वेद स्वरूप विमर्श (स्वामी करपात्री जी महाराज - अपौरुषेय वेद-प्रामाण्य एवं वैदिक समन्वय)
Veda Swaroop Vimarsha of Swami Karpatri Maharaj
धर्मसम्राट् स्वामी करपात्री जी महाराज द्वारा
पृष्ठ 144, कुल 237 में से
संदर्भ में पढ़ें२६२ वेदस्वरूप-विमर्शः व्याख्यातत्वात् । तदेतत्सर्वं येन स्वप्नं पश्यति अथ योऽयं शरीर उपद्रष्टा स क्षेत्रज्ञास्तावेतो सत्त्वक्षेत्रज्ञाविति सर्वमेतच्छङ्करभाष्ये समुद्धतमिति तत्रैव कण्हेत्यालोचनीयम् । रुचं ब्राह्ममित्यादिमंत्रस्य त्वयमर्थः- देवा दीप्यमानाः प्राणाः योगिनो वा रुचं शोभनं देदीप्यमानं वा ब्राह्मं ब्रह्मण उत्पन्नमादित्यं जनयन्तः सृष्ट्यर्थं अग्रे प्रथमं तत् वचो अब्रुवन् तकिमत आह-यो ब्राह्मणः हे आदित्य त्वां त्वामेवमुक्तविधिना उत्पन्नं विद्यात् जानीयात् तस्य ब्राह्मणस्य देवा वशे असन् वश्या भवन्ति । आदित्यो- पासिता जगत्पूज्यो भवतीत्यर्थः । यत्तु 'तस्य देवा असन् वशे' इत्यने- नेन्द्रियरूपाणां देवानां वशीकारो मनोरूपेण सम्भृताया ब्राह्मयाविज्ञानेन महति'त्युच्यते तन्न तस्यार्थस्य मन्त्रार्थबाह्यत्वात् । ब्रह्मणोऽपत्यभूतस्या- दित्यस्यैव ब्राह्मणरुत्वोक्तेः । नहीन्द्रियलक्षणैर्देवैर्मनोरूपेण काचिद् ब्राह्मी- रुक् प्रसिद्धा, यस्यां चिदात्मनो विकासो भवेत् । किञ्च विकासो नामा- भिव्यक्तिरुत्पत्तिर्वा ? नान्त्यः चिदात्मनो नित्यत्वान्निर्विकारत्वाच्च । नाद्यः चिदात्मनो मनस्यभिव्यक्तेरङ्गीकारेऽपि मनस इन्द्रियरूपैर्देवैः संभृतत्वाभावात् तस्माद्यथोक्त एव मन्त्रार्थः । यच्चोक्तम्-चिदात्मनः परमात्मनः सम्बन्धे च श्रीश्च लक्ष्मीश्च जीवे प्रादुर्भबत इति षष्ठी सप्तमी च श्रिया लक्ष्म्याश्चाहुती षष्ठेन मंत्रेणाऽम्नायेते- 'श्रीश्च लक्ष्मीश्च पत्न्यावहोरात्रे पार्श्वे नक्षत्राणि रूपमश्विनौ व्यात्तम् । इष्णन्निषाण । मुं म इषाण । सर्वलोकम्म इषाण । ३१।२२ इति । ताभ्यामाहुतिभ्यां श्रीमदूर्जितञ्च जीवात्मनः स्वरूपं सम्पद्यते । अनयोरेवोत्कर्षे विभूतिरूपता अंशावतारता च तेषां व्याख्याता । 'यद् यद्विभूतिमत्सत्त्वं श्रीमदूर्जितमेव वा । तत्तदेवावगच्छ त्वं मम तेजोऽशसंभवम् ।।' इत्थं सप्तभिराहुतिभिर्जीवसम्पत्तिरुक्ता ।” इति तदपि न, मंत्रेऽस्मिन्नाहुतेरवर्णनात् । चिदात्मनः परमात्मनः सबन्धे श्रिया लक्ष्म्या जीवे प्रादुर्भाव इत्यस्य मंत्रार्थत्वाभावात् । महीधररी- त्यात्वयं मन्त्रार्थः- 'ऋषिरादित्यं श्रुत्वा प्रार्थयते हे आदित्य
