वेद स्वरूप विमर्श (स्वामी करपात्री जी महाराज - अपौरुषेय वेद-प्रामाण्य एवं वैदिक समन्वय)
Veda Swaroop Vimarsha of Swami Karpatri Maharaj
धर्मसम्राट् स्वामी करपात्री जी महाराज द्वारा
पृष्ठ 143, कुल 237 में से
संदर्भ में पढ़ें२६० वेदस्वरूप-विमर्शः
जनयन्तस्ते पूर्वतः स्थिताः पूर्वस्मिन्मंत्रे तु देवेभ्यः पूर्वमादित्यस्योत्पत्ति- रुक्ता। अतएवास्मिन्मंत्रे प्राणरूपा देवा उक्ताः। यदप्युक्तम् "एवं स्थूलसूक्ष्मशरीरयोः सम्पत्तौ मनुष्यशरीराकारे पूर्णा पञ्चमी ब्रह्मज्योतिराहुतिर्भवति। अर्थात् यस्यामपवृत्तौशः पृथक् तन्त्रं प्रवर्त्तयितुमात्मनि विजातस्तत्र व्यापकं ब्रह्म प्रविशति। 'तत् सृष्ट्वा तदनुप्राविश'दिति श्रुतेः। ब्रह्म हि सर्वत्र व्याप्तम्। तद्विनाकृतम् किमपि न तिष्ठति। सम्पन्ने पृथक् तंत्रे तस्य व्याप्तिरेव प्रवेशः। अयमेव देहे चिदात्मा परमात्मेति चाख्यायते। तदेतत् 'द्वा सुपर्णा सयुजा सखाया समानं वृक्षं परिषस्वजाते। तयोरन्यः पिप्पलं स्वाद्वत्त्यनश्नन्नन्यो- अभिचाकशीति (श्वेता०४।६) इत्याद्यासु श्रुतिषु स्पष्टः। भोक्ता चिदाभास, अनश्नन् केवलं द्रष्टा तु चिदात्मा सेयं ब्रह्मज्योतिराहुतिः पञ्चमेनोक्ता। रुचं ब्राह्मं जनयन्तो देवा अग्रे तदब्रुवन् यस्त्वैवं ब्राह्मणो विद्यात्तस्य देवा असन्वशे (३१।२१) देवैः ब्राह्मीरूक् या मनोरूपेण सम्भृता तस्यामेव चिदात्मनो विकासो जायते। अस्यैव परमात्मनोविज्ञानेनेन्द्रियाणां वशी- कारो मुक्तिश्च सम्पद्यत इति मंत्रोत्तरार्धेनोक्त" मिति तन्न, मन्त्राक्षरान- नुगुण्यात्। वस्तुतस्तु मंत्रानुसारण कल्पना युक्ता, न कल्पनानुसारेण मंत्रा नेतव्या। इन्द्रियमनः सम्बन्धार्थं देवशब्दस्येन्द्रियाण्यर्थः, पुरोहित- पदस्य मनोऽर्थ इति कल्पितम् । एवं ब्रह्मज्योतिराहुतिरपि काल्पनिक्येव, तत्र यज्ञत्वभावनादिविधाने सति कल्पनायाः सार्थक्येऽपि तदभावात्तु व्यर्थैव सा कल्पना । व्यापकस्य ब्रह्मणः प्रवेशस्तु न संभवत्येव, परिच्छिन्नस्यैव प्रवेशोपपत्तेः। नहि श्रुतिबलादपि तत्सम्भवति शब्दस्य ज्ञापकत्वेऽनाकारकत्वात्। तस्मात्प्रति- बिम्बाभासादिरूपेणैव तत्प्रवेशकल्पना युज्यते, नान्यथा। तौ बिम्ब- प्रतिबिम्बरूपावेव द्वा सुपर्णा इत्यादि सूक्तौ । तयोरेवचिच्चिदाभासयोरीश- जीवत्वोपपत्तेः। अतएव जीवरूपेणैवेश्वरस्य सृष्टेषु प्रवेशो न परेशरूपेण, तस्य व्यापकत्वात्तदनुपपत्तेः। अतएव छान्दोग्ये जैवेन रूपेणैव परमात्म- प्रवेश उक्तः। 'हन्ताहमिमास्तिस्रो देवता अनेन जीवेनात्मनानुप्रविश्य
