वेद स्वरूप विमर्श (स्वामी करपात्री जी महाराज - अपौरुषेय वेद-प्रामाण्य एवं वैदिक समन्वय)

वेद स्वरूप विमर्श (स्वामी करपात्री जी महाराज - अपौरुषेय वेद-प्रामाण्य एवं वैदिक समन्वय)
Veda Swaroop Vimarsha of Swami Karpatri Maharaj
धर्मसम्राट् स्वामी करपात्री जी महाराज द्वारा
DevanagariHindipublished237 पृष्ठ
पृष्ठ 15, कुल 237 में से
संदर्भ में पढ़ेंपृष्ठ 15
[पृष्ठ ४]
४ वेदस्वरूप-विमर्शः स्यात् कर्मणां प्रातरादिभेदेन ऋगादिमत्त्वम्, तत्त्वान्तरैरपि कथमशून्य- त्वव्यवस्था सूर्यस्य सेत्स्यति। अत एव च सूर्यस्य त्रयीमयत्वम्। यदुक्तम्- "ऋग्भिः पूर्वाह्णे दिवि देव ईयते यजुर्वेदे तिष्ठति मध्येऽह्नः। सामवेदेनास्तमये महीयते वेदैरशून्यस्त्रिभिरेति सूर्यः ॥" (तै० ३।१२।९।१) इति श्रुतिः आरम्भमध्यान्तिमानां भागानामृग्यजुःसामत्वमाम्नाती"ति। तदपि न युक्तम्; दिवसस्य पूर्वाह्नादिभागेषु सूर्यस्य ऋगादियुक्तत्वो- क्त्या भागत्रयस्य ऋगादित्वात्सिद्धेः। नहि 'मध्याह्ने छत्रधर' इत्युक्त्या मध्याह्नस्य छत्ररूपत्वं वक्तुं शक्यम्। सायणीयो मन्त्रार्थस्तु-'दिवि वर्तमान आदित्यो देवः पूर्वाह्णे काल ऋग्देवताभिः सह