वेदस्वरूप-विमर्शः २६३ श्रीश्च लक्ष्मीश्च ते जायास्थानीये त्वद्भार्ये, यया सर्वजनाश्रयोयो भवति सा श्रीः । श्रीयतेऽनया श्रीः संपदित्यर्थः । यया लक्ष्यते दृश्यते जनैः सा लक्ष्मीः सौन्दर्यमित्यर्थः । आदित्यवश्यत्वादुभे भार्या स्थानीये तस्य । यद्वा सवितृमण्डलमध्यवर्तिनः सरसिजासनसंनिविष्टस्य नारायणस्य द्वे अपि ते पत्न्यौ, पुराणादिषु तत्पोपक्रमणास्य बाहुल्योपलब्धेः । नक्षत्राणि गगन- तारास्तव रूपम् । तवैव तेजसा भासमानत्वात् । 'तेजसो गोलकः सूर्य्यः, नक्षत्राण्यम्बुगोलकाः' इति ज्योतिःशास्त्रोक्तेः' । अश्विनौ द्यावापृथिव्यौ तव व्यात्तं विकसितमुखस्थानीये । अश्नुवात व्याप्नुवतौ अश्विनौ द्यावा पृथिव्यौ 'इमे ही तैः सर्वमश्नुवाताम्' इति श्रुतेः । य ईदृशस्तं त्वां याचे । इष्णन् कर्मफलमिच्छन् सन् । इषाण इच्छ किमेषणीयं तत्राह- अमुं परलोकं मे मम इषाण मम परलोकः समीचीनोऽस्त्वितीच्छ । अमोधेच्छत्वाद्विष्टं भवतीत्यर्थः । सर्वं मे मम इषाण सर्वलोकात्मकोऽहं भवेयमितीच्छेत्यर्थः । मुक्तो भवेयमित्यर्थः । 'सर्वं खल्विदं ब्रह्म'ति श्रुतेः । यदुक्तम् “सृष्ट्यादौ पुरुषत्रयप्रादुर्भावः संसारमूलभूतानां मनः प्राणवाचां परस्परमुत्तरोत्तरीभावश्च सर्वं एव यज्ञकृतः तत्र तत्र व्याख्या- यते । क्षरपुरुषकलानाञ्च प्राणवागन्नान्नानां परस्परं पञ्चीकरणं पुरुषसूक्ते सर्वहुद्यज्ञनाम्ना विवृतम् । आदौ च सामग्र्यभावे पुरुषावयवैरेव यज्ञः सम्पादित इत्यपि तत्रोक्तम् । देवा यज्ञं तन्वाना अवध्नन् पुरुषं पशु- मिति” । तत्रोच्यते यद्यपि यज्ञस्य प्रपञ्चहेतुत्वमुपपद्यते तथापि वेदविहित- यज्ञस्यैव मानसत्वादि भेदेन तत्तद्धेतुत्वोपपत्तेः । पुरुषमेधाख्यो यज्ञोऽपि तादृश एव । सर्वहुदाख्यो यज्ञोऽपि तादृश एव । निरुक्तपरिशिष्टा- नुसारेणानुप्रेरतपसस्तेमन्त्रार्थाज्ञानं दुष्करमिति श्रेयोऽविद्वातकामैर्ऋषि- निर्दिष्टीत्येव मन्त्रार्थः कर्तव्य इति श्रौतसूत्रकारैरनुक्रमणीकारैर्येषां मंत्राणां नारायणदृष्टयोर्द्वयोस्त्रैशैस्त्रिंशयोरध्याययोः पुरुषमेधयज्ञ उक्तः, तस्य निर्वचनम् । अथ यस्मात् पुरुषमेधो नानेमे वै लोकाः पूरणमेव पुरुषः योऽयं पवते सोऽस्यां पुरि शेते तस्मात्पुरुषः तस्य यदेषु लोकेष्वन्नं मेधः तस्मात्पुरुषमेधः । 'नारायणपुरुषद्दष्टा जगद्वीजपुरुषदेवत्या षोडश