वेद स्वरूप विमर्श (स्वामी करपात्री जी महाराज - अपौरुषेय वेद-प्रामाण्य एवं वैदिक समन्वय)
Veda Swaroop Vimarsha of Swami Karpatri Maharaj
धर्मसम्राट् स्वामी करपात्री जी महाराज द्वारा
पृष्ठ 171, कुल 237 में से
संदर्भ में पढ़ें११६ वेदस्वरूप-विमर्श तत्रापि वेदादसंदिग्धाविपर्यस्तार्थबुद्धेर्निष्पन्नत्वेन प्रामाण्यासद्धेरभावाच्च । द्वेषादसिद्धयुक्त्याऽपि न तदप्रामाण्यम् । न चात्मेच्छाद्वेषादिभिरप्रामाण्यं वक्तुं युक्तम्; अग्निदाहादिदुःखप्रत्यक्षस्याप्रामाण्यापादनासम्भवात् । अभिलषितस्य ज्ञानस्याभिलाषविषयत्वमात्रे प्रामाण्यानुपपत्तेश्च । तस्मा- दालोकवत् वेदेन सर्वसाधारन्येन संदिग्धाविपर्यस्तार्थावबोधजननात् स्वाभाविकमेव प्रामाण्यम् । यदुक्तम् 'वेदार्थो दुर्बोधः लोके प्रमाणान्तरपरिच्छेद्यत्वाद्वाक्यार्थस्य तदवगमोपायतवं शब्दानां योजयितुं शक्यते । वेदार्थस्त्वतीन्द्रियः । न च रागादिमतां तद्दर्शनकौशलमस्ति । अत एव तद्दर्शिनां वृद्धव्यवहारा- दिना व्युत्पत्तिरपि न सम्भवति । न च वेदे 'वृद्धिरादैजि'ति पाणिनिरिव [