वेद स्वरूप विमर्श (स्वामी करपात्री जी महाराज - अपौरुषेय वेद-प्रामाण्य एवं वैदिक समन्वय)
Veda Swaroop Vimarsha of Swami Karpatri Maharaj
धर्मसम्राट् स्वामी करपात्री जी महाराज द्वारा
पृष्ठ 125, कुल 237 में से
संदर्भ में पढ़ें२२६ वेदस्वरूप-विमर्शः
कणादेनापि सामान्यं विशेष इति बुद्धयपेक्षमेव सामान्यं वदता काल्पनिकमेव तदित्यङ्गीकृतम् इति, तन्न, सूत्रार्थानवबोधात् । तत्रैवो- पस्कारकारादिभिर्बौद्धादिपक्षनिरसनपुरःसरं सामान्यव्यवस्थापनात् । सूत्रार्थस्तु—सामान्यं सत्तारूपं परसामान्यम् । अपरं सत्ता द्रव्यत्वा- दिकम् । बुद्धिलक्षणम् । तेनोभयविधस्य सामान्यस्य बुद्धिरेवलक्षणम् । इतिना तद्व्यवच्छिद्य परामृश्यते । तेन बुद्धयपेक्षमिति नपुंसक- निर्देशः । वृत्तिकारस्तु—विशेषान्वयमाह । 'नपुंसकमनपुंसकेनेकवच्चास्यान्यतरस्या- मित्यनेनैकवद्भावो नपुंसकता चेत्याह । बुद्धिरपेक्षालक्षणं लिङ्गं यस्य तद्बुद्धयपेक्षम् । नित्यमनेकवृत्ति सामान्यम् । परन्तु सामान्यं विशेषसंज्ञामपि लभते । यथा द्रव्यमिदमित्यनुवृत्तप्रत्यये सत्येव नायं गुणो, नेदं कर्मेति विशेष- प्रत्ययः । तथा च द्रव्यत्वादीनां सामान्यानामेव विशेषत्वम् । सामान्यं नित्यं व्यापकञ्च । व्यापकत्वमपि स्वरूपतो न सर्वदेश- सम्बद्धत्वम्, तत एव न देशानां गोव्यवहारापत्तिः । समवायेन तद्व्यवहा- रस्यानभ्युपगमात् । कालस्य रूपादिमत्त्वेऽपि कालो रूपवानिति प्रतीति- व्यवहारवत् । तथा च यत्र पिण्ड उत्पद्यते तत्रस्थमेव गोत्त्वं तेन सम्बध्यते । जातः सम्बद्धश्चेत्येकः काल इत्यभ्युपगमात् । कीदृशे आश्रये वर्तत इत्यत्र यत्र प्रतीयत इत्युत्तरम् । कुत्र प्रतीयत इत्यत्र यत्र वर्तत इत्युत्तरम्, गोत्ववृत्तेः पूर्वं स पिण्डः कीदृगासीदित्यत्र नासीदित्येवोत्तरम् । अत- द्व्यावृत्तिरेव गोत्वमित्यत्र गौरयमिति विधिसुखः प्रत्यय एव बाधको ऽनुभवस्य प्रत्याख्यातुमशक्यत्वात् । एतेन 'न याति न च तत्रासीदिति परिदेवनमात्रम् । सामान्यं विशेष इति द्वैविध्यं यदुक्तं तदुपपादयन्नाह—भावोऽनु वृत्तेरेव हेतुत्वात् । सामान्यमेव भावः सत्ता अनुवृत्तेरेव हेतुः; न व्यावृत्ते- रपि । तथा च विशेषसंज्ञां न लभते । केषां सामान्यानां विशेषसंज्ञा इत्यपेक्षायामाह—द्रव्यत्वं गुणत्वं कर्मत्वं च सामान्यानि विशेषाश्च ।
वेदस्वरूप-विमर्शः २२७
सत्तासामान्यविप्रतिपत्तिनिरासाय सदिति । यतो द्रव्यगुणकर्मसु सा सत्ता इत्युक्तम् । अपि च 'द्रव्यगुणकर्मभ्योऽर्थान्तरं सत्ता' इति सूत्रेण स्पष्टमेव सत्ताया द्रव्यादिभ्योऽर्थान्तरमुक्तम् । यत्तु तेभ्योऽन्यत्र नोपलभ्यम् तद्युतसिद्धिवलात् । घटपटयोस्तु युतसिद्धत्वेन पृथगुप- लब्धिः । तस्मात् सूत्रानुयायिनां भाष्यानुसार्यैव सूत्रार्थ इति मन्तव्यम् । यदुक्तम् संस्त्यानप्रसवौ लिङ्गमास्थेयौ स्वकृतान्ततः । संस्त्यानेस्त्यायतेर्दू ट् स्त्री सूतेः स प्रसवे पुमान् ॥ इति वार्तिकव्याख्यानमहाभाष्येणाप्यादानप्रदानयज्ञप्रक्रियाविधया आदानविवक्षया स्त्रीलिङ्गं, प्रदानविवक्षया पुंल्लिङ्गं, ताटस्थ्यविवक्षया तु नपुंसकलिङ्गम् इति सिद्धयति । तन्न; भाष्यविरोधात् । तथाहि अधि- करणसाधनास्त्यायतेर्गर्भा गर्भ इति स्त्री । कर्तृसाधनश्च पुमान् सूतेः पुमान् । इह पुनरुभयं भावसाधनम् । संस्त्यानम् स्त्रीप्रवृत्तिर्या पुमान् शब्दादिगुणानां संस्त्यानविवक्षायां स्त्री, तेषामेव प्रवृत्त्यपेक्षायां पुमान्, उभयविवक्षायां नपुंसकमित्येव तु महाभाष्यवचनात् सिद्धयति । अत्र संस्त्यानं तिरोभावरूपोऽपचयः, प्रवृत्तिश्चाविर्भावरूपलक्षण उपचयः । केषां ? गुणानां शब्दस्पर्शादीनां, शब्दादीति सत्त्वादिकार्यमात्र- स्योपलक्षणम् ज्ञेयम् । सर्वाश्च मूर्त्तय एवमात्मिका इति भाष्येणैव तद् ध्वनितम् । मूर्त्तय इति पदार्था ग्राह्याः । आत्मनि प्रकृतौ महति अहङ्कारे च लिङ्गव्यवहारो दृश्यते । न च तत्र शब्दादिगुणोपचयादिकं सम्भवति शब्देऽपि वाच्याभावात्तु नोपपद्यते । आत्मनि परिणामवदन्यतादात्म्याध्यासेन तत्परिणामानुयायित्वेन लिङ्गव्यवहारः । शब्दादिप्रदानापेक्षया पुंस्त्वं बाष्पाद्यादानापेक्षया महदादौ पुंस्त्वादिव्यवहारो नोपपद्यत एव महदादिषु शब्दादिसम्बन्धाभावात् । पारम्पर्येण तत्सत्त्वे तूपलक्षणमेवा- यातम् । केष्वित्तु सात्त्विकांशाधिक्येन परिणामे पुमान्, राजसांशा- धिक्येन परिणामे स्त्री, तामसांशाधिक्येन नपुंसकम् एतत्त्रितयं व्यक्तिमात्रवृत्तितया केवलान्वयि । वस्तुमात्रस्य क्षणपरिणामितया वृद्धिह्रास-