भारतकोश
वेद स्वरूप विमर्श (स्वामी करपात्री जी महाराज - अपौरुषेय वेद-प्रामाण्य एवं वैदिक समन्वय)

वेद स्वरूप विमर्श (स्वामी करपात्री जी महाराज - अपौरुषेय वेद-प्रामाण्य एवं वैदिक समन्वय)

Veda Swaroop Vimarsha of Swami Karpatri Maharaj

धर्मसम्राट् स्वामी करपात्री जी महाराज द्वारा

DevanagariHindipublished237 पृष्ठ

पृष्ठ 177, कुल 237 में से

संदर्भ में पढ़ें
पृष्ठ 177

३२८ वेदस्वरूप-विमर्शे

प्रवर्तकबोधपरत्वमेव, नतु कर्तृबोधकत्वम् । 'यो वै ब्रह्माणं विदधाति पूर्वं यो वै वेदांश्च प्रहिणोति तस्मै' इति श्रुत्यनुरोधात् चतुर्मुखस्य विधाता- पीश्वरो न वेदान् विदधाति, किन्तु विद्यमानानेव ब्रह्मणो हृदि प्रहिणोति । अपि च—को वेदकर्ता भवेत् ? कश्चिन्मनुष्यो वा, योगी वा, ईश्वरो वा ? नाद्यः; मनुष्येषु धर्मादिज्ञानस्य वेदजन्यत्वादेव तत्कर्तृत्वासम्भ- वात् । न द्वितीयः; धर्माधर्मादिज्ञानं योगिनो बाह्येन्द्रियजन्यं, मनोजन्यं वा ? नाद्यः; धर्माधर्मादेर्बाह्येन्द्रियायोग्यत्वात् । न द्वितीयोऽपि, आत्मन- स्तद्योग्यगुणातिरिक्तज्ञानजनने मनसोऽसामर्थ्यात् । धर्माधर्मयोरात्म- गुणत्वेऽपि अयोग्यत्वान्न मनोविषयत्वं सम्भवति । अपि च योगिनो योगज सामर्थ्यमपि निर्हेतुकं, सहेतुकं वा ? तत्र