भारतकोश
वेद स्वरूप विमर्श (स्वामी करपात्री जी महाराज - अपौरुषेय वेद-प्रामाण्य एवं वैदिक समन्वय)

वेद स्वरूप विमर्श (स्वामी करपात्री जी महाराज - अपौरुषेय वेद-प्रामाण्य एवं वैदिक समन्वय)

Veda Swaroop Vimarsha of Swami Karpatri Maharaj

धर्मसम्राट् स्वामी करपात्री जी महाराज द्वारा

DevanagariHindipublished237 पृष्ठ

पृष्ठ 158, कुल 237 में से

संदर्भ में पढ़ें
पृष्ठ 158

२४० वेदस्वरूप-विमर्शः उपरिष्टादाज्यभागाः स यजमानं स्वर्गलोकमभिवहति य एवमेतद्वेद । अनया आख्यायिकया स्पष्टमिदं सिद्धयति यद्दर्शपूर्णमासभूता अध्यात्मं याः क्रियास्ता एव दन्तलोमाद्युत्पादिकास्तत्र परिवर्त्तनादिकारिण्यश्च भवन्ति । ये तु दर्शपूर्णमासादिष्वनुष्ठीयमानाः क्रिया एव दन्तमूलाद्युत्पादिकाः इत्यागृह्णीरन् ते सर्वेषु प्राणिषु दन्तलोमाद्युत्पत्तिं तत्परिवर्त्तनानि च न समाधातुमीशते । येऽपि द्विजातिरिक्ता म्लेच्छादिका दर्शपूर्णमासादिकं नानुतिष्ठन्ति तेषामपि दन्तलोमादिर्जायते परिवर्तते च तस्मान्मूलतया प्राणादिक्रिययैव तात्पर्य्यं नेयं स्यात् । अधिदैवञ्च या गायत्री सैव यजमानं स्वर्गे लोके प्रापयतीति च । तदित्थं मूलभूतं प्राकृतं यज्ञमेवावलम्ब्य कृत्रिमा यज्ञा वेदेषु विहिताः। [L

वेद स्वरूप विमर्श (स्वामी करपात्री जी महाराज - अपौरुषेय वेद-प्रामाण्य एवं वैदिक समन्वय) · पृष्ठ 158, कुल 237 में से · BharatKosha