वेद स्वरूप विमर्श (स्वामी करपात्री जी महाराज - अपौरुषेय वेद-प्रामाण्य एवं वैदिक समन्वय)
Veda Swaroop Vimarsha of Swami Karpatri Maharaj
धर्मसम्राट् स्वामी करपात्री जी महाराज द्वारा
पृष्ठ 138, कुल 237 में से
संदर्भ में पढ़ेंयहाँ दोनों पृष्ठों का पंक्ति-दर-पंक्ति लिप्यन्तरण प्रस्तुत है:
[पृष्ठ २५०]
२५० वेदस्वरूप-विमर्शः सम्भृतो भवति । पूर्वोक्तो भूतात्मा चैतन्यरूपेण सन्निधत्त इति द्वादशरश्मये शुक्लाहुतिः पूर्वार्धेनोक्ता । देवानां भूतानाञ्च समष्टिरूपमिदं शुक्रमिति फलितम् । तस्य संभृतस्य रसस्य शुक्रस्य त्वष्टारूपं कल्पयति कललबुद्बुदादिक्रमेण शरीराकारतां नयति । द्वादशानामादित्याना- मन्यतमस्त्वष्टा, सूर्य्यरश्मित एव मनुष्यशरीरस्याङ्गप्रत्यङ्गनिर्वर्तनात् ।‘‘ तत्रापि चादित्यांशविशेषस्त्वष्टैव मुख्यतया भागं गृह्णाति । त्वष्टा वै रेतः सिक्तं विकरोति । तदेतेन मर्त्यस्य जडस्य रेतसो देवत्वं देवनिवासयोग्यत्वमुपजायते । ये लोकान्तरगता आजानदेवास्तेऽप्यत्र मनुष्यशरीरे सन्निदधते, इत्याजानपदेन सूचितम् । अग्रे चतुर्थे मंत्रे च पुनर्विंकियेत इति तत्रोच्यते, उत्तरनारायणसूक्ते नादित्यो- पस्थानं क्रियत उत्तरेषु मंत्रेषु तस्यैव वर्णनात् । अत्र शुक्रस्य तदाहुतेश्च चर्चाऽपि न विद्यते । वेदाहमेतमिति तत्रैतच्छब्दनिर्दिष्टः पूर्वप्रकृत एव । न च शुक्रस्य तमसः परत्वम्, तद्वेदनेन मृत्यन्तरणञ्च संभवति । सूर्य्यस्य तु तत्सर्वं संभवत्येव । मर्त्त्यस्य देवत्वमपि शुक्रपक्षे न संभवति । अतएव देवत्वमित्यस्य देव- निवासयोग्यत्वमित्यर्थकरणेन गौणत्वमेव देवत्वमुक्तं स्यात् । आजान- मिति पदन्तु कथञ्चिल्लोकान्तरजानदेवसम्बन्धमात्रे पर्य्यवसितम् । सूर्य्यपक्षे तु पूर्वकल्पे मर्त्यस्य सत उपासनाबलात् आजानदेवत्वप्राप्ति- रित्यर्थः संश्लिष्यते । तेन महीधरादिवर्णित एवात्राऽपि सूक्तार्थो युज्यते । आदित्ये मण्डलदृष्ट्या अद्भ्यः पृथिव्याः, विश्वकर्मणो रसाच्च संभृतत्वं प्रजापतिरूपविश्वकर्मणश्च सर्वकारणत्वात्तद्रसात्तत्प्रीतेः सूर्य्यस्य निर्मित- रूपत्वं तदभिमानिनो देवस्याजानदेवत्वम् । त्वष्टा सर्वस्यैव रूपनिर्माता । सूर्य्यस्य च विशेषतः । संज्ञायाः पित्रा त्वष्ट्रा शाणमारोप्य सूर्य्यस्य तेजः शातनेन रूपं कृतमति पुराणप्रसिद्धिः । तस्यैव च कल्पान्तरायोपासक- रूपेणामर्त्यत्वम् संगच्छते । तस्यैव चादित्यस्य मण्डलान्तर्गतव्याहृत्य- वयवात्मना हिरण्यगर्भरूपप्रजापतित्वं तस्यैव च हिरण्मयश्मश्रु-हिरण्य- केशादिविशिष्टहिरण्मयपुरुषरूपेण परमेश्वरत्वम्, सर्वविशेषातीत- परमात्मरूपेण वेदान्तवेद्यत्वमुक्तोपास्यत्वादिकञ्च संगच्छते ।
