भारतकोश
वेद स्वरूप विमर्श (स्वामी करपात्री जी महाराज - अपौरुषेय वेद-प्रामाण्य एवं वैदिक समन्वय)

वेद स्वरूप विमर्श (स्वामी करपात्री जी महाराज - अपौरुषेय वेद-प्रामाण्य एवं वैदिक समन्वय)

Veda Swaroop Vimarsha of Swami Karpatri Maharaj

धर्मसम्राट् स्वामी करपात्री जी महाराज द्वारा

DevanagariHindipublished237 पृष्ठ

पृष्ठ 125, कुल 237 में से

संदर्भ में पढ़ें
पृष्ठ 125

२२६ वेदस्वरूप-विमर्शः

कणादेनापि सामान्यं विशेष इति बुद्धयपेक्षमेव सामान्यं वदता काल्पनिकमेव तदित्यङ्गीकृतम् इति, तन्न, सूत्रार्थानवबोधात् । तत्रैवो- पस्कारकारादिभिर्बौद्धादिपक्षनिरसनपुरःसरं सामान्यव्यवस्थापनात् । सूत्रार्थस्तु—सामान्यं सत्तारूपं परसामान्यम् । अपरं सत्ता द्रव्यत्वा- दिकम् । बुद्धिलक्षणम् । तेनोभयविधस्य सामान्यस्य बुद्धिरेवलक्षणम् । इतिना तद्व्यवच्छिद्य परामृश्यते । तेन बुद्धयपेक्षमिति नपुंसक- निर्देशः । वृत्तिकारस्तु—विशेषान्वयमाह । 'नपुंसकमनपुंसकेनेकवच्चास्यान्यतरस्या- मित्यनेनैकवद्भावो नपुंसकता चेत्याह । बुद्धिरपेक्षालक्षणं लिङ्गं यस्य तद्बुद्धयपेक्षम् । नित्यमनेकवृत्ति सामान्यम् । परन्तु सामान्यं विशेषसंज्ञामपि लभते । यथा द्रव्यमिदमित्यनुवृत्तप्रत्यये सत्येव नायं गुणो, नेदं कर्मेति विशेष- प्रत्ययः । तथा च द्रव्यत्वादीनां सामान्यानामेव विशेषत्वम् । सामान्यं नित्यं व्यापकञ्च । व्यापकत्वमपि स्वरूपतो न सर्वदेश- सम्बद्धत्वम्, तत एव न देशानां गोव्यवहारापत्तिः । समवायेन तद्व्यवहा- रस्यानभ्युपगमात् । कालस्य रूपादिमत्त्वेऽपि कालो रूपवानिति प्रतीति- व्यवहारवत् । तथा च यत्र पिण्ड उत्पद्यते तत्रस्थमेव गोत्त्वं तेन सम्बध्यते । जातः सम्बद्धश्चेत्येकः काल इत्यभ्युपगमात् । कीदृशे आश्रये वर्तत इत्यत्र यत्र प्रतीयत इत्युत्तरम् । कुत्र प्रतीयत इत्यत्र यत्र वर्तत इत्युत्तरम्, गोत्ववृत्तेः पूर्वं स पिण्डः कीदृगासीदित्यत्र नासीदित्येवोत्तरम् । अत- द्व्यावृत्तिरेव गोत्वमित्यत्र गौरयमिति विधिसुखः प्रत्यय एव बाधको ऽनुभवस्य प्रत्याख्यातुमशक्यत्वात् । एतेन 'न याति न च तत्रासीदिति परिदेवनमात्रम् । सामान्यं विशेष इति द्वैविध्यं यदुक्तं तदुपपादयन्नाह—भावोऽनु वृत्तेरेव हेतुत्वात् । सामान्यमेव भावः सत्ता अनुवृत्तेरेव हेतुः; न व्यावृत्ते- रपि । तथा च विशेषसंज्ञां न लभते । केषां सामान्यानां विशेषसंज्ञा इत्यपेक्षायामाह—द्रव्यत्वं गुणत्वं कर्मत्वं च सामान्यानि विशेषाश्च ।


वेदस्वरूप-विमर्शः २२७

सत्तासामान्यविप्रतिपत्तिनिरासाय सदिति । यतो द्रव्यगुणकर्मसु सा सत्ता इत्युक्तम् । अपि च 'द्रव्यगुणकर्मभ्योऽर्थान्तरं सत्ता' इति सूत्रेण स्पष्टमेव सत्ताया द्रव्यादिभ्योऽर्थान्तरमुक्तम् । यत्तु तेभ्योऽन्यत्र नोपलभ्यम् तद्युतसिद्धिवलात् । घटपटयोस्तु युतसिद्धत्वेन पृथगुप- लब्धिः । तस्मात् सूत्रानुयायिनां भाष्यानुसार्यैव सूत्रार्थ इति मन्तव्यम् । यदुक्तम् संस्त्यानप्रसवौ लिङ्गमास्थेयौ स्वकृतान्ततः । संस्त्यानेस्त्यायतेर्दू ट् स्त्री सूतेः स प्रसवे पुमान् ॥ इति वार्तिकव्याख्यानमहाभाष्येणाप्यादानप्रदानयज्ञप्रक्रियाविधया आदानविवक्षया स्त्रीलिङ्गं, प्रदानविवक्षया पुंल्लिङ्गं, ताटस्थ्यविवक्षया तु नपुंसकलिङ्गम् इति सिद्धयति । तन्न; भाष्यविरोधात् । तथाहि अधि- करणसाधनास्त्यायतेर्गर्भा गर्भ इति स्त्री । कर्तृसाधनश्च पुमान् सूतेः पुमान् । इह पुनरुभयं भावसाधनम् । संस्त्यानम् स्त्रीप्रवृत्तिर्या पुमान् शब्दादिगुणानां संस्त्यानविवक्षायां स्त्री, तेषामेव प्रवृत्त्यपेक्षायां पुमान्, उभयविवक्षायां नपुंसकमित्येव तु महाभाष्यवचनात् सिद्धयति । अत्र संस्त्यानं तिरोभावरूपोऽपचयः, प्रवृत्तिश्चाविर्भावरूपलक्षण उपचयः । केषां ? गुणानां शब्दस्पर्शादीनां, शब्दादीति सत्त्वादिकार्यमात्र- स्योपलक्षणम् ज्ञेयम् । सर्वाश्च मूर्त्तय एवमात्मिका इति भाष्येणैव तद् ध्वनितम् । मूर्त्तय इति पदार्था ग्राह्याः । आत्मनि प्रकृतौ महति अहङ्कारे च लिङ्गव्यवहारो दृश्यते । न च तत्र शब्दादिगुणोपचयादिकं सम्भवति शब्देऽपि वाच्याभावात्तु नोपपद्यते । आत्मनि परिणामवदन्यतादात्म्याध्यासेन तत्परिणामानुयायित्वेन लिङ्गव्यवहारः । शब्दादिप्रदानापेक्षया पुंस्त्वं बाष्पाद्यादानापेक्षया महदादौ पुंस्त्वादिव्यवहारो नोपपद्यत एव महदादिषु शब्दादिसम्बन्धाभावात् । पारम्पर्येण तत्सत्त्वे तूपलक्षणमेवा- यातम् । केष्वित्तु सात्त्विकांशाधिक्येन परिणामे पुमान्, राजसांशा- धिक्येन परिणामे स्त्री, तामसांशाधिक्येन नपुंसकम् एतत्त्रितयं व्यक्तिमात्रवृत्तितया केवलान्वयि । वस्तुमात्रस्य क्षणपरिणामितया वृद्धिह्रास-