वेद स्वरूप विमर्श (स्वामी करपात्री जी महाराज - अपौरुषेय वेद-प्रामाण्य एवं वैदिक समन्वय)
Veda Swaroop Vimarsha of Swami Karpatri Maharaj
धर्मसम्राट् स्वामी करपात्री जी महाराज द्वारा
पृष्ठ 124, कुल 237 में से
संदर्भ में पढ़ें२२४ वेदस्वरूप-विमर्शः काग्निरूपस्य आदित्यस्य प्रस्तावः । इदमेवाभिप्रेत्य 'ऋग्वेद एवाग्ने- रजायत यजुर्वेदो वायोः सामवेद आदित्यात्' इति ब्राह्मणश्रुतौ अग्न्या- दिभ्य ऋग्वेदादीनामुत्पत्तिराम्नाता, विषयस्य ज्ञानकारणतया निरुढ- त्वात् । यद्यस्त्यग्निः ततः एव ऋग्वेदो जायते । न भवेच्चेन्न कं वर्णयितुमृग्वेदः प्रवर्तेतेति तस्य कारणत्वमुपपादयति । अयमेवाभि- प्रायो इति मनुनाऽपि शब्दान्तरैरुपदिष्टः । यथा— 'अग्निवायुरविभ्यस्तु त्रयं ब्रह्म सनातनम् । दुदोह यज्ञसिद्ध्यर्थमृग्यजुःसामलक्षणम् ॥' इति । परमशेषशेमुषीसम्पन्नैः विद्वत्प्रवरै रचितासु मनुस्मृतिटीकासु नैकत्राप्यस्यार्थस्य स्पष्टीकरणमुपलभामहे । 'पूर्वोक्ता श्रुतिरपि प्रायेण सर्वैः समुद्धृता । अग्न्यादिभ्यश्च कथं वेदानाम्