वेद स्वरूप विमर्श (स्वामी करपात्री जी महाराज - अपौरुषेय वेद-प्रामाण्य एवं वैदिक समन्वय)
Veda Swaroop Vimarsha of Swami Karpatri Maharaj
धर्मसम्राट् स्वामी करपात्री जी महाराज द्वारा
पृष्ठ 155, कुल 237 में से
संदर्भ में पढ़ें२८४ वेदस्वरूप-विमर्शः कुत्र तर्हि दैवासुरव्यापारस्य प्रतिपादनमिति अन्वाख्याने सृष्टयनुक्रम- कथनरूपे ब्राह्मणे यदि देवैः सार्धमसुरसृष्टिप्रतिपादनं तन्न, एकमेव प्रवृत्ते इतिहासे यत्प्रतिपादनं तदेकम् तदुभयं नास्ति, सृष्टिसमय एव पाप्मवेधेन तेषां पराभूतत्वात् । यदि सृष्ट्यन्वाख्यानगता देवा अन्ये ऐतिहासिका- श्चान्ये तदा सृष्टिसमयपराभूतत्वात् सृष्ट्यन्वाख्यानगतानामेव पराभूत- त्वात्तेषामेवासत्त्वकथनं युक्तं स्यान्नैतिहासिकानाम्। इह पराभवमात्रे- णैवात्रासत्त्वोक्तिः। एतदभिप्रा येणैव मंत्रेऽप्युक्तम् 'न त्वं युयुत्से कतमञ्च नाहंन्नतेऽमित्रो मघवन् कश्चनास्ति । मायेत्सा यानि युद्धान्याहुः, नाद्य शत्रुन्नन्नु पुरा युयुत्स इति त्वत्प्रतिभटानामसुराणामभावात् न त्वं युद्धं कृतवान् मायामात्र