताः । तत्रानुभूय ते दुःखं क्षीणे कर्मणि वै पुनः ॥ १८६ तिर्यग्योनौ प्रसूयन्ते कर्मशेषे गते ततः । देवाश्च नारकाश्चैव ऊर्ध्वं चाधश्च संस्थिताः ॥ १८७ धर्माधर्मनिमित्तेन सद्यो जायन्ति मूर्तयः । उपभोगार्थमुत्पत्तिरौपपत्तिककर्मतः ॥ १८८ पश्यन्ति नारकान्देवा ह्यधोवक्त्रानधोगतान् । नारकाश्च तथा देवान्सर्वान्पश्यन्त्यधोमुखान् ॥ १८९ अग्रमूलता यस्माद्धारणाश्च स्वभावतः । तस्मादूर्ध्वमधोभावो लोकालोके न विद्यते ॥ १९० एषा स्वाभाविक़ी संज्ञा लोकालोके प्रवर्तते । अथाब्रुवन्पुनर्वायं ब्राह्मणाः सत्रिणस्तदा ॥ १९१

ऋषय ऊचुः— सर्वेषामेव भूतानां लोकालोकनिवासिनाम् । संसारे संसरन्तीहयावन्तः प्राणिनश्च तान् ॥ १९२ संख्यया परिसंख्याय ततः प्रब्रूहि कृत्स्नशः । ऋषीणां तद्वचः श्रुत्वा मारुतो वाक्यमब्रवीत् ॥ १९३

वायुरुवाच— न शक्या जन्तवः कृत्स्नाः प्रसंख्यातुं कथंचन । अनाद्यन्ताश्च संकीर्णा ह्यव्यूहेन व्यवस्थिताः ॥ गणना विनिवृत्तैषामानन्त्येन प्रकीर्तिताः ॥ १९५ न दिव्यचक्षुषा ज्ञातुं शक्या ज्ञानेन वा पुनः । चक्षुषा वै प्रसंख्यातुमितो ह्यन्ते नराधिपाः ॥ १९६ अनाव्यानादवेद्यत्वान्नैव प्रश्नो विधीयते । ब्रह्मणो संज्ञितं यत्तु संख्यया तन्निबोधत ॥ १९७ यः सहस्रतमो भागः स्थावराणां भवेदिह । पार्थिवाः क्रिमयस्तावत्संसेकाद्येषु संभवः ॥ १९८


* अत्र ख व पुस्तकोरधिकमर्धं वर्तते तद्यथा सुखोत्कर्षः स्मृतः सर्वे धर्मस्य हिः निमित्ततः । तथा ङ. पुस्तकेऽपि ‘दुःखोत्कर्षः स्मृतः सर्वे धर्मस्य हि निमित्ततः। इति।