वेद स्वरूप विमर्श (स्वामी करपात्री जी महाराज - अपौरुषेय वेद-प्रामाण्य एवं वैदिक समन्वय)
Veda Swaroop Vimarsha of Swami Karpatri Maharaj
धर्मसम्राट् स्वामी करपात्री जी महाराज द्वारा
पृष्ठ 146, कुल 237 में से
संदर्भ में पढ़ेंपृष्ठ २६६
२६६ वेदस्वरूप-विमर्शः पशवः' इति श्रुत्या पशूनामन्तरिक्षदैवत्यं विज्ञायते । पुरुषमेधाख्यो यज्ञ एव सर्वहुद् यज्ञः। स च सर्वपुरुषावयवविपरमात्मरूप एव । अतएव तस्मादेव सर्वहुतो यज्ञात् ऋचः समानि जज्ञिरे गायत्र्यादीनि छन्दांसि च तस्माद्यजुरप्यजायत तेषां यज्ञनिर्वर्तकत्वात् । 'अस्य महतो भूतस्य निः श्वसितमेतद्यदृग्वेदः' ... 'यज्ञो वै विष्णुः' 'यस्मादृचोऽपातक्षन् ' 'यजुर्य- स्मादपाकषन् । सामानि यस्य लोमानि अथर्वाङ्गिरसो मुख- मित्याद्येकवाक्यत्वसिद्धेः । तस्मादेव अश्वा अन्ये चोर्ध्वाधोदन्तयुक्ता गर्दभारवतरादयो अजायन्त ह स्फुटम् । तस्माद्यज्ञात् अजा अवयश्च । तं यज्ञपुरुषं यज्ञसाधनभूतं यज्ञं पुरुषं इज्यतेऽनेन यज्ञस्तं पुरुषं पशुत्व- माभाव्य यूपे बद्धं बर्हिषि मानसे यज्ञे प्रोक्षन् प्रोक्षितवन्तः । प्रोक्षणादि- संस्कारैः संस्कृतवन्तः । कीदृशं पुरुषं अग्रतो जातं विराजोऽधिपुरुषः इत्याद्युक्तरीत्या तेन पुरुषेण पशुना देवा अयजन्त मानसन्यज्ञं कृतवन्तः के ते देवा साध्याः सृष्टिसाधनयोग्याः प्रजापतिप्रभृतयः, ये च तदनु- कूला ऋषयः मन्त्रद्रष्टारः ते सर्वेऽपि तेनैव मानसं यज्ञं कृतवन्तः । ब्रह्मादिनां प्रश्नोत्तररूपेण ब्राह्मणादिसृष्टिमुक्ता । प्रजापतेः प्राणभूता देवा यदा यदा पुरुषं व्यदधुः उत्पादितवन्तस्तदा कतिधा कतिभिः प्रकारैः विविधं कल्पितवन्तः । अस्य पुरुषस्य मुखं किमासीत् बाहू ऊरू तथा पादौ किमुच्येते तदुत्तरञ्च ब्राह्मणो ब्राह्मणत्वजातिविशिष्टः पुरुषोऽस्य मुखमासीद् ब्राह्मणोऽस्य मुखादुत्पन्न इत्यर्थः । तज्जत्वाद्रत्र सामानाधि- करण्यम् । पद्भ्यां शूद्रोऽजायत । चन्द्रमा मनसो जात इत्याद्युत्तरवाक्य- स्वारस्यानुरोधात् । राजन्यः क्षत्रियत्वजातिविशिष्टः पुरुषोऽस्य बाहू बाहुभ्यामुत्पन्न इत्यर्थः । तत्तदानीमस्य प्रजापतेरीश्वरस्य प्रकृतस्य पुरुषा- वयविनः ऊरू वैश्यः सम्पन्नः । ऊरूभ्यां वैश्य उत्पन्नः तथास्य पद्भ्यां शूद्र उत्पन्नः । एवं दध्यादि द्रव्याणि गवाद्यः पशवः ऋगादिवेदाः ब्राह्मणादयो मनुष्याः यथा सर्वमेधाख्यात् यज्ञपुरुषात् प्रादुर्भूताः, तथैव चन्द्रादयो देवा अपि तस्मादेवोत्पन्नाः । तस्य मनसश्चन्द्रमा चक्षुषः सकाशात् सूर्योऽजायत वायुः प्राणश्च श्रोत्रात् कर्णात् अजायत । अग्निरस्य