[पृष्ठ २५१]
वेदस्वरूप-विमर्शः २५१ तेन सूर्ये सर्वस्यैव सूक्तस्य संगतिः । न शुक्रे तदाहुतिषु वा । हिरण्यगर्भ-हिरण्मयान्तर्याम्युपासनस्य क्रममुक्तिहेतुत्वेन मृत्युतरणसाधन- त्वम्, तस्यैवान्तर्यामिणः सर्वविशेषासाहित्येनोपासने तु सद्योमुक्ति- हेतुत्वेन साक्षात् मृत्युतरणहेतुत्वं च सङ्गच्छते । पुरुषसूक्तात्पूर्व्वं ब्रह्मणे ब्राह्मणमालभेतेत्यादिनियुक्तान् ब्रह्माभिष्टौति । तदाह कात्यायनः- नियुक्तान् ब्रह्माभिष्टौति होतृवदनुवाकेन सहस्रशीर्षेति (का० २१।१।११) होतृवदिति त्रिः प्रथमां त्रिरुत्तमामित्याद्युक्तप्रकारेणेत्यर्थः । 'त्रैधातव्यन्ते समारोह्यात्मन्नग्नीन् सूर्य्यमुपस्थायाद्ध्वः संभृत इत्यनुवाकेनानपेक्षमाणोऽ रण्यं गत्वा न प्रत्येयात्' (का०श्रौ०सू० २१।१।१७) 'मामे वा विवत्सन्नरण्योः' (का० श्रौ० सू० २१।१।१८) त्रैधातवी उदवसानीयेष्टिः तदन्ते 'अयन्ते योनिरित्यग्नीन् आत्मनि समारोह्य तदुष्मारूपात्मने प्रवेश्याद्ध्वः संभृतः इति षडृर्चेनानुवाकेन सूर्य्यमुपस्थाय पश्चादपश्यन् वनं गत्वा ग्रामं नागच्छेत् । वानप्रस्थो भवेदित्यर्थः । यद्वा ग्रामे वस्तुमिच्छन्न अरण्योरग्नीन् । समारोप्यार्केणोपस्थानान्तरं ग्रामे गत्वा यज्ञान् कुर्य्याद् इति सूत्रार्थः । इत्थमुत्तरनारायणसूक्तमा- दित्यदैवत्यं सूर्य्योपस्थाने विनियुक्तम् । तदनुगुणान्येव सूक्ताक्षराणि च । तत्रापि पूर्वकल्पे पुरुषमेधयाजी आदित्यभावं प्राप्तः प्रथमेन मंत्रेण स्तूयते अद्भ्यः जलात् ( नात्र वाच्यातिरिक्तः सोमवायुजलादिरूपोऽर्थो गृह्यते निष्प्रमाणत्वात् ) पृथिव्याः सकाशाच्च पृथिव्यपां ग्रहणम् भूतपञ्चको- पलक्षकम् । तथा च भूतपञ्चकात् यो रसः संभृतः पुष्टः बृहदारण्यके सच्च त्यत्पदार्थाः मूर्त्तामूर्त्तयोः साररूपत्वमादित्यतदन्तर्गतपुरुषयोरुक्तम् । मूर्त्तस्यैव तस्य मर्त्यस्य सत एष रसो य एष तपति सतो ह्येष रसः तदेतन्मूर्त्तं यद्वायोश्चान्तरिक्षाच्चान्यत् । अथामूर्त्तं वायुश्चान्तरिक्षञ्च एतस्य मर्त्यस्यैष रसो य एष मण्डले पुरुषः ( बृ० २।३।२।३ ) विश्वं कर्म यस्य तस्य कालस्य ब्रह्मणो वा रसात् प्रीतेर्यो रसोऽग्रे समवर्त्तत । भूतपञ्चकस्य कालस्य च सर्वं प्रति कारणत्वात् पुरुषमेधयाजिनो लिङ्गशरीरे पञ्चभूतानि तुष्टानि कालश्च ततस्तुष्टेभ्यः कश्चिद्रसविशेष- फलरूप उत्तमजन्मप्रद उत्पन्न इत्यर्थः । तस्य रसस्य रूपं विदधत् धारयन् त्वष्टा आदित्य एति प्रत्यहम् उदयं करोति ।