वेदस्वरूप-विमर्शः २६१
नामरूपे व्याकरवाणि'ति श्रुतेः । शरीरे तदभिव्यक्तिरेव प्रवेशश्चेत्प्रत्य- गात्मव्यतिरेकेण देहे तदभिव्यक्तेरप्रसिद्धेः। अतएव यत्साक्षादपरोक्षाद्- ब्रह्म ति प्रत्यगात्मन एवापरोक्षत्ववर्णनम्। तद्भेदैनैव ब्रह्मणोऽपरोक्षत्या- भिगमात्। अन्यथा प्रमाणपारम्पर्येण परोक्षे घटादावपि संशयाद्यभावे साक्षादपरोक्षे ब्रह्मणि कुतः संशयादिविषयत्वं कुतस्तराम्प्रमाणसापेक्षत्वम् ? न च तन्नास्त्येवेति वाच्यम् 'तं त्वौपनिषदं पुरुषं पृच्छामि। 'नावेद- विन्मनुते तम्बृहन्तम्' शास्त्रयोनित्वादित्यादिशास्त्रविरोधात् । शुक्रानु- प्रविष्टचिद्धातोरेव न चिदाभासः, व्रीह्यादिसंश्लिष्टस्यापि चिदाभास- त्वोपपत्तेः। तेन ब्रह्मज्योतिराहुतिस्त्वसिद्धैव । 'तदन्तरप्रतिपत्तौ रंहति सम्परिष्वक्तः प्रश्ननिरूपणाभ्याम् । (ब्र० सू० ३।१।१) इत्यादौ देहबीजैर्भूतसूक्ष्मैः सम्परिष्वक्तो जीवो देहान्तरप्रति- पत्तये रंहतीत्युक्तम्। तेन शुकानुप्रवेशात् पूर्वमपि सानिध्यान्चिदाभासरूपो जीवो व्रीह्यादिष्वपि संश्लिष्ट एव। परन्तु योनौ रेतः सेकात्प्राक् व्रीह्यादिषु संश्लेषे सत्यपि तत्र तस्य भोक्तृत्वं न भवति। अन्याधिष्ठिते- ष्वेव तत् संश्लेषात्। 'योनेः शरीरम् (३।१।२७ ब्र०) योनौ निक्षिप्ते रेतसि योनेरधिशरीरमनुशयिनां मनुष्यफलभोगाय जायते इत्याह शास्त्रम् । 'तद्य इह रमणीयचरणा' (छा० ५।१०।७) द्वा सुपर्णा' इत्यादि मंत्रे जीव- परमात्मानौ ग्रहीतुं शक्येते, अध्यात्माधिकारात् । नात्र सुपर्णौ गदितौ । पिप्पलं स्वाद्वत्तीत्यदनलिङ्गेन विज्ञानात्मा अनश्नन्नित्यनशनाभिप्रका- शाभ्यां परमात्मा अनन्तरे मंत्रे तावेव द्रष्टृद्रष्टव्यत्वेनोक्तौ । 'समाने वृक्षे पुरुषो निमग्नोऽनीशया शोचति मुह्यमानः। जुष्टं यदा पश्यत्यन्यमी शमस्य महिमानमिति वीतशोकः' (मु० ३।१।२ ।) कैश्चित्तु तयोरन्यः पिप्पलं स्वाद्वत्तीति सत्त्वमनश्नन्नन्योऽ भिचश्यतीति ज्ञास्तावैतौ सत्त्वक्षेत्रज्ञौ इति पैङ्गिरहस्य- ब्राह्मणानुसारेण सत्त्वक्षेत्रज्ञावेवेह विवक्षितौ, न जीवपरमात्मानौ । न च सत्त्वशब्दो जीवपरः क्षेत्रज्ञ शब्दवाच्यः परमात्मेति वाच्यम्, तयोरन्तःकरणशरीरपरतया प्रसिद्धत्वात् । तत्रैव च