पृष्ठ २६७
वेदस्वरूप विमर्शः २६७ मुखादजायत । नाभेरन्तरिक्षम् शीष्णों द्यौः पद्भ्यां भूमिरुत्पन्ना श्रोत्राद्दिश उत्पन्नाः । तेन भूरादीन् लोकान् तस्यावयवभूतानवयवान् अकल्पयन् विद्वांसः । 'यत्पुरुषेण हविषा देवा यज्ञमतन्वत । वसन्तोस्यासीदाज्यं ग्रीष्म इध्मः शरद्धविः ॥' यद्यदा पूर्वोक्तक्रमेण देवशरीरेषु सत्सु देवा उत्तरसृष्टिसिद्ध्यर्थं बाह्यद्रव्यानुपपत्तवेन पुरुषस्वरूपमेव मनसा हविष्ट्वेन संकल्प्य पुरुषाख्येन हविषा मानसं यज्ञमतन्वत तदानीमस्य यज्ञस्य वसन्त ऋतु राज्यमासीत् । आज्यत्वेन संकल्पितवन्तः । एवं ग्रीष्म इध्मः शरद् हविः पूर्वं पुरुषस्य हविः सामान्यरूपत्वेन संकल्पः, अनन्तरं वसन्तादीनामा- ज्यादिविशेषत्वेन संकल्पः । यत् यदा देवा प्रजापतिप्राणेन्द्रियरूपा यज्ञं तन्वाना पुरुषं पशुमबध्नन् विराट्पुरुषमेव पशुत्वेन भावितवन्तः, तस्य यज्ञस्य गायत्र्यादीनि सप्त छन्दांसि परिधयः आसन् । ऐष्टिकस्याहवनी- यस्य त्रयः परिधयः औत्तरवेदिकाह्वयः आदित्यः सप्तमः प्रतिनिधिद्रूपः । 'गुप्त्यै वा अभितः परिधयः भवन्त्यथैतत्सूय्र्यमेव पुरस्ताद्गोप्तारं करोति' इति श्रुतेः । त्रिःसप्त त्रिगुणाः सप्त एकविंशतिसंख्याकाः समिधःकृताः । द्वादशमासा पञ्चर्त्तवस्त्रय इमे लोका असावादित्यः एते एकविंशतिदारु- युक्तेन्धनत्वेन भाविताः । अथवा सप्तसमुद्रा क्षीरोदादयोऽस्य यज्ञस्य परिधयः भारतस्यैव यज्ञभूमित्वात् समुद्राणां परिधित्वम् । त्रिगुणाश्छन्दो वर्गाः समिधः कृतः । एवं देवा यथोक्तेन यज्ञेन यज्ञस्वरूपम् प्रजापतिम् अयजन्त पूजित- वन्तः । तस्मात्तान्येव प्रसिद्धानि धर्माण्यासन् । जगद्रूपविकारधार- कत्वाद्धर्माणि । यत्र विराद् प्राप्तिरूपे नाके पूर्वे साध्याः पुरातना विराडु- पाधिसाधकाः देवाः सन्ति तं नाकं स्वर्गं ह् एव ते महिमानः तदुपासका महिमानः सचन्त सचन्ते समवयन्ति प्राप्नुवन्ति । 'सूर्याचन्द्रमसौ धाता यथापूर्वमकल्पयत्' इत्यादि श्रुतेः । तदेवं पुरुषसूक्तस्य निष्कृष्टोऽर्थः नात्र भवकल्पनानां प्रसरः । यदपि चोक्तम्-‘अन्ये सर्वेऽपि यज्ञा अग्नौ सोमाहुतिरूपाः, चयन-