भारतकोश
वेद स्वरूप विमर्श (स्वामी करपात्री जी महाराज - अपौरुषेय वेद-प्रामाण्य एवं वैदिक समन्वय)

वेद स्वरूप विमर्श (स्वामी करपात्री जी महाराज - अपौरुषेय वेद-प्रामाण्य एवं वैदिक समन्वय)

Veda Swaroop Vimarsha of Swami Karpatri Maharaj

धर्मसम्राट् स्वामी करपात्री जी महाराज द्वारा

DevanagariHindipublished237 पृष्ठ

पृष्ठ 10, कुल 237 में से

संदर्भ में पढ़ें
पृष्ठ 10

( १२ ) तेषामनितरसधारणगोष्ठीस्मरणपरिणामो ब्राह्मणम् । लिपि- निबद्धत्वं तु मन्त्राणां ब्राह्मणानाञ्च नासीदिति कश्चन काल एतादृश एव । सर्वेऽपि विषयाः श्रवणेनैवावधार्यन्ते स्म । ब्रह्मचर्ये चिरकालस्थि- तानां तेषां महीयसी खलु स्मरणशक्तिः अतएव श्रुतिरिरति नामान्तरं संहिताब्राह्मणयोस्सङ्गच्छते । एतेन कल्पसूत्राधिकरणे पूर्वपक्षस्सहेतु- कसिद्धो भवति । अनेन यथा विमृश्यमाने नून प्राचीनपरम्परासिद्ध वस्तु निर्गलित स्यात् । किञ्च पूर्वोत्तरमीमांसे वेदवाक्यार्थनिर्णयायैव सम्प्रवृत्ते इति जगत्प्रसिद्धमिदम् । महर्षिणा जैमिनिना व्यासाचार्येण वा यानि सूत्राणि सन्दृब्धानि तानि वेदवाक्यगर्भीतानि इति तच्छास्त्रविदो जानन्ति । तत्र पूर्वमीमांसायां प्रायोऽधिकरणेषु विधिवाक्यान्यर्थवादवाक्यान्ये- वोदाहृत्य विचारः प्रवर्त

वेद स्वरूप विमर्श (स्वामी करपात्री जी महाराज - अपौरुषेय वेद-प्रामाण्य एवं वैदिक समन्वय) · पृष्ठ 10, कुल 237 में से · BharatKosha