वेद स्वरूप विमर्श (स्वामी करपात्री जी महाराज - अपौरुषेय वेद-प्रामाण्य एवं वैदिक समन्वय)
Veda Swaroop Vimarsha of Swami Karpatri Maharaj
धर्मसम्राट् स्वामी करपात्री जी महाराज द्वारा
पृष्ठ 178, कुल 237 में से
संदर्भ में पढ़ें३३० | वेदस्वरूप-विमर्श निःसृतत्वाभ्युपगमेऽनाश्वास इति, तन्न; विकल्पस्य सर्व- विज्ञानत्वाविरोधात् । द्विविधो हि विकल्पः, विपर्यासपूर्वकः अतत्पूर्वकश्च । विपर्यासपूर्वकः सर्वसाधारणश्च अतत्पूर्वकस्तत्रभवतः सर्ववेदिनः । न खल्वसौ भ्रान्तो विकल्पयानपि, किन्तु विदित- समस्तवस्तुतत्त्वविस्तारः, करुणापराधीनमानसो दुःखिन उपदेष्टु- कामः । न च वचनमन्तरेण तत्सम्भवः विकल्पं विना वचन- मप्यसम्भवीति, तस्यास्तारिकत्वं विद्वानपि तमाद्रियते । यथा नैरात्म्यतत्त्वं विद्वानपि विकल्पसमारोपितमात्मानं निषेधति नास्त्यात्मेति, यथा वा वैयाकरणो गाथादिशब्दानसाधून जानन्नो- ऽपि पृथग्जनप्रतिपिपादयिषया प्रयुञ्जानोऽपि नापशब्दकारी । तद्विद्माहार्यमस्य रूपं न तात्त्विकमिति तत्त्वविदो नोपदेश- विरोधः । न चैषां